________________ अणाह 323- अभिधानराजेन्द्रः-भाग 1 अणाह विस्मयनीयवर्णादिसंपत्तिमतः, कथमिति केन प्रकारेण, नाथो न विद्यते ? तत्कालाऽपेक्षया सर्वत्र वर्तमाननिर्देशः। “यत्रा-ऽऽकृतिस्तत्र गुणा वसन्ति, तथा गुणवतिधनम्, ततः श्रीः, श्रीमत्याज्ञा, ततो राज्यम्" इति हि लोकप्रवादः / तथा च न कथञ्चिदनाथत्यं भवतः संभवतीति भावः / यदि वाऽनाथतैव भवतः प्रव्रज्याप्रतिपतिहेतुः, ततः हे पूज्याः! अहं (भयंताणं इति) भदन्तानां पूज्यानां युष्माकं नाथो भवामि, यदा भवतां कोऽपि स्वामी नाऽस्ति, तदा अहं भवतां स्वामी भवामि, यदा अनाथत्वाद् युष्माभिर्दीक्षा गृहीता, तदाऽहं नाथोऽस्मीति भावः / हे संयत ! हे साधो ! भोगान् भुक्ष्य। कीदृशः सन् ? मित्रज्ञातिभिः परिवृतः सन्, हे साधो ! खलु इति निश्चयेन, मानुष्यं दुर्लभं वर्तते, तस्मात् मनुष्यत्वं दुर्लभं प्राप्य भोगान् भुक्त्वा सफलीकुरु॥१०-११॥ मुनिराह - अप्पणा वि अणाहोऽसि,सेणिया! मगहाहिवा!! अप्पणा अणाहो संतो, कस्स णाहो भविस्ससि ? ||12| हे राजन् ! श्रेणिक ! मगधदेशाधिपस्त्वमात्मनाऽपि अनाथोऽसि, आत्मना अनाथस्य सतस्तवाऽपि अनाथता,तदात्यमपरस्यकथं नाथो भविष्यसीति? ||१२सा एवं च मुनिनोक्ते - एवं वुत्तो नरिंदो सो, सुसंमंतो सुविम्हिओ। वयणं अस्सुयपुव्वं,साहुणा विम्हयं निओ // 13|| सनरेन्द्रः साधुना एवमुक्तः सन् विस्मयं नीतः, आश्चर्य प्रापितः। कीदृशो नरेन्द्रः ?, सुसंभ्रान्तोऽत्यन्तं व्याकुलतां प्राप्तः / पुनः कीदृशः ? सुविस्मितः पूर्वमेव तद्दर्शनात् संजाताश्चर्यः, पुनरपि तद्वचनश्रवणात् विस्मयवान्जातः, यतो हि तद्वचनमश्रुतपूर्व, श्रेणिकाय 'अनाथोऽसि त्वमिति' वचनं पूर्व केनाऽपि नो श्रावितम् / / 13 / / यदुक्तवांस्तदाहअस्सा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे। मुंजामि माणुसे भोए, आणा इस्सरियं च मे // 14|| एरिसे संपयग्गम्मि, सव्वकामसमप्पिए। कहं अणाहो भवइ. मा हु मंते ! मुसं वए ? ||15| द्वाभ्यां गाथाभ्यां श्रेणिको राजा वदति - हे भदन्त ! पूज्य ! हु इति निश्चयेन, मृषामा ब्रूहि असत्यं मावद / एतादृशे संपदग्रये सतिसम्पत्प्रकर्षे सति, अहं कथमनाथो भवामि?। कीदृशोऽहम् ? सर्वकामसमर्पितः, सर्वे च ते कामाश्च सर्वकामाः, तेभ्यः सर्वकामेभ्यः समर्पितः शुभकर्मणा ढौकितः। अथ राजा स्वसंपत्प्रकर्ष वर्णयति-अश्वाधोटकाः बहवो मम सन्ति, पुनर्हस्तिनोऽपि प्रचुराः सन्ति, तथा पुनर्मनुष्याः सुभटाः सेवका बहवो विद्यन्ते, तथा मम पुरं नगरमप्यस्ति, च पुनर्मे मम अन्तःपुरं राशीवृन्दं वर्तते / पुनरहं मानुष्यान् भोगान् मनुष्यसम्बन्धिनो विषयान् भुनज्मिाच पुनराज्ञैश्वर्यं वर्तते, आज्ञा अप्रति-हतशासनस्वरूपं प्रभुत्वं वर्तते, यतो मम राज्ये कोऽपि मदीयामाज्ञां न खण्डयतीत्यर्थः / यतिस्तमुवाचन तुमं जाणे अणाहस्स, अत्थं पोत्थं च पत्थिवा!। जहा अणाहो हवइ, सणाहो वा नराहिवा!॥१६॥ हे पार्थिव ! हे राजन्! त्वम् 'अणाहस्स' अनाथस्य अर्थम् अभिधेयम्, चशब्दः पुनरर्थे, च पुनरनाथस्य प्रोत्था न जानासि, प्रकर्षणोत्थानं मूलोत्पत्तिः प्रोत्था, तां प्रोत्थाम्, केनाऽभि-प्रायेणाऽयमनाथशब्दः प्रोक्त इत्येवंरूपां न जानासि। हे राजन् ! यथाऽनाथोऽथवा सनाथो भवसि, तथा न जानासि, कथमनाथो भवति, कथं वा सनाथो भवति? ||16|| इत्याह सुणेह मे महाराय ! अव्वक्खित्तेण चेयसा। जहा अणाहो भवइ, जहा मे य पवत्तियं / / 17 / / हे महाराज ! मे मम कथयतः सतः त्यमव्याक्षिप्तेन स्थिरेणचेतसा शृणु / यथाऽनाथो नाथरहितो भवति, तथा मे ममाऽनाथत्वं प्रवर्तितम् / अथवा (मे य इति) मे एतदनाथत्वं प्रवर्तितं, तथा त्वं शृणु।इत्यनेन स्वकथाया उट्टङ्कः कृतः॥१७|| कोसंबी नाम नयरी, पुराणपुरमेयणी। तत्थ आसी पिया मज्झं, पमूयधणसंचओ॥१८॥ हे राजन् ! कौशाम्बी नगरी आसीत् / कीदृशी कौशाम्बी ? पुराणपुरभेदिनी जीर्णनगरभेदिनी, यादृशानि जीर्णनगराणि भवन्ति तेभ्योऽधिकशोभावती / कौशाम्बी हि जीर्णपुरी वर्त्तते जीर्णपुरस्था हि लोकाः प्रायशश्चतुरा धनवन्तश्च बहुज्ञा विवेकवन्तश्च भवन्तीति हार्दम् / तत्र तस्यां कौशाम्ब्यां मम पिताऽऽसीत् / कीदृशो मम पिता ? प्रभूतधनसञ्चयः / नाम्नाऽपि धनसंचयः, गुणेनाऽपि बहुलधनसंचय इतिवृद्धसंप्रदायः // 18 // पढमे वए महाराय !, अउला मेऽस्थिवेयणा। अहोत्था विउलो दाहो, सव्वगत्तेसु पत्थिवा! // 16 // हे महाराज ! प्रथमे वयसि यौवने एकदा अतुलोत्कृष्टा, अस्थि-वेदना अस्थिपीडा, (अहोत्था इति) अभूत्। अथवा "अच्छि-वेयणा'" इतिपाठे अक्षियेदना नेत्रपीडा अभूत् / ततश्च हे पार्थिव ! हे राजन् ! सर्वगात्रेषु विपुलो दाघोऽभूत् // 16 // सत्थं जहा परमतिक्खं, सरीरविवरंतरे। पाविसिज्ज अरी कुद्धो, एवं मे अस्थिवेयणा // 20 // हे राजन् ! यथा कश्चिदरिः क्रुध्यन् कुद्धः सन्, शरीरविवरान्तरे नासाकर्णचक्षुःप्रमुखरन्ध्राणां मध्ये परमतीक्ष्णं शस्त्रं प्रपीडयेद् गाढमवगाहयेत्, एवं मे ममास्थिवेदनाऽभूत्। (शरीरविवरंतरे ति) (पाई०टीका)शरीरवियराणि कर्णरन्ध्रादीनि, तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् (पाविसिज्ज त्ति) प्रवेशयेत् प्रक्षिपेत् / शरीरविवरग्रहणमतिसुकुमारत्वादान्तरत्वं चाऽऽगाढवेदनोपलक्षणम् / पठ्यते च- शरीरवीर्यान्तरेण "आविलिज त्ति" पाठान्तरे शरीरवीर्य सप्त धातवस्तदन्तरे तन्मध्य आपीडयेद् गाढमवगाहेयत्। एवमित्यापीयमानस्य शस्त्रवद् मे ममा-ऽक्षिवेदना / कोऽर्थः ? यथा तदत्यन्तबाधाविधायि तथैषाऽपीति // 20 // तियं मे अंतरिच्छं च, उत्तमंगं च पीडइ। इंदासणिसमा धोरा, वेयणा परमदारुणा // 21 // हे राजन् ! सा परमदारुणा वेदना मे मम त्रिकं कटिपृष्ठविभागम् / च पुनरन्तरिच्छाम्- अन्तर्मध्य इच्छा अन्तरिच्छा, तामन्तरिच्छाम् / भोजनपानरमणाभिलाषरूपाम् / च पुनरुत्तमाङ्ग मस्तकं पीडयति / कीदृशी वेदना ? इन्द्राशनिसमा घोरा, इन्द्रस्याऽशनि-र्यजं तत्समाऽतिदाहोत्पादकत्वात् तुल्या, घोरा भयदा // 21 // किं न कश्चित्तां प्रतिकृतवानित्याहउवट्ठिया मे आयरिया, विजामंततिगिच्छगा।