________________ अणुओग 344 - अभिधानराजेन्द्रः-भाग 1 अणुओग क्षेत्रकालाभ्यां विना क्वाऽपि न भवतः / क्षेत्रे तु त्रयाणामपि द्रव्यकालभावानां भजना विकल्पना, क्वाऽपि तत्र ते प्राप्यन्ते, क्वाऽपि नेत्यर्थः लोकक्षेत्रे त्रयाणामपि भावात्, अलोक-क्षेत्रेऽभावादिति। आहअलोक क्षेत्रेऽप्याकाशलक्षणं द्रव्य-मस्ति, वर्तनादिरूपस्तु कालोऽगुरुलघवश्वाऽनन्ताः पर्यायाः सन्त्येव, तत्कथं तत्र द्रव्यकालभावानामभावः? सत्यम्,किन्तु आकाशलक्षणं द्रव्यं यत्, तत्रोच्यते-तदयुक्तम् तस्य क्षेत्रग्रहणेन एव गृहीतत्वात्, कालस्याऽपीह समयाऽऽदिरूपस्य चिन्तयितुं प्रस्तुतत्वात्,तस्यच समयक्षेत्रादन्यत्राऽभावाद्वर्तनादिरूपस्यत्वत्रा-ऽविवक्षितग्रहणेनैव तत्रतस्य गृहीतत्वाच / पर्यायाश्चेहधर्माधर्मपुद्गलजीवास्तिकायद्रव्यसम्बन्धिनो विवक्षिताः, ते चाऽलोके न सन्ति / एवमाकाशसम्बन्धिनः त्वगुरुलघुपर्यायाः क्षेत्रग्रहणेनैव गृहीतत्वान्नेह विवक्षिताः। इत्यतो लोकत्रयाणामपि द्रव्यकालभावानामभावः। (कालो-भयणाइतीसु पित्ति) द्रव्यक्षेत्रभायेषु त्रिष्वपि कालो भजनया विकल्पनया भवति, समयक्षेत्राऽन्तर्वर्तिषु तेषु तस्य भावात्, तबहिस्त्वभावादिति। एवं च स्थितानाममीषां द्रव्यादीनां / यथा संभवमनुयोगः प्रवर्तत इति। अपरमपि द्रव्यादिगतं किञ्चत् स्वरूपं प्रसङ्गतःप्राऽऽहआहारो आहेयं, च होइ दव्वं तहेव भावोय। खेत्तं पुण आहारो, कालो नियमाउ आहेओ॥ द्रव्यमाधारो भवति पर्यायाणाम, आधेयं च भवति क्षेत्रे, तथा भावश्चाऽऽधारो भवति, कालस्य कालवर्णादीनां समयादिस्थितित्वादिति आधेयश्च भवति द्रव्ये, क्षेत्रमाकाशं पुनः सर्वेषामपि धर्माधर्मपुद्गलजीवकालद्रव्याणामगुरुलघुपर्यायाणां वाऽऽधार एव, न त्वाधेयम्, सर्वस्याऽपि वस्तुनस्तत्रैवाऽवगाढत्वात्, तस्य च स्वप्रतिष्ठितत्वेनाऽन्यत्राऽऽधेयत्वाऽयोगादिति / (कालो नियमाउ आहेओति) कालो नियमादाधेय एव भवति, न त्वाधारः, तस्य द्रव्यपर्यायेष्ववस्थितत्वात्, तत्र चाऽन्यस्याऽस्थितत्वादिति / तदेवं व्याख्यातो नामादिभेदतः सतविधोऽप्यनुयोगः / विशे० ('वच्छगगोणीत्यादि' गाथाभिर्यान्यनुयोगाऽननुयोगसाधारणान्युदाहरणानि दत्तानि, तानि अत्रैव भागे 285 पृष्ठे 'अणणुओग' शब्देऽस्माभिर्दर्शितानि) (11) संप्रत्येकार्थिकानि वक्तव्यानितानि द्विधा- सूत्रस्याऽर्थस्य च। (तत्र सूत्रस्य 'सुय' शब्दे वक्ष्यन्ते) साम्प्रतमथैकाऽर्थिकान्याहअणुयोगो य नियोगो,भास विभासा य वत्तियं चेव। एए अणुओगस्स उ, नामा एगट्ठिया पंच॥ अनुयोगो, नियोगो, भाषा, विभाषा, वार्तिकं च, एतानि पञ्चाऽनुयोगस्यैकार्थिकानि। तत्राऽनुकूलः सूत्रस्याऽर्थेन योगोऽनु-योगः, निश्चितो योगो नियोगः, अर्थस्य भाषा, विविधप्रकारेण भाषणं विभाषा, वृत्तौ भवं वार्तिकम् / यदेकस्मिन् पदे यदर्थापन्नं तस्य सर्वस्याऽपि भाषणम् / उक्तान्येकार्थिकानि। बृ० 13 उ०। विशे०। अनु० आ० म० द्विा आ० चू०। (12) अनुयोग इति कः शब्दार्थः ? इत्याहअणुओयणमणुओगो, सुयस्स नियएण जममिहेएण। वावारो वा जोगो, जो अणुरूवोऽणुकूलो वा / / अहवा जमत्थओ थोव पच्छ भावेहि सुयमणुं तस्स। अभिधेये वावारो, जोगो तेणं च संबंधो।। यत् सूत्रस्य निजेनाऽभिधेयेनाऽनुयोजनमनुसंबन्धनमसावनु योग इत्यर्थः / अथवा- योऽनुरूपोऽनुकूलो वा घटमानः संबध्यमानो व्यापारः प्रतिपादनलक्षणः सूत्रस्य निजार्थविषयेऽयमनुयोगः / अथवायद्यस्मादर्थतोऽर्थात् सकाशादणुसूक्ष्म लघुसूत्रकाभ्यामित्याहा स्तोकं पश्चाद्भावाभ्यामेकस्याऽपि सूत्रस्याऽनन्तोऽर्थः / इत्यर्थात् स्तोकत्वम्। तथा प्रथममुत्पादव्यय-ध्रौव्यलक्षण तीर्थकरोक्तमर्थं चेतसि व्यवस्थाप्य पश्चादेव सूत्र रचयन्ति गणधराः, इत्येवमर्थात्पश्चाद्भावाच सूत्रमण्वेति भावः / तस्मात् तस्याऽणोः सूत्रस्य यः स्वकीयस्याऽभिधेये योगो व्यापारस्तेन चाऽणुना सूत्रेण सह यः सबन्धो योगोऽसावन-योग इति। विशेष ___ तत्र सामान्येन प्रागुक्तमपि विशेषोपदर्शनार्थमाहअणुणा योगोऽणुयोगो, अणु पच्छाभावओ य थोवे य। जम्हापच्छाऽमिहियं, सुत्तं थोवं च तेणाऽणु॥ इह अणुयोग इति वा शब्दसंस्कारः, तत्र अनुना पश्चाद् भूतेन योगोऽनुयोगः, अथवा अणुना स्तोकेन योगोऽणुयोगः। तथा चाऽऽहअणु इति पश्वाद्भावे, स्तोके च यस्मात्पश्चादभिहितं कृतं सूत्रं स्तोकं च, तेन अणु' इति भण्यते / अर्थः पुनरननुः, पूर्वमुक्तत्वात, बादरश्च, बहुत्वात्। एवमाचार्येणोक्ते शिष्यः प्राहपुव्वं सुत्तं पच्छा-य पगासो लोइया वि इच्छंति। पेलासरिसे सुत्ते, अत्थपया हुंति बहुया वि॥ ननु पूर्व सूत्रं पश्चात् प्रकाशोऽर्थः, तान् तान् भावान् प्रकाशयति इति प्रकाश इति व्युत्पत्तेः / सूत्राऽभावे तु स कस्य स्यात् ? अपि च- लौकिका अप्येवमेवेच्छन्ति / तथा चोतं तैरेव - पूर्व सूत्रं ततो वृत्तिवृत्तेरपिच वार्तिकम्। सूत्रवार्तिकयोर्मध्ये, ततो भाष्यं प्रवर्तते / / 1 / / ततो यद्वदथ यूयं- पूर्वमर्थः पश्चात् सूत्रमिति तत् न घटां प्राञ्चति। यदपिचबूथ-सूत्रमणुअर्थो बादर इति। तदपिन सम्यक्। यत एकस्यां पेटायां बहूनि वस्त्राणि सन्ति, तत्र पेटाया एव बादरत्वं युज्यते, तद्वशाबहूनि वस्त्राणिमान्तिस्मा एवमत्राऽपिपेटासदृशेपेटास्थानीये सूत्रे बहून्यर्थपदानि वर्तन्ते, तत्र सूत्रमेव बादरीभवितुमर्हति नाऽर्थ इति। न च महत्त्वमेकान्तेनाऽर्थस्य, कस्मादित्याहइक्कं वा अत्थपयं, सुत्ता, बहुगा वि संपयंसंति। उक्खित्तनाइमाइसु, अयमवि तम्हा अणेगंतो॥ एकमर्थपदं, बहूनि सूत्राणि संप्रदर्शयन्ति / यथा- उरिक्षप्तज्ञाते अनुकम्पा कर्तव्येत्यर्थे बहुभिः सूत्रैर्वर्णितः, आदिशब्दात् संघटादिषु ज्ञातेषु न बलहेतोराहारयितव्यमित्यादिपरिग्रहः। तस्मादयमनेकान्तः, यदर्थो महानिति। आचार्यः प्राह-यत्त्वयोक्तं पूर्व सूत्रं पश्चादर्थ इति, तन्न भवति, कथमित्याहअत्थं भासइ अरिहा, तमेव सुत्तीकरेंति गणधारी। अत्थं च विणा सुत्तं, अणिस्सियं के रिसं होइ? || अर्थ भाषतेऽर्हन, तमेवाऽर्हभाषितमर्थ सूत्रीकुर्वन्ति गणधारिणः / अर्थं च विना सूत्रमिति अनिश्रितं निश्रारहितं कीदृशं स्यात् ? असंबद्धं 'दश दाडिमेत्यादि' वाक्यवदिति भावः / अपि च- लौकिका अपि शास्तारः प्रथमतोऽथ दृष्ट्वा सूत्र कुर्वन्ति, अर्थमन्तरेण सूत्रस्याऽनिष्पत्तेः / यदप्युक्तम्-पेटावद् बादरं सूत्रमर्थोऽणुरिति / तदप्यश्लीलम् / यतस्तस्या एव पेटाया एकं वस्त्रमादाय तेनाऽनेकाः पेटा बध्यन्ते, तथैकस्मादाद बहूनि सूत्राण्यक् ितेनैव बध्यन्ते / एवं वस्त्रस्थानीयस्याऽर्थस्य महत्त्वम्, पेटास्थानीयस्य तु सूत्रस्याऽणुत्वमेव / यदप्युक्तम्