________________ अणाह 326 - अभिधानराजेन्द्रः - भाग 1 अणाह हे राजन् ! स साधु/रयातं मार्ग नाऽनुयाति, धीरैर्महापुरुषैः तीर्थकरैर्गणधरैश्च यातं प्राप्तम्, अर्थात् मोक्षमार्ग न प्राप्नोति / स कः ? यस्य साधोरीर्यायां गमनागमनसमिती, तथा भाषायां, तथा एषणायामाहारग्रहणसमिती, पुनरादाननिक्षेपणसमिती, वस्तूनां ग्रहणमोचनविधौ, तथा(दुगंछणाए इति)उचार प्रश्रवणश्लेष्मजल्लसिङ्घाणादीनां परिष्ठापनसमितावायुक्तता काचित्, नाऽस्तीति॥४०॥ तथा च चिरं पिसे मुंडरुई भवित्ता, अथिरव्वए तव नियमेहँ भटे। चिरं पि अप्पाण किलेसइत्ता, न पारए होइ हु संपराए / / 4 / / स पूर्वोक्तः पञ्चसमितिरहितो मुन्याभासश्चिरं मुण्डरुचिभूत्याऽऽत्मानमपि चिरं क्लेशेपातयित्वा, हुइति निश्चयेन, संपराये संसारे पारगो न भवति / कीदृशः सः? अस्थिरवतोऽस्थिराणि व्रतानि यस्य सोऽस्थिरव्रतः।पुनः कीदृशः सः? तपो नियमभूष्टः / यः कदापितपोन करोति, तथा पुनर्नियममभिग्रहादिकं च न करोति, केवलं द्रव्यमुण्डो भवति, स संसारस्य पारं न प्राप्नोतीत्यर्थः।।४१।। स चैवंविधः - पोल्लेव मुट्ठी जह से असारो, अयंतिए कूडकहावणे वा। राढामणी वेरुलियप्पगासे, अमहग्घए होइहु जाणएसु // 42 // स पूर्वोक्तो मुण्डरुचिरसारो भवति / अन्तःकरणे धर्माभावात् रिक्तोऽकिश्चित्करो भवति। स क इव ? पोल्लो मुष्टिरिव / यथा-रिक्तो मुष्टिरसारो मध्ये सुषिर एव, तथा स मुण्डरुचिः कूटकार्षा-पण इवाऽसत्यनाणकमिवाऽयन्त्रितो भवति, नयन्त्रितोऽयन्त्रिताऽनादरणीयो निर्गुणत्वादुपेक्षणीयः स्यादित्यर्थः। उक्तमर्थमर्थान्त-रन्यासेन द्रढयतिहु यस्मात् करणात् राढामणिः काचमणिः (जाणएसु इति) ज्ञातृकेषु मणिपरीक्षकनरेषु वैडूर्यप्रकाशोऽमहाऽर्घको भवति, बहुमूल्यो न भवति। वैडूर्य-मणिवत् प्रकाशो यस्य स वैडूर्यमणिप्रकाशः, वैडूर्यमणिसदृक्तेजाः। महान् अ? यस्य स महाघः, महाध एव महाऽर्घकः। न महाघकोऽमहार्घकः। अबहुमूल्य इत्यर्थः / यथा - मणिशेषु वैडूर्यमणिर्बहुमूल्यः स्यात्, तथा काचमणिर्बहुमूल्यो न स्यादेवं धर्महीनो मुनिः साधुर्गुणशेषु यथा सद्धर्माचारयुक्तः साधुर्वन्दनीयः स्यात्तथा स मुण्डरुचिर्वन्दनीयो न स्यादिति भावः। (पाई०टीका)"पोल्लरमुट्ठीजहत्ति' पाठान्तरम्। इह"पोल्लर त्ति' सुषिरा, असारत्वं चोभयोरपिसदर्थशून्यतया॥४२॥ कुसीललिंग इह धारयित्ता, इसिज्झयं जीविय वूहयित्ता। असंजये संजय लप्पमाणे, विणिहायमागच्छइसे चिरं पि॥५३॥ (से इति) स साध्याचाररहितः, इह संसारे चिरं चिरकालं यावत् | निघातमागच्छति पीडां प्राप्नोति / किं कृत्वा ? कुशीललिङ्ग पार्श्वस्थादीनां चिह्न धारयित्वा।पुनर्जीविकायै आजीविका-ऽर्थमृषिध्वज रजोहरणमुखपोत्तिकादिकं बृंहयित्या वृद्धि प्रापय्य, विशेषेण निघातं विनिघातं विविधपीडाम्। स किं कुर्वाणः? असंयतः सन् अहं संयत इति लालप्यमानः, असाधुरपिसाधुरहमिति ब्रुवाणः।।४३।। अत्रैव हेतुमाहविसं तु पीयं जह कालकूडं, हणाइ सत्थं जह कुणहीयं / एमेव धम्मो विसओवसण्णो, हणाइ वेयाल इवाविवण्णो // 44 // हे राजन् ! यथा कालकूटो महाविषः पीतः सन् (हणाइ ति) हन्ति। पुनर्यथा कुगृहीतं विपरीतवृत्त्या गृहीतं शास्त्र हन्ति। एवमेव अनेनैव दृष्टान्तेन विषयैरिन्द्रियसुखैरुपपन्नो विषयसुखाऽभिलाषयुक्तो धर्मोऽपि हन्ति / पुनः स विषयो धर्मोऽविपन्नवे ताल इव हन्ति / मन्त्रादिभिरकीलितः / यथा स्फुरबलोमन्त्रयन्त्रैरनिवारितबलो वेतालो महापिशाचो मारयति, तथा विषयसहितो धर्मोऽपि मारयतीत्यर्थः।।४४ / / (पाई०टीका)-(वेयाल इवाविवण्णो त्ति) चस्य गम्यमान-त्वाद्वेताल इवाऽविपन्नोऽप्राप्तविपत्, मन्त्रादिभिरनियन्त्रित इत्यर्थः / पठ्यते च(बेयाल इवाऽविबंधणो त्ति) इह वा विबन्धनोऽविद्यमानमन्त्रादिनियन्त्रणः / उभयत्र साधकमिति गम्यते।।४४|| जे लक्खणं सुविणं पउंजमाणे, निमित्तकोऊहलसंपगाढे। कुहेडविज्जासवदारजीवी, न गच्छई सरणं तम्मि काले // 4 // यः साधुर्लक्षणं प्रयुञ्जानः सामुद्रोक्तं स्त्रीपुरुषशरीरचिह्न शुभाऽशुभसूचकं प्रयुङ्क्ते, गृहस्थानां पुरतो वक्ति। यः पुनः साधुः सुविणं स्वप्नविद्यां प्रयुञ्जानो भवति,स्वप्नानां फला- ऽफलं वक्ति / पुनर्यः साधुनिमित्तकौतूहलसम्प्रगाढो भवति / निमित्तं च कौतूहलं च निमित्तकौतूहले तयोः सम्प्रगाढोऽत्यन्ताऽऽशक्तः स्यात् / तत्र निमित्त भूकम्पोल्कापातके तूदयादि / कौतूहलं कौतुकं पुत्रादिप्राप्त्यर्थ स्नानभेषजौ-षधादिप्रकाशनम्। उभयत्र संरक्तो भवति। पुनर्यः साधुः कुहेठक्र विद्याऽऽश्रवद्वारजीवी भवति। कुहेटका विद्याः कु-हेटकविद्याः। अलीकाऽऽश्वर्य विधायिमन्त्रतन्त्रयन्त्रज्ञाना- 5ऽत्मिकास्ता एवाश्रवद्वाराणि, तैर्जीवितुमाजीविकां कुतु शीलं यस्य स कुहेटकविद्याऽऽश्रवद्वारजीवी, एतादृशो यो भवति। हेराजन्!परं तस्मिन् काले लक्षणस्वप्ननिमित्तकौतूहलकुहेटकविद्याश्रव द्वारोपार्जितपातकफलोपभोगकाले ससाधुः शरणं न गच्छति,न प्राप्नोति। तं साधु कोऽपि दुःखात् नरकतिर्यग्योन्यादौ न त्रायत इत्यर्थः // 45 // अमुमेवाऽर्थ भावयितुमाहतमंतमेणेव उसे असीले, सया दुही विप्परियासमुवेइ। संधावइ नरयं तिरिक्खजोणी, मोणं विराहितु असाहुरूवे // 46||