________________ अणाह 328 - अभिधानराजेन्द्रः - भाग 1 अणाह अत्र मकारः प्राकृतत्वात् / किं कृत्वा साधुर्मोक्षं प्राप्नोति ? अनुत्तरं प्रधानं भगवदाज्ञाशुद्धं संयम सप्तदशविधं पालयित्वा। पुनः किं कृत्वा? कर्माण्यष्टावपि संक्षेप्य क्षयं नीत्वैतावता चारित्रा-चारज्ञानादिगुणयुक्तः, अत एव निरुद्धाऽऽश्रवः प्रधानसंयमं प्रपाल्य, सर्वकर्माणि संक्षयं नीत्वा मोक्ष प्राप्नोतीत्यर्थः // 52 // अथोपसंहारमाह-- एवुग्गदंते वि महातवोहणे, महामुणी महापइण्णे महायसे। महानियं ठिजमिणं महासुयं, __ से कहिए महया वित्थरेणं // 53|| एवममुना प्रकारेण, श्रेणिकेन राज्ञा, पृष्टः सन् स महामुनि-महासाधुः, महता विस्तरेण बृहता व्याख्यानेन, महानिर्ग्रन्थीयं महाश्रुतमकथयत्, महान्तश्च ते निर्ग्रन्थाश्च महानिर्ग्रन्थास्तेभ्यो हितं महानिर्ग्रन्थीयं, महामुनीनां हितमित्यर्थः / कीदृशः सः ? उग्रः कर्मशत्रुहनने बलिष्ठः / पुनः कीदृशः सः? दान्तो जितेन्द्रियः। पुनः कीदृशः ? महातपोधनः महच तत्तपश्च महातपः महातपो धनं यस्य स महातपोधनः / पुनः कीदृशः ? महाप्रतिज्ञः व्रते दृढप्रति-ज्ञाधारकः / पुनः कीदृशः? महायशाः महाकीर्तिः // 53 // ततश्चतुट्टो य सेणिओ राया, इणमुदाहं कयंजली। . अणाहत्तं जहा भूयं, सुख मे उवदंसियं // 54 // श्रेणिको राजा तुष्टः / हु इति निश्चयेन / इदम्, 'उदाह' इद-मवादीत्। कीदृशः श्रेणिकः? कृताऽञ्जलिः बद्धाऽजलिः / इदमिति किम् ? हे मुने ! यथाभूतं यथाऽवस्थितमनाथत्वं, मे मम, सुष्ठूपदर्शितं सम्यग्दर्शितम्, त्वयेति शेषः // 55|| किं श्रेणिक आहतुज्झं सुलद्धं खु मणुस्सजम्म, लामा सुलद्धाय तुमे महेसी। तुम्हे सणाहा य सबंधवा य, ___ जंभे ट्ठिया मग्गजिणुत्तमाणं // 55 // हे महर्षे ! खु इति निश्चयेन सुलब्धं सफलं त्वदीयं मानुषं जन्म / हे | महर्षे ! तवैव लाभाः रूपवर्ण विद्यादीनां लाभाः सुलभाः / रूपलावण्यादिप्राप्तयः सुप्राप्तयः / हे महर्षे ! यूयमेव सनाथा आत्मनो नाथत्वात् नाथसहिताः।चपुन!यमेव सबान्धवा ज्ञातिकुटुम्ब-सहिताः। यद् यस्मात्कारणात् (भे इति) भवन्तः जिनोत्तमानां तीर्थकारणां मार्गे | स्थिताः // 55 // तं सिणाहो अणाहाणं, सव्वभूथाण संजया!! खामेमि ते महाभागा!, इच्छामि अणुसासिउं॥५६॥ हे संयत! त्वम्, अनाथानां सर्वभूतानां त्रसानां स्थावराणां च जीवानां नाथोऽसि। हे महाभाग ! हे महाभाग्ययुक्त ! (ते इति) त्वामहं क्षमयामि, मया पूर्व यस्तवापराधः कृतः स क्षन्तव्य इत्यर्थः। अथ भवतोऽनुशासयितुं त्वत्तः शिक्षयितुमात्मानमिच्छामि / मदीय आत्मा तवाऽऽज्ञाऽनुवर्ती भवत्वितीच्छामीत्यर्थः। (पाई०टीका)तं सित्ति पूर्वाऽर्द्धन रूपबृंहणा कृता, उत्तराऽर्द्धन तु क्षमणोपसंपन्नता दर्शिता / इह (तुब्भे त्ति) त्वम् (अणुसासयं ति) अनुशासयितुं शिक्षयितुमात्मानं भवतेति गम्यते॥५६|| पुनः क्षमणामेव विशेषत आहपुच्छिऊणं मए तुज्झं, ज्झाणविग्यो य जो कओ। निमंतियो य भोएहिं,तं सव्वं मरिसेहि मे // 57 / / हे महर्षिन् ! मयातुभ्यं पृष्ट्वा प्रश्नं कृत्वा यस्तव ध्यानविघ्नः कृतः, च पुनर्भोगः कृत्वा निमन्त्रितः - भोः स्वामिन् ! भोगान् भुक्ष्वेत्यादिप्रार्थना तव कृता, तं सर्व मे ममाऽपराधं क्षन्तुमर्हसि, सर्वं ममाऽपराधं क्षमस्वेत्यर्थः / / 57|| सकलाऽध्ययनाऽर्थोपसंहारमाहएवं थुणित्ताणं सरायसीहो, अणगारसीहं परमाइ भत्तिए। सावरोहो सपरियणो सबंधवो, धम्माणुरत्तो विमलेण चेयसा / / 58|| राजसिंहः श्रेणिको राजा / एवममुना प्रकारेण, तमनगारसिंह मुनिसिंह परमया उत्कृष्टया भक्त्या स्तुत्वा, विमलेन निर्मलेन चेतसा धर्मानुरक्तोऽभूदिति शेषः / कीदृशः श्रेणिकः ? सावरोधः अन्तःपुरेण सहितः / पुनः कीदृशः ? सपरिजनः सहपरिजनैवर्तते इति सपरिजनो भृत्यादिवर्गसहितः। पुनः कीदृशः ? सबान्धवः सह बान्धवैर्धातृप्रमुखैवर्तत इति सबान्धवः / पुराऽपि वनवाटिकायां सर्वाऽन्तःपुरपरिजनबान्धवकुटुम्बसहित एव क्रीडां कर्तुमागात, ततः मुनेक्यिश्रवणात् सर्वपरिकरयुक्तो धर्मा-ऽनुरक्तोऽभूदित्यर्थः / / 58 / / उस्ससियरोमकूवो, काऊण य पयाहिणं / अभिवंदिऊण सिरसा, अइयाओ नराहिओ॥५६॥ नराधिपः श्रेणिकोऽतियातो गृहं गतः। किंकृत्वा ? शिरसा मस्तकेन, अभिवन्द्य मुनिं नमस्कृत्य / पुनः किंकृत्वा ? प्रदक्षिणां कृत्वा प्रदक्षिणां दत्त्वा / कथम्भूतो नराधिपः ? (उस्स-सियरोमकू वो त्ति) उच्छ्वसितरोमकूपः साधोर्दर्शनाद्वाक्यश्रवणादुल्लसितरोमकूपः। प्राईटीका जन्मरिसता इकोन्छवतिता जमिन्ना रोमकूपा रोमरन्ध्राणि यस्य स उच्छ्वसितरोमकूपः। (अझ्याओ त्ति) अतियातो गतः स्वस्थानमिति गम्यते // 60 // इयरो वि गुणसमिद्धो, तिगुत्तिगुत्तो तिदंडविरओ य। विहंग इव विप्पमुक्को, विहरइ वसुहं विगयमोहो॥६०॥ त्ति बेमि। अथेतरोऽपि श्रेणिकापेक्षयाऽपरोऽपि मुनिरपि वसुधां पृथिवीं विहरति विहारं करोति। कीदृशः सन् ? विमोहः सन् मोहरहितः सन्, अर्थात् केवली सन् कीदृशो मुनिः? गुणसमृद्धः सप्तविंशतिसाधुगुणसहितः। पुनः कीदृशः? त्रिगुप्तिगुप्तः गुप्तित्रयसहितः। पुनः कीदृशः? त्रिदण्डविरतः त्रिदण्डेभ्यो मनोवाकायानामशुभव्यापारेभ्यो विरतः / पुनः कीदृशः ? विहङ्ग इव विप्रमुक्तः पक्षीव क्वचिदपि प्रतिबन्धरहितो निष्परिग्रह इत्यर्थः / इति सुधर्मास्वामी जम्बूस्वामिनं प्रति वदति, अहमिति ब्रवीमीति // 60 // उत्त०२० अ०