________________ अणुओग 345 - अभिधानराजेन्द्रः - भाग 1 अणुओग न च महत्त्वमेकान्तेनाऽर्थस्येत्यादि, तदप्यपरिभावितपरिभाषितम् / यदुत्क्षिप्तज्ञातादिषु सत्त्वाऽनुकम्पादिकोऽर्थः, तावन्मात्रस्य सूत्रस्य, अशेषस्य तु शेषोऽर्थः / उक्तोऽनुयोगः / बृ०१ उ०। स्वाभिधायकसूत्रेण सहाऽर्थस्याऽनुगीयतेऽनूकुलो वा योगोऽस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्यः प्रति पादनमनुयोगः, सूत्राऽर्थकथनमित्यर्थः / अथवा एकस्याऽपि सूत्रस्याऽनन्तोऽर्थ इत्यर्थो / महान्, सूत्रत्वणु, ततश्वाऽणुना सूत्रेण सहाऽर्थस्ययोगोऽणुयोगः। तदुक्तम्निययाऽणुकूलजोगो, सुत्तस्सऽत्थेण जोय अणुओगो। सुत्तं च अणुं तेन, जोगो अत्थस्स अणुओगो।।१।। अनु० दशला नं०। आ० म०प्र०ा जं०1 आचा। (13) अधुना विधिद्वाराऽवसरः, तत्र येन विधिनाऽनुयोगः कर्त्तव्यस्तमाहसुत्तत्थो खलु पढमो, बिइओ निजत्तिमीसिओ भणिओ। तइओ य निरवसेसो, एस विही भणिय अणुओगे।। प्रथमस्य श्रोतुःप्रथमंतावत् सूत्राऽर्थः कथनीयः - यथा नो कप्पइ निग्गंथाणं वा निग्गंथीणं वा आमे तालपलंबे अभिन्ने, पडिगाहित्ताए। अस्याऽर्थः - नो इति प्रतिषेधे, न कल्पते, न वर्तत इत्यर्थः। नैषांग्रन्थो विद्यते इति निर्गन्थाः, तेषां, वा विभाषायाम्, निर्गन्थीनां वा, आममपक्वं , तालो वृक्षस्तालभवं तालं, तालफलमित्यर्थः / प्रलम्बं मूलं, तदपि तस्यैव तालवृक्षस्य प्रतिपत्तव्यम् / ततः समाहारः / अभिन्नमव्यपगतजीव, प्रतिग्रहीतुमिति / एवं तावत् कथयितव्यं यावद्ध्ययनपरिसमाप्तिस्ततो द्वितीयस्यां परिपाट्यां नियुक्तिमिश्रितः पीठिकया सूत्रस्पर्शिकनियुक्त्या च समन्वितः, सोऽपि यावदध्ययनपरिसमाप्तिस्तावत्कथनीयः। तृतीयस्यां परिपाट्यामनुयोगो निरवशेषो वक्तव्यः, पदपदार्थचालना-प्रत्यवस्थानादिभिः सप्रपञ्च समस्तं कथयितव्यमिति भावः। एष विधिरनुयोगे ग्रहणधारणादिसमर्थान् शिष्यान् प्रतिवेदितव्यः। मन्दमतीन प्रति प्रकारान्तरेणाऽनुयोगविधिमाहमूर्य हुंकारं वा, बाढक्कार पडिपुच्छ मीमंसा। तत्तो पसंग पारायणं च परिणि? सत्तमए।। प्रथमतः शृणुयात् / किमुक्तं भवति? प्रथमश्रवणे संयतगात्रस्तूष्णीमासीत्, ततो द्वितीये श्रवणे हुंकारं दद्यात्, वन्दनं कुर्यादित्यर्थः / तृतीये बाढङ्कारं कुर्यात्, बाढमेवमेतद् नाऽन्यथेति प्रशंसेदित्यर्थः / चतुर्थे गृहीतपूर्वापरसूत्राभिप्रायो मनाक् प्रति-पृच्छां कुर्यात्, यथा कथमेतदिति ? पञ्चमे मीमांसां प्रमाणजिज्ञासा कुर्यात् / षष्ठे तदुत्तरोत्तरगुणे प्रसङ्गः, पारगमनं चाऽस्य भवति / ततः सप्तमे परिनिष्ठां गुरुवदनुभाषत इत्यर्थः / यत एवं मन्दमेधसां श्रवणपरिपाट्या विवक्षिताऽध्ययनाऽर्थावगमः, ततस्तान् प्रति सप्त वारान अनुयोगो यथाप्रतिपत्ति कर्तव्यः / अत्र परावकाशमाहचोइए रागदोसा, समत्थ परिणामगे परूवणया। एएसिं नाणत्तं, वोच्छामि अहाणुपुव्वीए। शिष्ये नोदयति प्रश्नयति समर्थे ग्रहणधारणासमर्थे, तथा परिणामके। उपलक्षणमेलत्-ग्रहणधारणासमर्थेऽतिपरिणामके च या प्ररूपणा तया युष्माकं रागद्वेषौ प्रसज्यतः। तथाहितिसृभिः परिपाटीभिरेकान् ग्राहयतो रागोऽपरान् सप्तभिः परिपाटीभिर्दाहयतो द्वेषः / तथा परिणामकान् ग्राहयतो रागः, इतरानतिपरिणामकान् परिहरतश्च द्वेषः / एतेषां ग्रहणधारणा-समर्थाऽसमर्थानां परिणामकादीनां च यथानुपूर्व्या क्रमेण नानात्वं वक्ष्ये, तत्र प्रतिज्ञातमेव निर्वाहयेत्। प्रथमतो ग्रहणधारणासमर्थाऽसमर्थान् प्रति रागद्वेषावाह-- मच्छरया अविमुत्ती, पूया सक्कार गच्छइ अखिन्नो। दोसा गहणसमत्थे, इयरे रागो उ वुच्छेयो / / ग्रहणधारणासमर्थं शिष्यं तिसृभिः परिपाटीभिग्रहियत, एतावन्ति कारणानि स्युः एष बहुशिक्षितो मम प्रसन्नो भविष्यति, ततो मत्सरतया परिवारत्वेन वर्तत इत्यविमुक्तिकारणम् / अथवागृहीतसूत्रार्थस्याऽस्य पूजा सत्कारो भविष्यति / खिन्नो वा परिश्रान्तोऽन्यगणं गमिष्यति ।(वुच्छे यत्तिमद्वसतौ वाऽनुयोगस्य व्यवच्छेदो भविष्यति, अन्यस्य तथाविधशिष्यस्याऽभावात् / एवं कारणानि संभाव्य ग्रहणधारणासमर्थे तिसृभिः परिपाटीभिरनुयोगं वदतो द्वेषः / इतरस्मिन् जडे रागः, यथातदवबोधमनुयोगस्य प्रवर्तनात्। अत्राऽऽचार्य आहनिरवयवो नहु सक्को समं, पयासो उ संपयंसेउं / कुंभजले विहु तुरि उज्झियम्मि नहु तिण्ण पडिल // नहुनैव सूत्रस्य प्रकाशोऽर्थः सकृदेकया परिपाट्या निरवयवः समस्तः संप्रदर्शयितुं शक्यः, तस्य ग्रहणधारणासमर्थो नैकया परिपाट्याऽवधारयितुमीश इति तिसृभिः परिपाटीभिरनुयोगकथनमित्यदोषः / सांप्रतमतिपरिणामकानपरिणामकान परिहरतो द्वेषाऽभावमाहसुत्तत्थे कहयंतो, पारोक्खी सिस्सभावमुवलभई। अणुकंपाइ अपत्ते, निजूहइ मा विणिसिज्जा।। पारोक्षी परोक्षज्ञानोपेतः शिष्येभ्यः सूत्रार्थो कथयन् विनयाऽविनयकरणादिना तेषां शिष्याणां भावमाभिप्रायमुपलभ्य, अपात्राणि अपात्रभूतान् शिष्यान् अनुकम्पया नियूहयति अपवदति। न तेभ्यः सूत्रार्थी कथयति / श्रुताऽऽशातनादिना मा विनश्येयुरिति कृत्वा / अत्रैवाऽर्थे दृष्टान्तमाहदारुं धाउं वाहीबीए कंकडुय लक्खणं सुविणं / एगतेण अजोग्गे, एवमाई उ उदाहरणा।। एकान्तेनाऽयोग्ये अपरिणामके च दारु धातुाधिबीजानि कांकडुको लक्षणं स्वप्न इत्येवमादीनि उदाहरणानि दृष्टान्ताः। तत्र दारुदृष्टान्तमाहको दोसो एरंडे, जं रहदारुं न कीरए तत्तो। को वा तिणिसे रागो, उवजुज्जइ जं रहंगेसु / / एरण्डे एरण्डद्रुमेको द्वेषः? यत् तस्मात्रथयोग्यं दारुन क्रियते ? को वा तिनिशे रागो ? यदुपयुज्यते, स रथाऽङ्गेषु? जं पिय दारुं जोग्गं, जस्स उ वत्थुस्स तं पि हुन सक्का। जोएउमणिम्मबिउं, तच्छणदलवेहकुस्सेहिं॥ यदपि वस्तुनोऽक्षादेयोग्यं दारुतदपि तक्षणदलवेधकुशीरैः, अनिर्माप्य योजयितुमशक्यम्, किंतु निर्माप्य, एवमिहापि योग्योऽपि यावदक्तिनैः सूत्रःन परिकर्मितस्तावन्न कल्पं व्यवहारं वाऽध्यापयितुं योग्यः / तत्र तक्षणं प्रतीतम, दलानि द्विधा त्रिधा वा काष्ठस्य पाटनं, वेधः प्रतीतः, कुशो यो वेधे प्रोतः प्रवेश्यते। संप्रति धातुदृष्टान्तमाहएमेव अधाउं उज्झिऊण कुणइ धाऊण आयाणं।