________________ अणायार 318- अभिधानराजेन्द्रः - भाग 1 अणायावाइण पुनरपि चारित्रमङ्गीकृत्याऽऽहारविषयानाचाराचारौ प्रति- पादयितुकाम आहआहाकम्माणि भुंजंति, अण्णमण्णे सकम्मुणा। उवलित्ते ति जाणिज्जा, अणुवलित्ते ति वा पुणो ||8|| साधुप्रधानकारणमादायाऽऽश्रित्य कर्माण्याधाकर्माणि, तानि तु वस्त्रभोजनवसत्यादीन्युच्यन्ते। एतान्याधाकर्माणि ये भुञ्जते एतैरुपभोग ये कुर्वन्ति, अन्योन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान् विजानीयादित्येवं नो वदेत्, तथा-ऽनुपलिप्सानिति वा नो वदेत्। एतदुक्तं भवति- आधाकर्मापि श्रुतोपदेशेन शुद्धमिति कृत्वा भुञ्जानः कर्मणा नोपलिप्यते, तदाऽऽधाकर्मोपभोगेनाऽवश्यतया कर्मबन्धोः भक्तीत्येवं नो वदेत् / तथा श्रुतोपदेशमन्तरेणाऽऽहारगृद्धयाऽऽधाकर्मभुजा-नस्य तन्निमित्तकर्मबन्धसदृशत्वासदृशत्वयोर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते / तथाहि- न वध्यस्य सदृशत्वासदृश-त्वयोर्व्यवहरणं व्यवहारो नियुक्तिकत्वात्न युक्तं सदृशत्वम्, अतोऽनुलिप्तानपिनो वदेत् / यथाऽवस्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुमाधाकर्मोपभोगेन स्यात्कर्मबन्धः, स्यान्नेति / यत उक्तम्- किश्चिच्छुद्धं कल्पमकल्पं वा स्यादकल्पमपि कल्पम्। पिण्डः शय्या वस्त्र, पात्रं वा भेषजाधं वा।।१।। तथा-ऽन्यैरप्यभिहितम्-"उत्पद्येत हि साऽऽवस्था, देशकालामयान् प्रति / यस्यामकार्य कार्यं स्यात्, कर्म कार्यं च वर्जयेत् |2|| इत्यादि // 6 // किमित्येवं स्याद्वादः प्रतिपाद्यते ? इत्याह - एएहिं दोहि ठाणेहिं, ववहारो ण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए / / 6 / / (एएहिं दोहिमित्यादि) आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्व्यवस्थानयोराधाकर्मोपभोगेन कर्मबन्धाभावा ऽभावभूतयोर्व्यवहारो न विद्यते / तथाहि- यद्यवश्यमाधाकर्मो-पभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत, एवं चाहाराभावेनापि क्वचित्सुतरामनर्थोदयः स्यात्। तथाहि-क्षुत्पपीडितो न सम्य-गीर्यापथं शोधयेत,ततश्च व्रजन् प्राण्युपमर्दमपि कुर्यात्। मूर्छा-दिसद्भावतया देहपाते सति अवश्यंभावी वसादिव्याधातो- कालमरणे चाऽविरतिरङ्गीकृता भवति, आर्तध्यानापत्तौ च तिर्यग्गतिरिति। आगमश्च-''सव्वत्थ संजमं संजमाओ अप्पा-णमेव रक्खेजा" इत्यादिनाऽपि तदुपभोगे कर्मबन्धाभाव इति। तथाहि- आधाकर्मण्यपि निष्पाद्यमाने षड्जीवनिकायवधः, तद्वधे च प्रतीतः कर्मबन्ध इत्योऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यहरणं व्यवहारो न युज्यते / तथाऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम् / पुनरप्यन्यथा दर्शनं प्रति चागमानाचारं दर्शयितुमाह- यदि वा योऽयमनन्तरमाहारः प्रदर्शितः, स सति शरीरे भवति / शरीरं च पञ्चधा, तस्य चौदारिकादेः शरीरस्य भेदाऽभेदं प्रतिपादयितुकामः पूर्वपक्षद्वारेणाऽऽहजमिदं उरालमाहारं, कम्मगं च तहेव य। सव्वत्थ वीरियं अत्थि,णत्थि सव्वत्थ वीरियं / / 10 / / (जमिदमित्यादि) यदिदं सर्वजनप्रत्यक्षमुदारैः पुद्गलैर्निर्वृत्तमौदारिकमेतदेवोरालं निस्सारत्वात् / एतच तिर्यङ्मनुष्याणां भवति / तथा चतुर्दशपूर्वविदा क्वचित्संशयादावाहियत इत्याहारकम्। एतद्ग्रहणाच वैक्रियोपादानमपि द्रष्टव्यम्। तथा कर्मणा निवृत्तं कार्मणम्, एतत् सहचरितं तैजसमपि ग्राह्यम्। औदारिकवैक्रियाहारकाणां प्रत्येकं / तैजसकार्मणाभ्यां सह युगपदुपलब्धेः कस्यचिदेकत्वाशङ्का स्यादतस्तदपनोदार्थं तदभिप्रायमाह- तदेव तद्यदेवौदारिकं शरीरं, त एव तैजसकामणे शरीरे / एवं वैक्रियाहारकयोरपि वाच्यम् / तदेवंभूतां संज्ञां नो निवेशयेदित्युत्तरश्लोके क्रिया / तथैतेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञां नो निवेशयेत् / युक्तिश्चात्र- यद्येकान्तेनाभेद एव, तत इदमौदारिकमुदारपुद्गलनिष्पन्नं,तथैतत्कर्मणा निर्वर्तितं कार्मणं, सर्वस्यैतस्य संसारचक्रवालस्य भ्रमणस्य करण- भूतं तेजोद्रव्यैर्निष्पन्नं तेज एव तैजसम्, आहारपक्तिनिमित्तं तैजसलब्धिनिमित्तं चेत्येवं भेदेन संज्ञानिरुक्तं कार्य च न स्यात् / अथाऽऽत्यन्तिको भेद एव, ततो घटवभिन्नयोर्दे शकालयोर-प्युपलब्धिः स्यात् / न नियता युगपदुपलब्धिरित्येवं च व्यवस्थिते कथञ्चिदेवोपलब्धेरभेदः, कथञ्चिच्च संज्ञाभेदाभेद इति स्थितम् / तदेवमौदारिकादीनां शरीराणां भेदाभेदी प्रदाधुना सर्वस्यैव द्रव्यस्य भेदाभेदौ प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चाद्धेन दर्शयितुमाह-(सव्वत्थ वीरियमित्यादि) सर्व सर्वत्र विद्यत इति कृत्वा साङ्ख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणत्वात्, अतः सर्वं सर्वात्मकमित्येवं व्यवस्थिते घटपटाद्यवयवस्य व्यक्तस्य वीर्यं शक्तिर्विद्यते। सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वात्कार्य-कारणयोश्चैकत्वादतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवं संज्ञा नो निवेशयेत्।('अणेगंतवाय' शब्देऽत्रैव भागे अग्रेतनी साङ्ख्य-मतनिरासनपरायुक्तिः वक्ष्यते)। सूत्र०२ श्रु०५ अ०) ('णत्थि लोए अलोए वा,ऽणेवं सण्णं णिवेसए'' इत्यादि सूत्राणि 'अस्थिवाय' शब्देऽग्रे प्रदर्शयिष्यन्ते) ओघतोऽभोगानाभोगसेवितार्थमाहसे य जाणमजाणं वा, कटे आहम्मियं पयं / संचरे खिप्पमप्पाणे,बीयं तं न समायरे ||31|| स साधुनिन्नजानन् वा अभोगतोऽनाभोगतश्चेत्यर्थः। कृत्वा अधार्मिक पदम्, कथञ्चिद्रागद्वेषाभ्यां मूलोत्तरगुणविराधनामिति भावः / संचरेत्क्षिप्रमात्मानं भावतो निवालोचना-दिना प्रकारेण, तथा द्वितीय पुनस्तन्न समाचरेदनुबन्धदोषादिति सूत्रार्थः / एतदेवाऽऽह - अणायारं परक्कम्म नेव गृहे न निन्हवे। सुईसया वियडभावे, असत्तो जिइंदिए|३२|| अनाचारं सायद्ययोगं पराक्रम्याऽऽसेव्य गुरुसकाशे आलोचयन्न एव गूहयेत, न निह्ववीत / तत्र गूहनं किञ्चित् कथनम्, निहव एकान्ताऽपलापः / किंविशिष्टः सन्नित्याह- शुचिरकलुषमतिः, सदा विकटभावः प्रकटभावः, असंसक्तोऽप्रतिबद्धः, क्वचित् जितेन्द्रियो जितेन्द्रियप्रमादः सन्निति / दश०८ अ०। (सिद्धान्तपाठको न कदाचिदप्यनाचारीति'नंदिसेण' शब्दे उदाहरण-रूपतया वर्णयिष्यते। तथा त्रिविधोऽनाचारः 'संकिलेस' शब्दे वक्ष्यते) अणायारज्झाण-न०(अनाचारध्यान) न आचारोऽनाचारः / नञः कुत्सार्थत्वाद् दुष्टाचारस्य ध्यानमनाचारः। दुर्थ्याने, वल्लरदावं ध्यायतःकोङ्कणसाधोरिव,देवानामनागमनादुत्प्रव्रजितुकामस्यापाठसूरेरिव वा कुध्याने, आतु। अणायावाइ(ण)-पुं०(अनात्मवादिन) आत्मानं वदितुंशील-मस्येति / यः पुनरेवं भूतमात्मानं नाऽभ्युपगच्छति, सोऽनात्मवादी / आत्मानमनभ्युपगन्तरि नास्तिके, सर्वव्यापिनं नित्यं क्षणिक वाऽऽत्मानमभ्युपगन्तरि, आचा०१श्रु०१अ०१उ०।