SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ अणाह 327 - अभिधानराजेन्द्रः - भाग 1 अणाह पुनः स द्रव्यमुण्डः साधुरूपो मौनं विराध्य साधुधर्म दूषयित्या, नरकतिर्यग्योनि संधावति, सततं गच्छति / पुनः अशीलः कु- शीलो विपर्यासमुपैति, तत्त्वेषु वैपरीत्यं प्राप्नोति, मिथ्यात्वमूढो भवतीति भावः / कीदृशः सः? तमस्तमसैव सदादुःखी अतिशयेन तमस्तमस्तमः, तेन तमस्तमसैव अज्ञानमहाऽन्धकारेणैव संयम विराधनाजनितदुःखसहितः॥४६॥ कथं पुनर्मोनं विराध्य कथं वा नरकतिर्यग्गती सन्धायतीत्याहउद्देसियं कीयगडं नियागं, न मुच्चई किंचि अणेसणिज्जं / अग्गीविवासव्वभक्खी मवित्ता, इओ चुओ गच्छइ कटुपावं // 47 // पुनर्यः साधुपाशः उद्देशिकं दर्शनिन उद्दिश्य कृतं उद्देशिक- माहारम् / पुनः साधुनिमित्तं क्रीतं मौल्येन गृहीतम् / पुनराहृतं साधुसंमुखमानीतं साधुस्थान एव गृहस्थेन आनीतं तदाहृतम् / पुनर्यदाहारं नित्यक नित्यपिण्डं गृहस्थगृहे नियतपिण्डमतादृशं सदोषमाहारमनेषणीयं साधुना अग्राह्यं न मुञ्चति। जिह्वा-लाम्पट्येन किमपिनत्यजति, सर्वमेव गृह्णाति / सोऽग्निरिव सर्व-भक्षीभूय हरितशुष्कप्रज्वालको वैश्वानर इव भूत्वा प्रासुका- ऽऽहारं मुक्त्वा इतश्च्युतो मनुष्यभवाचयुतः कुगति व्रजति / किं कृत्वा ? पापं कृत्वा संयमविराधनां विधाय // 47 / / न तं अरी कंठछेत्ता करेइ, जं से करे अप्पणिय दुरप्पया। से नाहई मचुमुहं ति पत्ते, पच्छाऽणुतावेण दयाविहूणो॥४८|| (पाई०टीका)यतश्चैवं सुदुश्चरितैरेव दुर्गतिप्राप्तिः, अतोऽनेनैव (तमिति) प्रस्तावादनर्थकण्ठछेत्ता प्राणहर्ता (से) तस्य (दुरप्पयेति) प्राकृतत्याद् दुरात्मतां दुष्टाचारप्रवृत्तिरूपां न चैनामाचरन्नपि जन्तुरत्यन्तमूढतया वेत्ति / तत्किमुत्तरकालमपिन वेत्स्यतीत्याह- स दुरात्मा कर्ता ज्ञास्यति। प्रक्रमाद्दुरात्मतां मृत्युमुखं तु मरणसमयम्, पुनः प्राप्तः पश्चादनुतापेनहा दुष्ट मयाऽनुष्ठितमिति, एवंरूपेण दया संयमसत्याधुपलक्षणमहिंसा वा तद्विहीनः सन् / मरणसमये हि प्रायोऽतिमन्दधर्मस्याऽपि धर्माभिप्रायोत्पत्तिरेवम-भिधानम्। यतश्चैवं महानर्थहेतुः पश्चात्तापहेतुश्व दुरात्मता तदादित एव मूढतामपहाय परिहर्तव्येयमिति भावः / / 48|| यस्तु मृत्युमुखं प्राप्तोऽपि न तं वेत्स्यतीति तस्य का वार्तेत्याहनिरट्ठिया निप्परुई उतस्स, जे उत्तमढे विवजासमेइ। इमे वि से नत्थि परे विलोए, दुहओ वि से ज्झिज्झइ तत्थ लोगे ||4|| (पाई०टीका)निरर्थिका तुशब्दस्यैवकाराऽर्थस्येहसम्बन्धात् निरर्थकैव निष्फलैव। नान्ये श्रामण्ये रुचिरिच्छा नाग्न्यरुचिः, तस्य(जे उत्तम8 | ति)सुब्ब्यत्ययादपेश्च गम्यमानत्वादुत्तमार्थे- ऽपि पर्यन्तसमयाराधनारूपे आस्तां पूर्वमित्यपिशब्दार्थः / विपर्यासं दुरात्मतायामपि सुन्दराऽऽत्मतापरिज्ञानरूपमेति गच्छति, इतरस्य तु कथञ्चित् स्यादपि किञ्चित् फलमिति भावः / किमेवमुच्यते? यतः (इमे वित्ति) अयमपि प्रत्यक्षो लोक इति सम्बन्धः / ( से इति) तस्य नाऽस्ति, न विद्यते / न केवलमयमेव, परोऽपिलोको जन्मा-ऽन्तरलक्षणः। तत्रेह लोकाऽभावः शरीरक्लेशहेतुलोचनादिसेवनात्, परलोकाभावश्च कुगतिगमनतः शारीरमानसदुःखसम्भवात्। तथाच (दुहओ वित्ति) द्विधाऽप्यैहिकपारतिकार्थे भावेन (ज्झिज्झइ त्ति) स ऐहिक-पारत्रिकार्थसंपत्तिमतो जनानवलोक्य धिम्मामपुण्य-भाजनमुभयभ्रष्टत-येति चिन्तया क्षीयते। तत्रेत्युभयलोकाभावे सति लोके जगति 1146 / / यदुक्तं स ज्ञास्यति पश्वादनुतापेनेति, तत्र यथाऽसौ परितप्यते तथा दर्शयन्नुपसंहारमाहएमेव हा छंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं / कुरीविवा मोगरसाणुगिद्धा, निरट्टसोया परितावमेइ॥५०|| (पाई०टीका) एवमेवोक्तरूपेणैव महाव्रतस्पर्शादिना प्रकारेण यथाछन्दाः स्वरुचिविरचिताचाराः कुशीलाः कुत्सितशीलाः तद्रूपास्तत्स्वभावाः, कुरुरीव पक्षिणीव (निरद्वसोय त्ति) निरर्थो निष्प्रयोजनः शोको यस्याः सा निरर्थशोका, परितापं पश्चात्तापरूपम्, एति गच्छति / यथा चैषाऽऽमिषगृद्धा पक्षाऽन्तरेभ्यो विपत्प्राप्तौ शोचनेन च ततः कश्विद्विपत्प्रतीकार इत्येवमसावपि भोगरसगृद्ध ऐहिकाऽऽमुष्मिकाsनर्थप्राप्तौ ततोऽस्य स्वपरपरित्राणा-समर्थत्येऽनाथत्वमितिभावः / / 50 // एत्-श्रुत्वा यत्कृत्यं, तदुपदेष्टुमाहसोचाण मेहावि ! सुभासियं इम, अणुसासणं नाणगुणोववेयं। मगं कुसीलाण जहाय सव्वं, महानियट्ठाण वए पहेणं // 51 // हे मेधाविन् ! हे पण्डित ! हे राजन् ! इदं सुभाषितं सुष्ठ भाषित सुभाषितम्, अनुशासनम् उपदेशवचनं, श्रुत्या सर्व कुशीलानां मार्गम्। (जहाय इति) त्यक्त्वा महानिर्ग्रन्थानां महासाधूना, पथि मार्गे, चरेत् व्रजेत् / कीदृशमनुशासनम् ? ज्ञानगुणोपपेतं ज्ञानस्य गुणाः ज्ञानगुणाः, तैरुपपेतं ज्ञानगुणोपपेतम्॥५१॥ ततः किं फलमित्याहचरित्तमायारगुणण्णिए तओ, अणुत्तरं संजमपालियाणं। निरासवे संखवियाण कम्म, उवेइ ठाणं विउलुत्तमं धुवं // 52 // ततस्तस्मात् कारणात् महानिर्ग्रन्थमार्गगमात् निराश्रवो मुनिर्महाव्रतपालकः साधुर्विपुलमनन्तसिद्धानामवस्थानादसंकीर्णमुत्तमं सर्वोत्कृष्ट पुनर्बुवं निश्चलं शाश्वतमेतादृशं मोक्षस्थानमुपैति प्राप्नोति / कीदृशः साधुः? चारित्रऽऽचार गुणाऽन्वितःचारित्रस्याऽऽचारश्चारित्राऽऽचारश्चारित्रसेवनं,गुणा ज्ञानशीलादयः, चारित्राऽऽचारश्च गुणाश्च चारित्राऽऽचारगुणास्तैर-न्वितश्चारित्राऽऽचारगुणान्वितः
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy