________________ अणुओग 347 - अभिधानराजेन्द्रः - भाग 1 अणुओग व्यर्बु शिक्षति, पश्चात् स चाऽलं पटुत्वादतिसुनिपुणमतिः स्वरेणाऽपि विध्यति। तथा पत्रच्छेद्यकार्यं प्रथममकिञ्चित्करैः पत्रैः शिक्ष्यते, ततो यदा निर्मातो भवति, तदा ईप्सितं पत्रच्छेद्यं कार्यते, तथा प्लवकोऽपि प्रथमं वंशे लगयित्वा प्लाव्यते, ततः पश्चादभ्यसन् आकाशेऽपि तानि तानि करणानि करोति / घटकारोऽपि प्रथमतः शरावादीनि कार्यते, पश्चाच्छिक्षितो घटानपि करोति / पटकारोऽपि प्रथमतः स्थूलानि चीवराणि शिक्ष्यते, ततः सुशिक्षतः शोभनानपि पटान वयति / चित्रकारोऽपि प्रथमं मुण्डकं चित्रयितुं शिक्ष्यते, ततः शेषानवयवान्, पश्चात् सुशिक्षितः सर्वं चित्रकर्म सम्यक् करोति / धमकोऽपि पूर्व शृङ्गाऽऽदीन् धमयते, पश्चात् शङ्खम्। अत्रैवोपनयमाहजत्थ मई ओगाहइ, जोगं जं जस्स तस्स तं कहए। परिणामागमसरिसं,संवेगकर सनिव्वेयं // यथैते हस्त्यादयः क्रमेण निर्माप्यन्ते, एवं शिष्यस्याऽपि यत्रमतिरवगाहते, यस्य च यद् योग्यं शास्त्रं, तस्य तत् कथयति / कथंभूतमित्याह- परिणामागमसदृशं यस्य यादृशः परिणामो यस्य च यावानागमः, तत्सदृशं यथेदृशपरिणामस्येदमेताव-दागमस्य पुनरिदमिति / पुनः किं विशिष्टं कथयितव्यमत आह- संवेगकरं सिद्धिर्देवलोकः सुकुलोत्पत्तिरित्यादेरभिलाषः संवेगः, तत्करणशीलं संवेगकरं, तथा नरकस्तिर्यग्योनिः कुमानुषत्वमित्यादेर्विरक्तता निर्वेदः, तत्करणशीलं निर्वेदकरम् / तदेवं योग्येऽपि क्रमेण दाने रागद्वेषाभाव उक्तः / संप्रति शिष्येष्वाचार्येण परिणामकत्वं परीक्ष्याऽनुयोगः कर्तव्यः, शिष्यैरप्याचार्य परीक्ष्य तस्य सकाशे श्रोतव्यमिति। शिष्याऽऽचार्ययोः परस्परविधिमतिदेशत आहगेहंत गाहगाणं, आइएस विहि समक्खाओ। सा चेव य होइ इयं, उज्जोगो वन्निओ नवरं / / गृह्णतां शिष्याणां ग्राहकस्याचार्यस्य आदिसूत्रेषु सामायिकाऽऽदिषु यो विधिः समाख्यातो गोणीचन्दणेत्यादिलक्षणः,स एवेह निरवशेषो वक्तव्यः ।यस्तु-शिष्याणामनुयोगकथने उद्योग उद्यमो, यथा-तिसृभिः परिपाटीभिरथवा सप्तभिः कर्त्तव्यः सः। नवरं, सप्रपञ्चमुपवर्णितः। बृ० 1 उ इदानीमनुयोगविधिरुच्यते- तत्राऽनुयोगो वक्ष्यमाणशब्दार्थः, स यदाऽधीतसूत्रस्याऽऽचार्यप्रस्थापनयोग्यस्य शिष्यस्याऽनुज्ञायते, तदाऽयं विधिः, प्रशस्तेषु तिथिनक्षत्रकरणमुहूर्तेषु, प्रशस्ते च जिनायलनादौ क्षेत्रे भुवं प्रमाय॑ एका गुरुणामेका शिष्याणामिति निषद्याद्वयं क्रियते, ततः प्राभातिककाले प्रवेदिते निषद्यानिषण्णस्य गुरोश्वोलपट्टकरजोहरणमुखवस्त्रिकामात्रोपकरणो विनेयः पुरतोऽवतिष्ठते, ततो द्वावपि गुरुशिष्यौ मुखवस्त्रिका प्रत्युपेक्षयतः, पुनस्तया च समग्रं शरीरं प्रत्युपेक्षयतः, ततो विनेयो गुरुणा सह द्वादशाऽऽवर्तवन्दनक दत्त्वा वदति- इच्छाकारेण संदिशत स्वाध्यायं प्रस्थापयामि। ततश्च द्वावपि स्वाध्यायं प्रस्थापयतः, ततः प्रस्थापिते स्वाध्याये गुरुर्निषीदति।। ततः शिष्यो द्वादशाऽऽवर्तवन्दनकं ददाति / ततो गुरुरुत्थाय शिष्येण सहाऽनुयोगप्रस्थापननिमित्तं कायोत्सर्ग करोति, ततो गुरुर्निषीदति, ततः स शिष्यो द्वादशावर्तवन्दनकेन वन्दते, ततो गुरुरक्षानभिमन्त्र्योत्तिष्ठत्युत्थाय च निषद्यां पुरतः कृत्वा वामपार्थीकृतशिष्य श्चैत्यवन्दकं करोति, ततः समाप्ते चैत्यवन्दनेत्रिर्गुरुरूवंस्थितएव नमस्कारपूर्वनन्दि मुचारयति, तदन्ते चाऽभिधत्ते- मां साधोरनुयोगमनुजानीत, क्षमाश्रमणानां हस्तेन द्रव्यगुणपर्यायैरनुज्ञातस्ततो विनयस्थो वन्दनकेन वन्दते / उत्थितश्च ब्रवीति- संदिशत किं भणामि ? ततो गुरुराहवन्दित्वा प्रवेदय / ततो वन्दते शिष्यः / उत्थितस्तु ब्रवीतिभवद्भिर्ममाऽनुयोगोऽनुज्ञातः, इच्छाम्यनुशास्तिम्। ततो गुरुर्वदतिसम्यगवधारय, अन्येषां च प्रवेदय, अन्येषामपि व्याख्यानं कुर्वित्यर्थः। ततो वन्दते असौ, वन्दित्वा च गुरुं प्रदक्षिणयति, प्रदक्षिणान्ते च भवदिभर्ममाऽनुयोगोऽनुज्ञात इत्याधुक्तिप्रत्युक्तीः करोति / द्वितीयप्रदक्षिणा च तथैव, पुनस्तृतीयाऽपि तथैव, ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति। तत्पुरःस्थितश्च विनेयो वदति-युष्माकं प्रवेदितं संदिशत, साधूनां प्रवेदयामीत्यादिशेषमुद्देश-विधिवद्वक्तव्यम्, यावदनुयोगाऽनुज्ञानिमित्तं कायोत्सर्ग करोति। तदन्ते च सनिषद्यः शिष्यो गुरुं प्रदक्षिणयति। तदन्ते चवन्दन्ते, पुनः प्रदक्षिणयति, एवं त्रीन् वारान, ततो गुरोर्दक्षिणभुजाऽऽसन्ने निषीदति। ततो गुरुपारंपर्य एतानि मन्त्रपदानि गुरुः त्रीन्वारान् शिष्यस्य कथयति, तदनन्तरं प्रवर्द्धमानाः प्रवरसुगन्धमिश्राः तिस्रोऽक्षमुष्टीस्तस्मै ददाति। ततो निषद्याया गुरुरुत्थाय शिष्यं तत्रोपवेश्य यथासन्निहितसाधुभिः सह तस्मै वन्दनकं ददाति। ततो विनेयो निषद्यास्थित एव 'नाणं पंचविहं पण्णत्तं०" इत्यादि सूत्रमुच्चार्य यथाशक्ति व्याख्यानं करोति / तदन्ते च साधुभ्यो वन्दनकं ददाति, ततः शिष्यो निषद्यात उत्तिष्ठति / गुरुरेव पुनस्तत्र निषीदति / ततो द्वावप्यनुयोगविसर्गार्थ कालप्रतिक्रमणार्थ च प्रत्येकं कायोत्सर्गं कुरुतः। ततः शिष्यो निरुद्धं प्रवेदयति, निरुद्धं करोतीत्यर्थः / अनु०। शिष्यं प्रति आचार्येण - एवं वएसु ठवणा, समणाणं वन्निआ समासेणं। अणुओगगणाऽणुन्नं, अओ परं संपवक्खामि॥३१॥ एवमुक्तेन प्रकारेण व्रतेषु स्थापना श्रमणानां साधूनां वर्णिता समासेन संक्षेपेण अनुयोगगणाऽनुज्ञां प्रागुद्दिष्टामतः परम् किमित्याह- संप्रवक्ष्यामि सूत्रानुसारतो ब्रवीमीति गाथार्थः // 31 // किमित्ययं प्रस्तावः? इत्याहजम्हा वयसंपन्ना, कालोचिअगहिअसयलसुत्तत्था। अणुओगाणुनाए, जोगा भणिआ जिणिंदेहिं // 3 // यस्माद् व्रतसंपन्नाः साधवः कालोचितगृहीतसकलसूत्रार्थाः, तदनुयोगवन्त इत्यर्थः। अनुयोगानुज्ञाया आचार्यस्थापनारूपाया योग्या भणिता जिनेन्द्रनाऽन्य इति गाथार्थः॥३२॥ कस्मादित्याहइहराओ मुसावाओ, पवयणखिंसा य होइ लोगम्मि। सिस्साण दि गुणहाणी, तित्थुच्छेओ अभावेण // 33 // इतरथा अनीदृशानुयोगानुज्ञायां मृषावादः, गुरोस्तमनुजानतः प्रवचनखिंसा च भवति लोके, तथाभूतप्ररूपणात्। ततः शिष्याणामपि गुणहानिः, सन्नायकाभावात्। तीर्थोच्छेदश्च भवेत्ततः, सम्यग्ज्ञानाद्यप्रवृत्तेरिति द्वारगाथार्थः // 33 // व्यासार्थं त्वाह - अणुओगो वक्खाणं, जिणवरवयणस्स तस्सऽणुण्णा उ। कायव्वमिणं भवया, विहिणा सइ अप्पमत्तेणं // 3 // अनुयो गो व्याख्यानमुच्यते जिनवरवचनस्याऽऽगमस्य,