________________ अणुओग 349 - अभिधानराजेन्द्रः - भाग 1 अणुओग तथाअविणिच्छिओ ण सम्म, उस्सग्गाववायजाणओ होइ। अविसयपओगओ सिं,सो सपरविणासओ नियमा।।४६|| अविनिश्चितः समये, न सम्यगुत्सर्गापवादज्ञो भवति सर्वत्रैव, / ततश्चाऽविषयप्रयोगतोऽनयोरुत्सर्गाऽपवादयोः, तथाविधः, स्वपरविनाशको नियमात्, कूटवैद्यवदिति गाथार्थः // 46 // ता तस्सेव हिअट्ठा, तस्सीसाणमणुमोअगाणं च। तह अप्पणो अधीरो, जोग्गस्सऽणुजाणइ एवं // 50 // तत्तस्मात् तस्यैवाधिकृतानुयोगधारिणः हितार्थ परलोके, तथा तच्छिष्याणां भाविनामनुमोदकानां च तथाविधाऽज्ञप्राणिनां, तथाऽऽत्मनश्च हितार्थमाज्ञाराधनेन धीरो गुरुयोग्याय विनेयाय अनुजानाति एवं वक्ष्यमाणेन विधिनाऽनुयोगमिति गाथार्थः / / 50|| तिहिजोगम्मि पसत्थे, गहिए काले निवेइए चेव। ओसरणमह णिसिज्जा-रयणं संघट्टणं चेव // 51|| तिथियोगे प्रशस्ते संक्रान्तिपूर्णिमादौ, गृहीते काले, विधिना निवेदिते चैव गुरोः समवसरणम् / अथ निषद्यारचनमुचितभूमावपि गुरुनिषद्याकरणमित्यर्थः / संघट्टनं चैवाऽनिक्षेप इति गाथार्थः / / 51 // तत्तो पवेइआए, उवविसइ गुरुओ णिअनिसिजाए। पुरओ चिट्ठइ सीसो, सम्म जहाजायउवकरणो // 52 // ततस्तदनन्तरं रचकेन साधुना प्रवेदितायांकथितायां सत्या-मुपविशति गुरुराचार्य एव, न शेषसाधवः। क्वेत्याह ? निज-निषद्यायां, या तदर्थमेव रचितेति / पुरतश्च शिष्यस्तिष्ठति प्रक्रान्तः, सम्यगसंभ्रान्तः, यथाजातोपकरणो रजोहरणमुख-वस्विकाऽऽदिधरः, इति गाथार्थः // 52 // पेहिंति तओ पोतं,तीए अस सीसगं पुणो कायं। बारसवंदण संदिस,सज्झायं पट्ठवामो त्ति॥५३।। प्रत्यवेक्षेते तदनन्तरं मुखवस्त्रिका द्वावपि, तया च मुखवस्त्रिकया स शिरः पुनः कायं प्रत्यवेक्षेते इति / ततः शिष्यो द्वादशाऽऽवर्त्तवन्दनपुरस्सरमाह- संदिशत यूयं स्वाध्यायं प्रस्थापयामः? प्रकर्षेण वर्तयाम इति गाथार्थः / / 53|| पट्ठवणाऽणुण्णाए, तत्तो दुअगा वि पट्ठवेइत्ति। तत्तो गुरू निसीअइ, इअरो वि णिवेअइतं ति // 54|| प्रस्थापयेत्यनुज्ञाते सति गुरुणा, ततो द्वावपि गुरुशिष्यौ प्रस्थापयत इति / ततस्तदनन्तरं गुरुर्निषीदति स्वनिषद्यायाम्, इतरोऽपि शिष्यो निवेदयति तं स्वाध्यामिति गाथार्थः // 54 // तत्तो वि दोवि विहिणा, अगुओगं पढविंति उवउत्ता। वंदित्तु तओ सीसो, अणुजाणावेइ अणुओगं / / 5 / / ततश्च द्वावपि गुरुशिष्यौ विधिना प्रवचनोक्तेनाऽनुयोगं प्रस्थापयतः उपयुक्तौ सन्तौ वन्दित्वा ततस्तदनन्तरं शिष्यः / किमित्याह ? अनुज्ञापयत्यनुयोगं, गुरुणेति गाथार्थः / / 55|| अभिमंतिऊण अक्खे, वंदइ देवं तओ गुरू विहिणा। ठिअ एव नमोक्कार, कड्डइ नदिं च संपुन्नं / / 56|| अभिमन्त्र्य आचार्यमन्त्रेणाऽक्षान् चान्दनकान् वन्दते देवान् चैत्यानि, ततो गुरुर्विधिना प्रवचनोक्तेन / ततः किमित्याहस्थित एवोर्ध्वस्थानेन नमस्कारं पञ्चमङ्गलकमाकर्षयति, त्रिः पठति नन्दी च संपूर्णग्रन्थपद्धतिमिति गाथार्थः / / 56| इअरो वि ठिओ संतो, सुणेइ पोत्तीइ ठइअमुहकमलो। संविग्गे उवउत्तो, अचंतं सुद्धपरिणामो // 57|| इतरोऽपि शिष्यः स्थितः सन्नूर्वस्थानेन शृणोति मुखवस्त्रिकया विधिगृहीतया स्थगितमुखकमलः सन्निति / स एव विशेष्यते- संविज्ञो मोक्षाथीं उपयुक्तः सूत्रैकाग्रतया, अनेन प्रकारेणाऽत्यन्तं शुद्धपरिणामः शुद्धाशय इति गाथार्थः // 57|| तो कड्डिऊण नंदि, भणइ गुरू अहमिमस्स साहुस्स। अणुओगं अणुजाणे,खमासमणाण हत्थेणं // 58|| तत आकृष्य पठित्वा नन्दी भणति गुरुराचार्यः - अहमस्य साधोरुपस्थितस्याऽनुयोगमुक्तलक्षणमनुजानामि क्षमाश्रमणानां प्राकृत-ऋषीणां हस्तेन, न स्वमनीषिकयेति गाथार्थः // 58 / / कथमित्याहदव्वगुणपज्जवेहि अ, एस अणुन्नाउवंदिउं सीसो। संदिसह किं भणामो, वंदणमिह जहेव सामइए / / 5 / / द्रव्यगुणपर्यायाख्याङ्गरूपैरेषोऽनुज्ञात इत्यवान्तरे वन्दित्वा शिष्यःसंदिशत यूयं किं भणामीत्यादि वन्दनं जातं यथैव सामायिके तथैव द्रष्टव्यमिति गाथार्थः / / 56 यदत्र नानात्वं तदभिधातुमाहनवरं सम्मधारय, अन्नेसिं तह पवेयह भणाइ। इच्छामणुसट्ठीए, सीसेण कयाइ आयरिओ॥६०॥ नवरम्, अत्र सम्यग्धारय, आचारसेवनेनेत्यर्थः / अन्येभ्यस्तथा प्रवेदय सम्यगेवेति भणति / कदेत्याह- इच्छाम्यनुशास्तौ शिष्येण कृतायां सत्यामाचार्य इति गाथार्थः / / 60 // तिपयक्खणीकए तो, उवविसए गुरु कए अनुस्सग्गे। सणिसज्जे तिपयक्खिण, वंदणसीसस्स वावारो॥६१।। त्रिः प्रदक्षिणीकृते सति शिष्येण, तत उपविशति गुरुः, अत्राऽन्तरेऽनुज्ञाकायोत्सर्गः, कृते च कायोत्सर्गे तदनु सनिषद्ये गुरौ त्रिःप्रदक्षिणं वन्दनं भावसारं शिष्यस्य व्यापारोऽयमिति गाथार्थः॥६१।। उवविसइ गुरुसमीवे, सो साहइ तस्स तिन्नि वाराओ। आयरियपरंपरए-ण आगए तत्थ मंतपए // 62 // उपविशति गुरुसमीपे तन्निषद्यायामेव दक्षिणपार्थे शिष्यः स गुरुं कथयति / तस्य त्रीन् वारान् / किमित्याह- आचार्यपारम्पर्येणाऽऽगतानि पुस्तकादिष्वलिखितानि तत्र मन्त्रपदानि विधिना सर्वाऽर्थसाधकानीति गाथार्थः // 61|| तथादेइ तओ मुट्ठीओ, अक्खाणं सुरमिगंधसहिआणं / वढंत सो वि सीसो, उवउत्तो गिण्हइ विहिणा॥६३।। ददाति ततः त्रीन् मुष्टीनाचार्यो ऽक्षाणां चन्दनकानां सुरभिगन्धसहितानां, वर्द्धमानान् प्रतिमुष्टिं सोऽपि च शिष्य उपयुक्तः सन् गृह्णाति विधिनेति गाथार्थः // 63|| एवं व्याख्याङ्गरूपानक्षान् दत्त्वाउद्वेति निसिज्जाओ, आयरिओ तत्थ उवविसइ सीसो। तो वंदई गुरू तं, सहिओ सेसेहि साहूहि // 64|| उत्तिष्ठति निषद्याया आचार्यो ऽत्राऽन्तरे तत्रोपविशति