________________ अणिच्चभावणा 332- अभिषानराजेन्द्रः - भाग 1 अणिच्चया - इत्यनित्यं जगदवृत्तं, स्थिरचित्तः प्रतिक्षणम्।। तृष्णाकृष्णाहिमन्त्राय, निर्ममत्वाय चिन्तयेत् // 6|| ध०३ अधिo अणिचया-स्त्री०(अनित्यता) अनश्वरतायाम, सूत्र०। अधुना सर्वस्थानाऽनित्यतां दर्शयितुमाहदेवा गंधव्वरक्खसा, असुरा भूमिचरा सरीसिवा। राया नर सेट्ठि माहणा,ठाणा ते वि चयंति दुक्खिया॥५॥ देवा ज्योतिष्कसौधर्माद्याः, गन्धर्वराक्षसयोरुपलक्षणत्वा-दष्टप्रकारा व्यन्तरा गृह्यन्ते / तथा- असुरा दशप्रकारा भवनपतयः / ये चाऽन्ये भूमिचराः सरीसृपाद्यास्तिर्यञ्चः / तथा- राजान-श्चक्रवर्तिनो बलदेववासुदेवप्रभृतयः / तथा- नराः सामान्यमनुष्याः, श्रेष्ठिनः, पुरमहत्तराः, ब्राह्मणाश्च / एतेसर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति / यतः - सर्वेषामपि प्राणिनां प्राणपरित्यागे महद् दुःखं समुत्पद्यत इति ॥५।किञ्च - कामेहि य संथवेहि य, गिद्धा कम्मसहा कालेण जंतवो। ताले जह बंधणचुए, एवं आउक्खयम्मि तुट्टति॥६॥ कामैरिच्छामदनरूपैः, तथा संस्तवैः पूर्वाऽपरभूतैः, गृद्धा अध्युपपन्नाः सन्तः(कम्मसह त्ति) कर्मविपाकसहिष्णवः। कालेन कर्मविपाककालेन जन्तवः प्राणिनो भवन्ति / इदमुक्तं भवति- भोगेप्सोर्विषयाऽऽसेवनेन तदुपशममिच्छत इहाऽमुत्र क्लेश एव केवलं, न पुनरुपशमाऽवाप्तिः / तथाहि- उपभोगोपायपरो, वाञ्छति यः शमयितुं विषयतृष्णाम् / धावतिआक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम्।।१।।नचतस्य मुमूर्षाः कामैः संस्तवैश्च त्राणमस्तीति दर्शयति, यथा-तालफलं बन्धनाद् वृन्तात् च्युतमत्राणमवश्यं पतति, एवमसावपि स्वाऽऽयुषः क्षये त्रुट्यति जीवितात् च्यवत इति // 6 // जे या वि बहुस्सुए सिया, धम्मियमाहणभिक्खुए सिया। अमि णूमकडेहिं मुच्छिए, तिव्वं से कम्मेहिं किचती ||7|| ये चाऽपि बहुश्रुताः शास्त्राऽर्थपारगाः, तथा धार्मिका धर्मा - ऽऽचरणशीलाः / तथा ब्राह्मणाः, तथा भिक्षुका भिक्षाटनशीलाः, स्युर्भवेयुः, तेऽप्याभिमुख्येन (णूमं ति) कर्म माया वा तत्कृतैरसदनुष्ठानैर्मूच्छितागृद्धास्तीव्रमत्यर्थम्। अत्र च छान्दसत्वाद् बहुवचनं द्रष्टव्यम्। एवम्भूताः कर्मभिरसद्वेद्यादिभिः वृश्यन्ते, छिद्यन्ते, पीड्यन्ते इति यावत् // 7 // साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेण नाऽपरो मोक्षमार्गोऽस्तीति त्रिकालविषयत्वात् सूत्रस्याऽगामितीर्थिकधर्मप्रतिषेधाऽर्थमाह अह पास विवेगमुट्ठिए, ___ अवितिन्ने इह मासई धुवं / णाहिसि आरं कओ परं, वेहासे कम्मेहिं किच्चती||८|| अथेत्यधिकाराऽन्तरे बहादेशे एकाऽऽदेश इति / अथेत्यनन्तरं एतच पश्ययस्तीर्थिको विवेकं परित्याग गृहस्य परिज्ञानं वा / संसारस्याऽऽश्रित्योत्थितः प्रव्रज्योत्थानेन ? स च सम्यक् - परिज्ञानाऽभावादवितीर्णः संसारसमुद्रमतितीर्घः केवलमिह संसारे प्रस्तावे वा शाश्वतत्वाद् ध्रुवो मोक्षस्तं तदुपायं वा संयम भाषत एव न पुनर्विधत्ते, तत्परिज्ञानाभावादिति भावः। तन्मार्गे प्रपन्नस्त्वमपि कथं ज्ञास्यसि ? आरमिहभवं, कुतो वा परंपर-लोकम् ? यदि वा आरमिति गृहस्थत्वं, परमिति प्रव्रज्या- पर्यायम् / अथवा आरमिति संसारं, परमिति मोक्षम, एवंभूत-श्वाऽन्योऽप्युभयभ्रष्टः (वेहासि त्ति) अन्तराले उभयाऽभावतः स्वकृतैः कर्मभिः कृत्यते पीड्यत इति / / 8 / / ननु च तीर्थका अपि केचन निष्परिग्रहास्तथा तपसा निष्टातदेहाच, तत्कथं तेषां नो मोक्षाऽऽवाप्तिरित्येतदाशङ्कयाऽऽह - जइ वि य णिगणे किसे चरे, जइ वि य भुजिय मासमंतसो। जे इह मायादि मिजइ, आगंता गब्भाय ऽणंतसो || यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तबाह्यगृहवासादिपरिग्रहत्वाद् निष्किञ्चनतया नग्नस्त्वक्त्राणाऽभावाच कृशश्चरेत्, स्वकीयप्रव्रज्याऽनुष्ठानं कुर्यात् / यद्यपि च षष्ठाऽष्टमदशमद्वादशादि तपोविशेष विधत्ते / यावदन्तशो मासं स्थित्वा भुङ्क्ते, तथाऽपि आन्तरकषायाऽपरित्यागात् न मुच्यते, इति दर्शयति- यस्तीर्थिक इह मायादिना मीयते, उपलक्षणार्थत्वात् कषायैर्युक्त इत्येवं परिछिद्यते। असौ गर्भाय गर्भार्थम्, आ समन्ताद् गन्ता यास्यत्यनन्तशो निरवधिकं कालमिति। एतदुक्तं भवति-अकिञ्चनोऽपितपोनिष्टप्तदेहोऽपिकषायाऽपरित्यागात् नरकादिस्थानात् तिर्यगादिस्थानं गर्भाद् गर्भमनन्तमपि कालमनिशर्मवत् संसारे पर्यटतीति / / 6 // यतो मिथ्यादृष्ट्यु-पदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधोऽतो मदुक्त एव मार्गे स्थेयमतद्गर्भमुपदेशं दातुमाह - पुरिसोपरम पावकम्मणा, पलियंतं मणुयाण जीवियं। सन्ना इह काममुच्छिया, मोहं जंति नरा असंवुडा॥१०॥ हे पुरुष ! येन पापेन कर्मणा असदनुष्ठानरूपेण त्वमुपलक्षितस्तत्राऽसकृत् प्रवृत्तत्वात् तस्मादुपरम निवर्तस्व। यतः पुरुषाणां जीवितं सुबह पि त्रिपल्योपमान्तं, संयमजीवितं वा पल्योपमस्याऽन्तर्मध्ये वर्तते, तदप्यूनां पूर्वकोटिमिति यावत्। अथवा- परि समन्तात् अन्तोऽस्येति पर्यन्तं सान्तमित्यर्थः / तचैवं तद्गतमेवाऽवगन्तव्यम् / तदेव मनुष्याणां स्तोकं जीवित- मवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यम्।ये पुनर्भोगस्नेहपङ्केऽवसन्ना मनाइह मनुष्यभवे संसारे वा कामेषु इच्छामदनरूपेषु मूञ्छिता अध्युपपन्नास्ते नरा मोहं यान्ति, हिताऽहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीयं वा कर्मोपचि-न्वन्तीति संभाव्यते / एवदसंवृत्तानां हिंसादिस्थानेभ्यो निवृत्तानामसंयतेन्द्रियाणां चेति / / 10 / / एवं च स्थिते यद्विधेयं, तद्दर्शयितुमाह - जयवं विहराहि जोगवं, अणुयाणा पंथा दुरुत्तरा। अणुसासणमेव पक्कमे, वीरेहिं च समं पवेइयं / / 11 / / स्वल्पं जीवितमवगम्य विषयांश्च क्लेशप्रायानवबुध्य छित्त्वा गृहपाशबन्धनं यतमानो यत्नं कुर्वन् प्राणिनामनुपरोधेन