________________ अणाह 322- अभिधानराजेन्द्रः - भाग 1 अणाह कृत्वा ? सिद्धान् पञ्चदशप्रकारान् नमस्कृत्य, च पुनर्भावतो भक्तितः, संयतान् साधून आचार्योपाध्यायादिसर्वसाधून नमस्कृत्य / कीदृशीं मे अनुशिष्टिम् ? अर्थधर्मगताम् / अथ्यते प्रार्थ्यते धर्मात्मभिः पुरुषैरिति अर्थः, सचाऽसौधर्मश्च अर्थधर्मः, तस्य गतिनि यस्यां सा अर्थधर्मगतिः, ताम्, द्रव्यवद्यो दुष्प्राप्यो धर्मस्तस्य धर्मस्य प्राप्तिकारिकाम्, यया मम शिक्षया दुर्लभधर्मस्य प्राप्तिः स्यादिति भावः / पुनः कीदृशीं मेऽनुशिष्टिम् ? तथ्यां सत्याम् / अथवा 'तचं' तत्त्वरूपां या, इह चाऽनुशिष्टिरभिधेया, अर्थधर्मगतिः प्रयोजनम् / अनयोश्च परस्पमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्त इति सूत्रार्थः / / 1 / / सम्प्रति धर्मकथाऽनुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमाहपभूयरयणो राया, सेणिओ मगहाहिवो। विहारजत्तं निजाओ, मंडिकुञ्छिसि चेइए।शा श्रेणिको नाम राजा एकदा मण्डितकुक्षिनाम्नि चैत्ये उद्याने विहारयात्रया उद्यानक्रीडया निर्यातः,नगरात् क्रीडार्थ मण्डित- कुक्षियने गत इत्यर्थः / कीदृशः श्रेणिको राजा ? मगधाऽधिपः मगधानां देशानामधिपो मगधाधिपः / पुनः कीदृशः ? प्रभूतरत्नः प्रचुरप्रधानगजाऽश्वमणिप्रमुखपदार्थधारी॥२॥ तदेव विशिनष्टि - नाणादुमलयाइण्णं, नाणापक्खिनिसेवियं / नाणाकुसुमसंछन, उज्जाणं नंदणोवमं // 3 // अथ मण्डितकुक्षिनाम उद्यानं कीदृशं वर्तते ? तदाह / कीदृशं तद्वनम् ?, नानागुमलताकीर्ण विविधवृक्षवल्लीभियाप्तम् / पुनः कीदृशम् ? नानापक्षिनिषेवितं विविधविहरतिशयेना-ऽऽश्रितम् / पुनः कीदृशम् ? नानाकुसुमसंच्छनं बहुवर्णपुष्पव्याप्तम् / पुनः कीदृशं तत् उद्यानम् ? नागरिकजानां क्रीडास्थानम् / नगरसमीपस्थं वनमुद्यानमुच्यते / पुनः कीदृशम् ? नन्दनोपमं नन्दनं देववनं, तदुपमम् // 3 // तत्थ सो पस्सई साहुं, संजयं सुसमाहियं / निसन्नं रुक्खमूलम्मि, सुकुमालं सुहोइयं // 4 // तत्र वने स श्रेणिको राजा साधुं पश्यति / कीदृशं साधुम् ?, संयतं सम्यकप्रकारेण यतं यत्नं कुर्वन्तम् / पुनः कीदृशम् ?, सुसमाधितं सुतरामतिशयेन समाधियुक्तम् / साधुः सर्वोऽपि शिष्ट उच्यते, तद्स्वच्छेदार्थ संयतमित्युक्तम्, सोऽपि च बहिः संयमवान् निद्वयादिरपि स्यात्, इति सुष्ठुसमाहितोमनःसमाधानवान् सुसमाहितस्तमित्युक्तम् / पुनः कीदृशम् ? वृक्षमूले निषण्णं स्थितम् ।पुनः कीदृशम् ? सुकुमालम् / पुनः कीदृशम् ? सुखोचितं सुखयोग्यम्, शुभोचितं वा // 4|| तस्स रूवं तु पासित्ता, राइणो तम्मि संजए। अचंतपरमो आसी, अउलो रूवविम्हिओ / / 5 / / राज्ञः श्रेणिकस्य तस्मिन् संयते साधौ अत्यन्तः परमोऽतिशयप्रधानोऽधिकोत्कृष्टः, अतुलो निरुपमोऽनन्यसदृशो रूपविस्मयोरूपाश्चर्यमासीत् / किं कृत्वा ? तस्य साधोः, रूपं दृष्ट्वा / तुशब्दो वाक्याऽलङ्कारे // 5 // अहो ! वन्नो अहो ! रूवं, अहो ! अजस्स सोम्मया। अहो ! खंती अहो ! मुत्ती, अहो ! भोगे असंगया|६|| तदा राजा मनसि चिन्तयति स्म- अहो ! इत्याश्चर्ये / आश्चर्यकारी अस्य शरीरस्य वर्णो गौरत्वादिः / अहो ! आश्चर्यकृत्, अस्य साधो रूपं लावण्यसहितम् / अहो ! आश्चर्यकारिणी अस्य आर्यस्य सौम्यता चन्द्रवन्नेत्रप्रियता / अहो ! आश्चर्यकारिणी अस्य शान्तिः क्षमा। अहो ! आश्चर्यकारिणी चाऽस्य मुक्तिर्निलाभता। अहो ! आश्चर्यकारिणी अस्य भोगे असङ्गता, विषये निस्पृहता॥६॥ तस्स पाए उवंदित्ता, काऊण य पयाहिणं / नाऽइदूरमणासन्ने, पंजली परिपुच्छइ / / 7 / / तस्य साधोः पादौ वन्दित्वा, पुनः प्रदक्षिणां कृत्वा, राजा नाऽतिदूर नाऽत्यासन्नः / कोऽर्थः ?, नाऽतिदूरवर्ती नातिनिकटवर्ती वा सन्, प्राञ्जलिपुटो बद्धाऽञ्जलिः पृच्छति, प्रश्नं करोति / / 7 / / तरुणोऽसि अनो! पव्वइओ, मोगकालम्मि संजया !! उवडिओऽसि सामन्ने, एयमढे सुणामि ते // 8 // तदाश्रेणिकः किं पृच्छति-हे आर्य! हे साधो!, त्वं तरुणोऽसि युवाऽसि / हे संयत! हे साधो ! तस्माद्भोगकाले भोगसमये, प्रव्रजितो गृहीतदीक्षः, तारुण्यं हि भोगस्य समयोऽस्ति, न तु दीक्षायाः समयः / हे संयत ! तारुण्ये भोगयोग्यकाले त्वं श्रामण्ये दीक्षायामुपस्थितोऽसि, आदरसहितोऽसि। एतदर्थं एतन्निमित्तं, त्वत्तः शृणोमि, किं तव दीक्षायाः कारणम् ? कस्मानिमित्तात् दीक्षात्वया गृहीता? तत्कारणं त्वन्मुखात् श्रोतुमिच्छामीत्यर्थः / (पाई०टीका)तरुणेत्यादिना प्रश्नस्वरूपमुक्तम् / इह च यत एव तरुणोऽत एव प्रव्रजितो भोगकाले इत्युच्यते, तारुण्यस्य भोगकालत्यात् / यता- तारुण्येऽपि रोगादिपीडायां न भोगकालः स्यात्, इत्येवमभिधानम् / सोऽपि कदाचित्संयमेऽनुद्यत एव स्यात् / त्वं पुनरुपस्थितश्च / पठन्ति च (उवाट्टिओसि ति) एनमर्थनिमित्तं येनाऽर्थेन त्वमीदृश्यामप्यवस्थायां प्रव्रजितः, शृणोमि, 'ता' इति तावत् पश्चात् तु यत्त्वं भणिष्यसि, तदपि श्रोष्यामीति भावः / इति श्लोकसप्तकार्थः / / 8 / / इत्थं राज्ञोक्ते मुनिराह - अणाहो मि महाराय !, नाहो मज्झन विज्जइ। अणुकंपयं सुहिं वा वि, कंची णाहि तुमे महं || अनाथोऽस्यामिकोऽस्मीत्यहं महाराज ! प्रशस्यनृपते ! किमित्येवम् / यतः- नाथो योगक्षेमविधाता, मम न विद्यते / तथा (अणुकंपयं ति) आर्षत्वादनुकम्पको यो मामनुकम्पते (सुहिं ति) तत एव सुहृत् (कंचि त्ति) कश्चिन्न विद्यते, ममेति सम्बन्धः (नाहि त्ति) प्रक्रमादनन्तरोक्तम) जानीहि (तुमे त्ति) त्वम् / पठ्यते - "किंची णाभिसमे महं" किं चिदनुकम्पकं सुहृदं वापि नाभिसमे नाभिसंगच्छामि न केनचिदनुकम्पनेन, सुहृदा च संगतोऽह-मित्यादिनाऽर्थेन तरुणेऽपि प्रव्रजित इति भावः / इति सूत्रार्थः // 6 // एवं मुनिनोक्तेतओ पहसिओ राया, सेणिओ मगहाहिवो। एवं ते इडिमंतस्स, कहं नाहो न विजइ? ||10|| होमि नाहो भयंताणं, मोगे मुंजाहि संजया !! मित्तनाईपरिवुडो, माणुस्सं खलु दुल्लहं // 11 // (पाई०टीका)ततस्तदनन्तरं श्रेणिको मगधाऽधिपो राजा प्रहसितः। हे महाभाग ! एवं तव ऋद्धिमतः ऋद्धियुक्तस्य कथं नाथो न विद्यते ?,नवरम्, एवमिति दृश्यमानप्रकारेण, ऋद्धिमतो