________________ अणाह 325 - अभिधानराजेन्द्रः - भाग 1 अणाह वेदनाया विमुच्ये, तदाऽहं क्षान्तो भूत्वा, पुनर्दान्तो जितेन्द्रियो भूत्वा निरारम्भः सन् अनगारत्वं साधुत्वं, प्रव्रजामि दीक्षां गृह्णामीति भावः / कथम्भूताया वेदनायाः ? विपुलाया विस्तीर्णायाः। (पाई०टीका)यतश्चैवमतः (सइंच ति) चशब्दोऽपिशब्दार्थः / ततः सकृदप्येकदाऽपि यदि मुच्येयाऽहमिति गम्यते / कुतः? (वयण त्ति) वेदनाया (विउल त्ति) विपुलाया विस्तीर्णायाः / इत्यनुभूयमानायाः / ततः किमित्याह- क्षान्तः क्षमावान्, दान्त इन्द्रियनोइन्द्रियदमेन (पव्वए अणगारियं ति) प्रव्रजेयं गृहात् निष्क्रामेयम् / ततश्चाऽनगारिता भावभिक्षुतामङ्गीकुर्यामिति शेषः। यद्वा- प्रव्रजेयं प्रतिपद्येयाऽनगारिताम् येन संसारोच्छित्तितो मूलत एव न वेदनासंभवः स्यादिति भावः // 32 // एवं च चिंतइत्ताणं, पसुत्तो मिनराहिवा !! परियटृति य राईए, वेयणा मे खयं गया॥३३॥ एवं पूर्वोक्तं चिन्तनं चिन्तयित्वा हे नराधिप! यावदहं सुप्तोऽस्मितावत् तस्यामेव रात्रौ प्रवर्त्तमानायाम्, अतिक्रामन्त्यां, मेमम, वेदना क्षयं गता, वेदना उपशान्ता इत्यर्थः। (पाईन्टीका)एवं च चिन्तयित्वा भणन्ति, न केवलमुक्त्वा चिन्तयित्वा चैवं (पसुत्तोमि त्ति) प्रसुप्तोऽस्मि (परियट्टति यत्ति) परिवर्त्तमानायामतिक्रामन्त्याम् // 33 // तओ कल्ले पभायम्मि, आपुच्छित्ताण बंधवे। खंतो दंतो निरारंभो, पव्वइओ अणगारियं // 34 // (पाई०टीका ततो वेदनोपशमनाऽनन्तरं(कल्लेत्ति)कल्योनीरोगः सन् प्रभाते प्रातः / यद्वा- (कल्लइ त्ति) चिन्ताऽऽदिनाऽपेक्षया द्वितीयदिने प्रकर्षण व्रजितो गतः प्रव्रजितः। कोऽर्थः? प्रतिपन्नवाननगारितामिति। ततो वेदनाया उपशान्तेरनन्तरं (कल्ये इति) नीरोगे जाते सति प्रभातसमये बान्धवान् स्वज्ञातीन् आपृच्छ्याऽहमनगारित्वं साधुत्वं प्रव्रजितः, साधुधर्ममङ्गीकृतवान्। कीदृशोऽहम् ? क्षान्तः पुनन्तिः , पुनरहं निरारम्भः // 34 // तओ हं नाहो जाओ, अप्पणो य परस्स या सव्वेसिं चेव भूयाणं, तसाण थावराण य॥३५।। हे राजन् ! ततो दीक्षाग्रहणानन्तरमात्मनश्च पुनः परस्य नाथो योगक्षेमकरत्वेन स्वामीजातः। आत्मनो हि नाथः,शुद्धप्ररूपण-त्वात्। अपरस्य च, हितचिन्तनात् / एवं निश्चयेन सर्वेषां भूतानाम्, त्रसानां च पुनः स्थावराणां नाथो जातः॥३५॥ किमिति प्रव्रज्याप्रतिपत्त्यनन्तरं नाथस्त्वं जातः, पुरा तु नेत्याहअप्पा नई वेयरणी, अप्पा मे कूडसामली। अप्पा कामदुधा घेणू, अप्पा मे नंदणं वणं // 36 // (आत्मेति)व्यवच्छे दफलत्वाद् वाक्यस्याऽऽत्मैव नाऽन्यः कश्चिदित्याह- नदी सरित् / वैतरणीति नरकनद्या नाम / ततो महानर्थ हे तुतया नरक नदी वा / अत एव आत्मैव कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली नरकोद्भवा। तथा आत्मैव कामानभिलाषान् दोग्धि प्रापकतया प्रपूरयति कामदुधा, धेनुरिव धेनुः इयं रूढित उक्ता / एतदुपमात्वमभिलषित-स्वर्गापवर्गावाप्तिहेतुतया आत्मैव मे मम, नन्दनं नन्दननामकं वनमुद्यानम् / एतदौपम्यं चाऽस्य चित्तप्रत्तिहेतुतया // 36 // यथा चैतदेवं, तथाऽऽहअप्पा कत्ता विकत्ता य, दुहाण य सुहाण य / अप्पा मित्तममित्तं च, दुप्पट्ठिय सुपट्ठिओ // 37|| आत्मैव कर्ता विधायको दुःखानां सुखानां वेति योगः। प्रक्रमान आत्मन एव विकर्ता चा विक्षेपकश्चात्मैव तेषामेव। अतश्च आत्मैव मित्रमुपकारितया सुहृत, (अमित्रं चेति) अभित्रश्चापकारितया दुर्हत्। कीदृक् ? (दुप्पट्ठियं सुप्पद्वितो त्ति) दुष्ठ प्रस्थितः सकलदुःखहेतुरिति विषादिकल्पः, सुष्ठ प्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादि-कल्पः / तथा च प्रव्रज्याऽवस्थायामेवमुपस्थितत्वेन आत्मनोऽन्येषां च योगक्षेमकरणे समर्थत्वान्नाथत्वमिति सूत्रगर्भाऽर्थः / / 37 / / पुनरन्यथा नाथत्वमाहइमा हु अन्नो वि अणाहया निवा!, तमेकचित्तो निवुओ सुणेहि। निगट्ठधम्म लमियाण वी जहा, सीदति एगे बहुकायरा नरा // 38|| (पाई०टीका)इयमनन्तरमेव वक्ष्यमाणा। हुपूरणे, अन्या परा, अपिः समुच्चये। अनाथताऽस्वामिता, यदभावतोऽहं नाथो जात इत्याशयः। निवृत्तिरूपतामित्यनाथतामेकचित्त एकाग्रमनाः, निभृतः स्थिरः, शृणु। का पुनरसावित्याह-निर्गन्थानां धर्म आचारो निर्ग्रन्थधर्मस्तम् (लभियाण वित्ति) लब्ध्वाऽपि। यथेत्युपदर्शन। सीदन्ति तदनुष्ठानं प्रति शिथिलीभवन्ति / एके केचन, ईषदपरिसमाप्ताः कातरा निःसत्त्वा बहुकातराः / "विभाषा सुपो बहुच पुरस्तात्तु" || पाणि० 5 / 3.68 / इत्यतः प्राग् बहुच्प्रत्यये हि सर्वथा निःसत्वाः, ते मूलत एवन निर्ग्रन्थमार्ग प्रतिपद्यन्त इत्येवमुच्यते / यदि वा कातरा एव बहवः संभवन्तीति, बहुशब्दो विशेषणम्। नराःपुरुषाः सीदतश्च नात्मानमन्यांश्च रक्षयितुं क्षमाः। इतीयं सीदनलक्षणा पराऽनाथ तेति भावः / / 3 / / जो पव्वइत्ताण महव्वयाई, सम्मंच ना फासइ से पमाया। अणिग्गहप्पा य रसेसु गिद्धे, न मूलओ छिंदइ बंधणं से // 39 // हे राजन् ! यो मनुष्यः प्रव्रज्य दीक्षां गृहीत्वा, महाव्रतानि प्रमादात् सम्यग्विधिना न स्पृशति, न सेवते, (से इति) स प्रमादवशवर्ती बन्धनं कर्मबन्धनं रागद्वेषलक्षणं संसारकारणं मूलतो मूलाद्न छिनत्ति, मूलतो नोत्पाटयति। सर्वथा रागद्वेषौ न निवारयतीत्यर्थः / (पाई०टीका)नो स्पृशतीति नाऽऽसेवते प्रमादान्निद्रादेरनिग्रहोऽविद्यमानविषयनियन्त्रणे आत्मा यस्य सोऽनिग्रहात्मा। अत एव रसेषु मधुरादिषु गृद्धो गृद्धिमान् / बध्यतेऽनेन कर्मेति बन्धनम् रागद्वेषात्मकं (से इति) सः॥३६॥ आउत्तया जस्स य नत्थि काई, ईरियाइ भासाइ तहेसणाए। आयाण-निक्खेव-दुगंछणाए, न धीरजायं अणुजाइ मग्गं / / 4 / /