________________ अणुओग ३५०-अभियानराजेन्द्रः-भाग 1 अणुओग शिष्योऽनुयोगी, ततो वन्दते गुरुस्तं शिष्यसहितैः शेषसाधुभिः सन्निहितैरिति गाथार्थः // 64|| भणइ अकुरु वक्खाणं, तत्थ ठिओ चेव सो तओ कुणइ। णंदाइजहासत्ती, परिसं नाऊण वा जोग्गं / 65 // भणति च-कुरु व्याख्यानमिति तमभिनवाऽऽचार्य, तत्र स्थित | एव / ततोऽसौ करोति तद्व्याख्यानमिति नन्द्यादि यथाशक्त्येति तद्विषयमित्यर्थः / पर्षदं च ज्ञात्वा योग्यमन्यदपीति गाथार्थः। आयरिअनिसज्जाए, उवविसणं वंदणंच तह गुरुणो। तुल्लगुणखावणट्ठा, न तया दुटुं दुविण्हं पि॥६६|| आचार्यनिषद्यायामुपवेशनम्, अभिनवाचार्यस्य वन्दनं च तथा गुरोः, प्रथममेवाऽऽचार्यस्य तुल्यगुणख्यापनार्थ लोकानां, न तदा दुष्ट द्वयोरपि शिष्याचार्ययोर्ययोर्यातमेतदिति गाथार्थः / / 66|| वंदंति तओ साहू, उत्तिट्ठइ अतओ पुणो णिसिजाओ। तत्थ निसीअइ अगुरू, उवबूहण पढममन्ने उ॥६७।। वन्दन्तेततःसाधवः, व्याख्यानसमनन्तरमुत्तिष्ठतिचततःपुनर्निषद्याया अभिनवाचार्यः, तत्र निषद्यायां निषीदति च गुरुमौलः, उपबृंहणमत्राऽन्तरे प्रथमम् / अन्ये तु व्याख्यानादिति गाथार्थः / / 67 / / धण्णोऽसि तुमं णायं, जिणवयणं जेण सव्वदुक्खहरं / तं सम्ममियं भवया,पओजिअव्वं सयाकालं // 6 // धन्योऽसि त्वं सम्यग ज्ञातं जिनवचनं येन भवता सर्वदुःखहरं मोक्षहेतुस्तत्सम्यगिदं भक्ता प्रवचननीत्या प्रयोक्तव्यं सदा सर्वकालमनवरतमिति गाथार्थः // 65 // इहरा उरिणं परमं, असंमजोगे अजोगओ अवरो। ता तह इह जइअव्वं,जह एत्तो केवलं होइ॥६६॥ इतरथा तु रिणं परममेतदसम्यग्योगे सुखशीलतया असम्यग-योगश्च अयोगतोऽप्यपरः पापीयान् द्रष्टव्यः / तत्तथेह यतितव्य-मुपयोगतो यथाऽतः केवलं भवति, परमज्ञानमिति गाथार्थः / / 66 // परमो अएस हेऊ, केवलनाणस्स अन्नपाणीणं / मोहावणयणओ तह, संवेगाइसयभावेणं // 7 // परमश्चैष जिनवचनप्रयोगहेतुः केवलज्ञानस्य, अवन्ध्य इत्यर्थः / कुत इत्याह- अन्यप्राणिनां मोहापनयनात् मोहाऽपसरणकारणात्, तथा संवेगातिशयभावेनोभयोरपीति गाथार्थः // 70|| एवं उब्बूहेउं, अणुओगविसज्जणट्ठमुस्सग्गो। कालस्स पडिक्कमणं पवेअणं संघविहिदाणं // 71 / / एवमुपबृंह्य तमाचार्यमनुयोगविसर्जनाऽर्थमुत्सर्गः क्रियते / कालस्य प्रतिक्रमणं, तदात्वे प्रवेदनं, निरुद्धस्य संघविधिदानं यथाशक्ति नियोगत इति गाथार्थः // 71|| पच्छा य सोऽणुओगी,पवयणकजम्मि निचमुजुत्तो। जोगाणं वक्खाणं, करिज सिद्धतविहिणा उ॥७२।। पश्चाच सोऽनुयोगी आचार्यः प्रवचनकार्ये नित्यमुद्युक्तः सन् योगेभ्यो विनेयेभ्यः व्याख्यानं कुर्याद् गुर्वादेशाज्ञासिद्धान्त-विधिनैवेति गाथार्थः ॥७२।योग्यानाहमज्झत्था बुद्धिजुआ, धम्मत्थी ओघओ इमो जोग्गा। तह चेव पसत्थाई, सुत्तविसेसं समासज्ज // 73 // मध्यस्थाः सर्वत्राऽरक्तद्विष्टाः, बुद्धियुक्ताः प्राज्ञाः, धर्मार्थिनः परलोकभीरवः,ओघतः सामान्येनैते योग्याः सिद्धान्तश्रवणस्यातथैव प्रशस्तादयो योग्याः आदिशब्दात् परिणामकादिपरिग्रहः, सूत्रविशेषमङ्गचूडादिरूपं समाश्रित्येति गाथार्थः / / 73 / / मध्यस्थादिपदानां गुणानाहमज्झत्थाऽसग्गाह, एत्तो वि अ कत्थई न कुव्वंति। सुद्धासयाय पायं, होति तहाऽऽसन्नभव्वाय॥७४|| मध्यस्थाः प्राणिनः असद्ग्राहं तत्त्वावबोधशत्रुम, अत एव क्वचिद् वस्तुनि न कुर्वन्ति, अपि तु मार्गानुसारिमतय एव भवन्ति, तथा शुद्धाशयाश्च मायादिदोषरहिताः प्रायो भवन्ति मध्यस्थाः, तथाऽऽसन्नभव्याश्च, तेषु सफलः परिश्रमः, इति गाथार्थः // 74 / / बुद्धिजुआ गुणदोसे, सुहुमे तह बायरे य सव्वत्थ / सम्मत्तकोडिसुद्धे, तत्तट्टिईए पवजंति।।७।। बुद्धियुक्ताः प्राज्ञा गुणदोषान् वस्तुगतान् सूक्ष्मांस्तथा बादरांश्च सर्वत्र विषये सम्यक्त्वकोटिशुद्धान् कषच्छेदतापशुद्धांस्तत्त्व स्थित्याऽतिगम्भीरतया प्रपद्यन्ते साध्विति गाथार्थः // 75|| धम्मत्थी दिट्टत्थे, दढो व्व पंकम्मि अपडिबंधाओ। उत्तारिजति सुह, धन्ना अन्नाणसलिलाओ॥७६|| धर्मार्थिनः प्राणिनः दृष्टार्थे ऐहिके दृढ इव पङ्के ऽप्रतिबन्धात् कारणादुत्तार्यन्ते पृथक् क्रियन्ते सुखं, धन्याः पुण्यभाजः / कुतः ? अज्ञानसलिलात् मोहादिति गाथार्थः // 76 // पत्तो अकप्पिओ इह, सो पुण आवस्सगाइसुत्तस्स। जा सूअगडं ताजं,जेणाऽधीअंति तस्सेव।।७७|| प्राप्तश्च कल्पिकोऽत्र भण्यते, स पुनरावश्यकादिसूत्रस्य यावन् सूत्रकृतं द्वितीयमङ्गं तावद् यद् येनाऽधीतमिति पठित-मित्यर्थः। तस्यैव तान्यस्येति गाथार्थः // 77|| छेअसुआईएसु अ, ससमयभावे वि भावजुत्तोजो। पिअधम्मऽवञ्जभीरू, सो पुण परिणामगो णेओ ||78|| छेदसूत्रादिषु च निशीथादिषु स्वसमयभावेऽपि स्वकालभावेऽपि भावयुक्तो यः विशिष्टाऽन्तःकरणवान् प्रियधर्मस्तीव्ररुचिरवद्यभीरुः पापभीरुः, स पुनरयमेवंभूतः परिणामको ज्ञेयः, उत्सर्गाऽपवादविषयप्रतिपत्तेरिति गाथार्थः / / 78|| एतदेवाऽऽहसो उस्सग ईणं, विषयविभागं जहट्ठिअंचेव। परिणामेइ हियं ता, तस्स इमं होइ वक्खाणं // 7 // स परिणामकः, उत्सर्गापवादयोर्विषयविभागमौचित्येन यथाऽवस्थितमेव सम्यक् परिणमयत्येवमेव हितं, तत्तस्मात् कारणात् तस्येदं भवति व्याख्यानं सम्यगबोधादिहेतुत्वेनेति गाथार्थः // 76 अइपरिणामगऽपरिणामगाण पुण चित्तकम्मदोसेणं / उदियं विष्णेयं दोसुदए ओसहसमाणं उ॥८०|| अतिपरिणामकापरिणामकयोः पुनः शिष्ययोश्चित्रकर्मदोषेण हेतुनोदितमेव विज्ञेयं व्याख्यानं, दोषोदये औषधसमानं विपर्ययकारीति गाथार्थः / / 2011 तेसिं तचिय जायइ, जओ अणत्थो तओ ण मइणं तेसिं चेव हियट्ठा, करिज पुजा तहा चाऽऽहु||१|| तयोरतिपरिणामकाऽपरिणामकयोः, तत एव व्याख्यानात्