________________ अणायार 317 - अभियानराजेन्द्रः - भाग 1 अणायार (समुच्छिहितीत्यादि) सम्यग् निरवशेषतयोच्छेत्स्यन्त्युच्छेदंयास्यन्ति क्षयं प्राप्स्यन्ति, सामस्त्येनोत्प्राबल्येन सेत्स्यन्ति वा सिद्धिंयास्यन्ति। के ते ?, शास्तारस्तीर्थकृतः सर्वज्ञाः, तच्छासनप्रतिपन्ना वा, सर्व निरवशेषाः सिद्धिगमनयोग्याः, ततश्चोत्सन्नभव्यं जगत्स्यादिति शुष्कतकाभिमानग्रहगृहीतां युक्तिं चाऽभिदधति / जीवसभावे सत्यप्यपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनसंभवात्, कालस्य चाऽऽनन्त्यादनाचारतासिद्धिगमनसंभवेन तद्यथोपपत्तेरपूर्वाभावादभव्योच्छेद इत्येवं नो वदेत्। तथा सर्वेऽपि प्राणिनो जन्तवोऽनीदृशा विसदृशाः सदा परस्परविलक्षणा एव, न कथञ्चित्तेषां सादृश्यमस्तीत्येवमप्येकान्तेन नो वदेत् / यदि वा सर्वेषां भव्यानां सिद्धिसद्भावे विशिष्टाः संचारेऽनीदृशा अभव्या एव भवेयुरित्येवं च नो वदेत् / युक्तिं चोत्तस्त्र वक्ष्यति। तथा कर्मात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिका इति, ग्रन्थिकाः सर्वे प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नोवदेत्। इदमुक्तं भवति- सर्वेऽपि प्राणिनः सेत्स्यन्त्येव, कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्ष-मेकान्तिकं नो वदेत् / यदि वा ग्रन्थिका इति। ग्रन्थिकसत्त्वा भविष्यन्तीति ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत् / तथा शाश्वता इति। शास्तारः सदा सर्वकालं स्थायिनः तीर्थकरा भविष्यन्ति, न समुच्छेत्स्यन्ति, नोच्छेदं यास्यन्तीत्येवं नो वदेदिति। तदेवं दर्शनाचारवादनिषेधं वाङ्मात्रेण प्रदा - ऽधुना युक्तिं दर्शयितुकाम आहएएहिं दोहिं ठाणेहिं, ववहारो ण विञ्जति। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए||५|| (एएहिं इत्यादि) एतयोरनन्तरोक्तयोर्द्वयोः स्थानयोः,तद्यथा- शास्तारः क्षयं यास्यन्तीति शाश्वता वा भविष्यन्तीति / यदि वा सर्वे शास्तारस्तदर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति / यदि या सर्व प्राणिनो ह्यनीदृशाः विसदृशाः सदृशा वा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदस्तित्वे युक्तेरभावान्न विद्यते / तथाहि- यत्तावदुक्तं, सर्वे शास्तारः क्षयं यास्यन्त्येव इति / एतद-युक्तम् / क्षयनिबन्धनस्य कर्मणो भावात् सिद्धाना क्षयाभावो न, भवस्थके वल्यपेक्षयेदमभिधीयते / तदप्यनुपपन्नम् / यतोऽनानन्तानां केवलिनां सद्भावात् प्रवाहापेक्षया तदभावाभावः / यदप्युक्तम्- अपूर्वाया भावे सिद्धिगमनसद्भावेन च व्ययसद्-भावाद्भव्यशून्यं जगत् स्यात्, इत्येतदपि सिद्धान्तपरमार्थावदिनो वचनम् / यतो भव्यराशे राधान्ते भविष्यत्कालस्य वाऽऽनन्त्यमुक्तम्, तचैवमुपपद्यते- यदि क्षयो न भवति, सति च तस्मिन्नानन्त्यं न स्यात्, नापि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याद् भव्यानां तत्सामग्रय-भावाद् योग्यदलिकप्रतिमावत्तदनुपपत्तिरिति / तथा नाऽपि शाश्वता एव, भवस्थकेवलिनां शास्तृणां सिद्धिगमनसभावात्, प्रवाहापेक्षया शाश्वतत्वमेव। अतः कथञ्चित् शाश्वताः कथञ्चिदशाश्वता इति। तथा सर्वेऽपि प्राणिनो विचित्रकर्मसभावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितत्वादनीदृशा विसदृशाः, तथोपयोगासंख्येयप्रदेशत्वामूर्तत्वादिभिर्धर्मः कथञ्चित्सदृशा इति / तथोल्लसितसद्वीर्यतया के चिदिभन्नग्रन्थयोऽपरे च तथाविधपरिणामाभावाद् ग्रन्थिकसत्त्वा एव भवन्तीत्येवं व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्धः / तदेवमेतयोरेव द्वयोः स्थानयोरुक्तनीत्या नानाऽऽचार विजानीयादिति स्थितम् / अपि च आगमेऽनन्ताऽनन्तास्वप्युत्सपण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिध्यतीत्ययमर्थः प्रतिपाद्यते। यदा चैवंभूतं तदाऽऽनन्त्य, तत्कथं तेषां क्षयः ? युक्तिरप्यत्र संबन्धिशब्दावेतौ मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसार-स्याऽप्यभावः स्यादतोऽभिधीयतेनाऽनयोर्व्यवहारो युज्यत इति / अधुना चारित्राचारमङ्गीकृत्याहजे केइ खुद्दगा पाणा, अदुवा संति महालया। सरिसं तेहिं ति वेरंति, असरिसं ती य णो वदे ||6|| (जे केइ इत्यादि) ये केचन क्षुद्रकाः सत्त्वाः प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रियाः। अथवा महालया महा-कायाः सन्ति विद्यन्ते, तेषां क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां, महानालयः शरीरं येषां ते महालयाः हस्त्यादयः तेषां च, व्यापादने सदृशं वैरमिति वजं कर्म, विरोधलक्षणं वा वैरं, सदृशं समानं तुल्यप्रदेशत्वात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत्। तथा विसदृशमसदृशं तद् व्यापत्ती वैरं कर्मबन्धो वा इन्द्रियविज्ञानकायानां विसदृशत्वात् सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरमित्येवमपि नो वदेत् / यदिह वध्यापेक्ष एव कर्मबन्धः स्यात्ततः तत्तद्वशात् कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्यते, न च तद्वशादेव बधः, अपि त्वध्यवसायवशादपि / ततश्च तीव्राऽध्यवसायिनोऽल्पकायसत्त्व-व्यापादनेऽपि महद्वैरम्, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति। एतदेव सूत्रेण दर्शयतिएएहिं दोहिं ठाणेहिं, ववहारो ण विजइ। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए।।७।। (एएहि इत्यादि) आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयो स्थानयोरल्पकायमहाकायसत्त्वव्यापादनापादितकर्मबन्धसदृशत्वासदृशत्वयोर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते / तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं चैकमेव कर्मबन्धस्य कारणम्, अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्व-मल्पवीर्यत्वं चेत्येतदपि। तदेवं वध्यवधकयोर्विशेषात् कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारो न विद्यते इति / तथा तयोरेव स्थानयोः प्रवृत्तस्यानाचारं जानीयादिति / तथाहि- यजीव-साम्यात्कर्मबन्धसदृशत्वमुच्यते। तदयुक्तम् / यतो नहि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वत-त्वेन व्यापादयितुमशक्य-त्वात्, अपि त्विन्द्रियादिव्यापत्त्या / तथा चोक्तम्-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छवासनिःश्वासमथान्यदायुः / प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोगीकरणं तु हिंसा / / 1 / / इत्यादि / अपि च- भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः / तथाहिवैद्यस्याऽऽगमसव्य-पेक्षस्य क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति, तथापि न वैरानुषङ्गो भवेद्,दोषाभावात् / अपरस्य तु सर्पबुद्ध्या रज्जुमपि नतो भावदोषात् कर्मबन्धः, तद्रहितस्य तु न बन्ध इति। उक्तं चाऽऽगमे-"उच्चालियम्मियाए'' इत्यादि। तन्दुलमत्स्याख्यानकं तु सुप्रसिद्धमेव / तदेवंविधवध्यवधकभावाऽपेक्षया स्यात् सदृशत्वं, स्यादसदृशत्वमिति, अन्यथाऽनाचार इति /