________________ अणाविलप्पण 321- अभिधानराजेन्द्रः - भाग 1 अणाह सूत्रत्रयम् - एतेषां तु प्राणिवधविरत्यादीनां समित्यादीनां चाऽनाऽऽश्रवहेतूनां (विवच्चासे त्ति) विपर्यासे प्राणिवधादावश-मितत्वादी चरागद्वेषाभ्यां समार्जितमुपार्जितरागद्वेषसमार्जितं, कर्मेति गम्यते, तन्मे कथयतेति शेषः / एकमेकत्र वस्तुनि अभिनिविष्टत्वेन मनो यस्याः सा एकमनाः, शृण्विति शिष्या-ऽभिमुखीकरणम्, सन्निरुद्ध पाल्यादिना निषेद्धये, जलागमे जलप्रवेशे, (उस्सिचणाए ति) सूत्रत्वादुत्सेचनेनाऽरघट्टघटी-निवहादिभिरुदञ्चनेन (तवणाए त्ति) प्राग्वत्तपनेन रविकरनिकर-सन्तापरूपेण क्रमेण परिपाट्या शोषणा जलाभावरूपा भवेत् / पापकर्मनिराश्रवे पापकर्मणामाश्रवाभावे, भवकोटीसञ्चितमित्यत्रत्रकोटिग्रहणमतिबहुत्वोपलक्षणम्, कोटिनियमाऽसंभवात, कर्म तपसा निर्जीयते आधिक्येन क्षयं नीयते, शेष स्पष्टमिति सूत्रत्रयाऽर्थः / उत्त० 30 अ०। पञ्चत्रिंशे गौणप्राणातिपातविरमणे, तस्य कर्मबन्धनिरोधोपायत्वात्। प्रश्न०१ संव० द्वा०। आ समन्तात् शृण्वन्ति गुरुवचनमाकर्णयन्तीति आश्रवाः / न तथा प्रतिभाषाविषयस्य तस्याश्रवणादनाश्रवः / गुरुवचनेऽस्थिते, "अणासवाथूलवया कुसीला, भिउंपि चंडं पकरेंति सीसा" इति दुर्विनीतलक्षणम् / उत्त० 1 अ०) आश्रवः व्रतविशेषे, आचा० अणासाइजमाण-त्रि०(अनास्वाद्यमान) न० त०। केवलं रसनेन्द्रियविषये, भ०१श०१उ० अणासाएमाण-त्रि०(अनाशायमान) आशाविषयमकुर्वाणे उत्त० 26 अ० "अभयंकरे भिक्खू अणाविलप्पा'। सूत्र० १श्रु०७अ०। अणावुट्ठि-स्त्री०(अनावृष्टि) वर्षणाऽभावे, स०) अणासंसि(ण)-पुं०(अनाशंसिन) न० त०ा श्रोतृभ्यो वस्त्राद्यनाकासिणि प्रवचनसारपरिकथनयोग्ये, बृ० 1 उ०। आचार्याचाराधनाशंसारहिते, सांसारिकफलानपेक्षे वा, आलोचनाप्रदानयोग्ये, आशंसिनो हि समग्राऽतिचारा-5ऽलोचनासंभवात् आशसाया एवाऽतिचारत्वात्। धर्म० 2 अधि० ग०। प्रव०॥ पञ्चा०। अणासग-त्रि०(अनश्वक) अश्वरहिते, भ०७ श०६ उ01 अणासच्छिन्न-त्रि०(अच्छिन्ननास)अकृत्तघ्राणे,नि०चू०४ उ०। अणासण्ण-त्रि०(अनासन्न) अनिकटवर्तिनि, उत्त०२० अ०। अणासत्ति-स्त्री०(अनासक्ति) अप्रतिबद्धतायाम्, स्वजनादिषु स्नेहाभावे, भ०१श०६ उ० अणासय-त्रि०(अनाशय) न विद्यते आशयः पूजाभिप्रायो यस्याऽसावनाशयः / द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनास्वादके तीर्थकृति, तद्गतगाझ्याऽभावात् / सूत्र०१ श्रु० 15 अ॥ अणासव-पुं०(अनाश्रव) न विद्यन्ते आश्रवा हिंसादयो यस्य / पापकर्मबन्धरहिते हिंसाद्याश्रवद्वारविरते, क० प्र० उत्त०। प्राणातिपातादिरहिते, औ०। "अणासवे अममे अकिंचणे' / औ०। अविद्यमानपापकर्मबन्धे, औ०। आश्रवति तान् तान् शोभनत्वेन अशोभनत्वेन वा गृह्णातीत्याश्रवः, नाऽऽश्रवोऽनाश्रवः / मध्यस्थे रागद्वेषरहिते, बृ०॥ सद्दाणि सोचा अदु भेरवाणि, अणासवे तेसु परिव्वएज्जा। शब्दान् वेणुवीणादिकान् मधुरान्, श्रुतिपेशलान्, श्रुत्वा समाकर्ण्य, अथ भैरवान् भयावहान्, कर्णकटूनाकर्ण्य, तेष्वनुकूलेषु प्रतिकूलेषु श्रवणपथमुपागतेषु शब्देष्वनाश्रवो मध्यस्थो रागद्वेषरहितो भूत्वा परि समन्ताद् व्रजेत्परिव्रजेत्, इति। बृ० 3 उ०। नवकर्माऽनुपादाने, प्रश्न० 1 आश्र० द्वा० अनाश्रवेणैव सर्वथा कर्मक्षय इति यथाऽसौ भवति, तथाहपाणवह मुसावायं, अदत्त मेहुण परिग्गहा विरआ। राईभोयण विरओ, जीवो होई अणासवो।। पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ। आगारवो य निस्सल्लो, जीवो होइ अणासवो॥ सूत्रद्वयं प्रायः प्रतीतार्थमेव, नवरं, विरत इति प्राणवधादिभिः प्रत्येकममिसम्बध्यते / तथा भवत्यनाश्रव इति अविद्यमानकर्मोपादानहेतुः / द्वितीयसूत्रेऽप्यनाश्रवः समित्यादिविपर्ययाणां कर्मोपादानहेतुत्वेनाश्रवरूपत्वात् , तेषां चाऽविद्यमानत्वादिति सूत्रद्वयार्थः / एवंविधश्च तादृशं कर्म यथाऽसौ क्षपयत्याराधनया। पुनः शिष्याभिमुखीकरणपूर्वकं दृष्टान्तद्वारेण तदाहएएसिं तु विवचासे, रागदोससमज्जियं। खवई तवसा भिक्खू, मएगग्गमणो सुणु // जहा महातलायस्स, सण्णिरुद्धे जलागमे / उस्सिंचणाए तवणाए, कम्मेण सोसणा भवे // एवं तु संजयस्सावि, पावकम्मनिरस्सवो। भवकोडीसंचयं कम्म, तवसा णिज्जरिजइ॥ *अनास्वादयत्-त्रिका अभुञ्जाने, उत्त० 26 अ०। अणासायणा-स्त्री०(अनाशातना) न० त०। तीर्थकरादीनां सर्वथाऽहीलनायाम, दश०९ अ०१उ० द्वा०। मनोवाशायैः प्रतीपवर्जने, उत्त०१ अ01 अणासायणाविणय-पुं०(अनाशातनाविनय) अनुचित क्रियानिवृत्तिरूपे दर्शनविनयभेदे; अयं च पञ्चदशविधः। आह च"तित्थगरधम्मआयरिअवायगे थेरकुलगणे संघे। संभोगिअकिरियाए, मइनाणाईणयतहेव" सांभोगिका एकसामाचारिका क्रिया आस्तिकता। अत्र भावना- तीर्थ-कराणामनाशातनायां तीर्थकरप्रज्ञप्तधर्मस्याऽनाशातनायां च वर्तितव्यमित्येवं सर्वत्र द्रष्टव्यमिति। "कायव्वा पुण भत्ती, बहुमाणो तह य वण्णवाओ य। अरहंतमाइयाणं, के वलनाणावसाणाणं" ||1|| स्था०७ ठा०1०। द०) अणासिय-त्रि०(अनाशित) बुभुक्षिते,"अणासिया णाम महासियाला, या गम्भिणो तत्थ सयासको वा'' सूत्र०१ श्रु०५ अ०२ उ०। अणासेवणा-स्त्री०(अनासेवना) आसेवनाविरहे, आचा० 1 श्रु० ८अ०३ उ०॥ अणाह-त्रि०(अनाथ) अशरणे, नि० चू०३ उ०ा निःस्वामिनि, विपा० 1 श्रु०७ अ योगक्षेमकारिविरहिते, प्रश्न०१ आश्र० द्वा० / रङ्के, ज्ञा० 8 अ० आत्मनोऽनाथत्वपरिभावयितरि मुनिभेदे, पुं०। यथा मुनिना श्रेणिकं प्रति आत्मनोऽनाथता दर्शिता, तथा कोऽर्थः ? अनाथत्वसनाथत्वे च विचारिते / उत्त०२० अ० तथोक्तं च पाई० टीकोपेते उत्तराध्ययनेसिद्धाणं नमो किचा, संजयाणं च भावओ। अत्थधम्मगई तत्थं, अणुसद्धिं सुणेह मे // 1 // भोः शिष्याः ! मे मम अनुशिष्टिं शिक्षां यूयं शृणुत / किं