SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ अणाह 324 - अभिधानराजेन्द्रः - भाग 1 अणाह अधीया सत्थकुसला, मंतमूलविसारया||२२|| हेराजन् ! तदेत्यध्याहारः। आचार्याः वैद्यानां शास्त्रा-ऽभ्यासकारकाः मे उपस्थिताश्चिकित्सां कत्तु लग्नाः, कीदृशा आचार्याः विद्यामन्त्रचिकित्सकाः विद्यया मन्त्रेण च चिकित्सन्ति चिकित्सा कुर्वन्तीति विद्यामन्त्रचिकित्सकाः, प्रतिक्रियाकर्तारः / पुनः कीदृशा आचार्याः अधीताः सम्यक् पठिताः / 'अबीया' इति पाठे, न विद्यते अन्यो द्वितीयो येभ्यस्तेऽद्वितीया असाधारणाः / पुनः कीदृशास्ते ? शास्त्रकुशलाः शास्त्रेषु विचक्षणाः। पुनः कीदृशास्ते मन्त्रमूलविशारदाः, मन्त्राणि देवाधिष्ठितानि, मूलानि जटिका-रूपाणि, तत्र विचक्षणाः मन्त्रमूलिकानां गुणज्ञाः // 22 // ते मे तिगिच्छं कुव्वंति, चाउप्पयं जहाहियं / नय दुक्खा विमोयंति, एसा मज्झ अणाहया / / 23 / / ते वैद्याचार्या मम चिकित्सां रोगप्रतिक्रियां यथा हितं भवेत्तथा कुर्वन्ति। कीदृशं चैकित्स्यम् ? चातुष्पादं चत्वारः पादाः प्रकारा यस्यंतचतुष्पदम्, तस्य भावः चातुष्पादम्, चातुर्विध्यमित्यर्थः। वैद्य 1, औषध 2, रोगि 3, प्रतिचारक ४,रूपम् / अथवा- वमन 1, विरेचन 2, मर्दन 3, स्वेदन ५,रूपम्। अथवा-अञ्जन १,बन्धन २,लेपन 3, मर्दनरूपम्। शास्त्रोक्तं गुरु-पारंपर्यागतम् / चक्रुरिति स्थाने प्राकृतत्वात् कुर्वन्तीत्युक्तम्, ते वैद्या मां दुःखात् न विमोचयन्ति स्म। प्राकृतत्वाद् भूतार्थे वर्तमानार्थः प्रत्ययः, एषा ममानाऽथता वर्तते // 23 // अन्यच - पिया मे सव्वसारं पि, देजाहि समकारणा। न य दुक्खा विमोयंति, एसा मज्झ अणाहया // 24 // हे राजन् ! मम पिता मम कारणे सर्वमपि सारं गृहे यत्सारं सार-वस्तु तत्सर्वमपि वैद्योभ्योऽदात, तथापिवैद्या मांदुःखाद्न विमोचयन्ति स्म। एषा मम अनाथता ज्ञेयेति शेषः // 24 // माया वि मे महाराय !, पुत्तसोगदुहट्टिया। न यदुक्खा विमोयंति, एसा मज्झ अणाहया॥२५।। (पाईल्टीका तथा माताऽपि पुत्रविषयः शोकः पुत्रशोकः, हा ! कथमित्थं दुःखी मत्सुतोजात इत्यादिरूपः,ततो दुःखम्, तेन (अट्टियत्ति) आर्ता / अथवा (अद्दिय त्ति) अर्दिता, उभयत्र पीडितेत्यर्थः / ततः पुत्रशोकदुःखार्ता पुत्रशोकदुःखार्दिता वा ज्ञेया॥२५॥ भायरा मे महाराय !, सगा जिट्ठ कणिट्ठगा। न य दुक्खा विमोयंति, एसा मज्झ अणाहया।।२६|| हे महाराज ! मे मम भ्रातरोऽपिस्वका आत्मीयाः,ज्येष्ठकनिष्ठका वृद्धा लघवश्च मां न च दुःखाद्विमोचयन्ति स्म / एषा ममाऽनाथता ज्ञेया। (पाई०टीका)(सग त्ति) लोकरूदित सौदर्याः स्वका वा। अत्मीयाः // 26 // भइणीओ मे महाराय!, सगा जिट्ट कणिट्ठगा। न य दुक्खा विमोयंति, एसा मज्झ अणाहया // 27 // हे महाराज ! मे मम भगिन्योऽपिस्वका एकमातृजाः। ज्येष्ठाः कनिष्ठाश्च मां दुःखात् न विमोचयन्ति स्म, एषा मम अनाथता ज्ञेया // 27 / / भारिया मे महाराय !, अणुरत्ता अणुव्वया। अंसुपुण्णेहि नयणेहि, उरं मे परिसिंचइ // 28|| अन्नं पाणं च पहाणं च, गंधमल्लविलेवणं / मए नायमनायं वा, सा बाला नोव जइ // 26 // खणं पि मे महाराय !, पासाओ विन फिट्टइ। नय दुक्खा विमोयंति, एसा मज्झ अणाहया // 30 // हे महाराज ! मे मम भार्या कामिन्यपि दुःखत् मां न मोचयति स्म। कथम्भूता भार्या ? अनुरक्ता अनुरागवती। पुनः कथंभूता?, अनुव्रता पतिव्रता पतिमनुलक्षीकृत्य व्रतं यस्याः सा अनुव्रता। एतादृशी भार्या में ममोरोहृदयमश्रुपूर्णाभ्यां लोचनाभ्यां सिञ्चति स्म। (पाई०टीका)अपरञ्च भार्या पत्नी अनुरक्ताऽनुरागवती (अणुव्वय त्ति) अन्विति कुलानुरूपं व्रतमाचारोऽस्या अनुव्रता, पतिव्रतेति यावत्, वयोऽनुरूपा वा / पठ्यते च- (अणुत्तरमणुव्वय त्ति) इह च मकारोऽलाक्षणिकः / अनुत्तरा अति प्रधाना (उरं ति) उरो वक्षः, परिषिञ्चति समन्तात् प्लावयति ||28|| पुनः सा बाला मत्कामिनी अन्नमशनं मोदकादिकं भक्ष्यं, पानं शर्क रोदकादिकं, पुनः स्नानं कुङ्कु मादिपानीयैरभितैलचोवकमेदजवाधिप्रमुखैर्गात्रार्चनं मया ज्ञातं वा अज्ञातं स्व- भावेनैव एतत्सर्वं भोगाऽङ्गं नोपभुङ्के नाऽनुभवति / मम दुःखत् सर्वाण्यपि भोगाऽङ्गानि त्यक्तानि। (पाई०टीका)स्नानं स्नात्यनेनेति स्नानम् गन्धोदकादि, मया ज्ञातमज्ञातं वेत्यनेन सद्भावसारतामाह / पठ्यते च- "तारिस रोगमावण्णे ति" तादृशमुक्तरूपं रोगमक्षिरोगादिकम्, 'आवण्णे' प्राप्ते मयीति गम्यते / (से ति) भार्या बालेव बालाऽभिनवयौवना नोपभुक्ते नाऽऽसेवते // 26 // (खणं वि त्ति) पुनर्हे महाराज ! सा बाला मम पाश्र्थात् नैकट्यात् (न विफिट्टति) न अपयातीत्यर्थः / परं दुःखात् मां न मोचयति, एषा ममाऽनाथता ज्ञेया। (पाई०टीका)(पासाओ विण फिट्टइत्ति) अपिश्चशब्दार्थः, ततः पार्थाच्च नाऽपयाति, सदा सन्निहितैवाऽऽस्ते // 30 // अनेन तस्या अपि वत्सलत्वमाहतओ हं एवमाहंसु, दुक्खमा हु पुणो पुणो। वेयणा अणुभविउंजे, संसारम्मि अणंतए॥३१॥ ततोऽनन्तरं प्रतीकारेषु विफलेसु जातेषु अहमेवमवादिषम् / एवमिति किम् ? हुइति निश्चयेन या वेदना अनुभवितुं दुःक्षमा भोक्तुमसमर्थास्ता वेदनाः संसारे पुनः पुनर्भुक्ता इति शेषः / वेद्यते दुःखमनयेति वेदना / दुःखेन क्षम्यते सह्यते इति दुःक्षमा दुस्सहा, कीदृशे संसारे ? अनन्तकेऽपारे। (पाई०टीका)तत इति रोगाप्रतिकार्यतान्तरमहमेवं वक्ष्य-माणप्रकारेण (आहंसु त्ति) उक्तवान्, यथा (दुक्खमा हुत्ति) हुरेवकारार्थः / ततो दुःक्षमैव दुःसहैव पुनःपुनर्वेदना उक्तरूपा रोगव्यथा अनुभवितुम्, 'जे' इति निपातः पूरणे // 31 // सइंच जइ मुन्चेजा, वेयणा विउला उ मे। खंतो दंतो निरारंभो, पव्वइए अणगारियं // 32 // अहं कि मवादिषम् ? तदाह- यदि सकृ दप्ये कवारमप्यह
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy