________________ अणायार 312 - अभिधानराजेन्द्रः - भाग 1 अणायार जानबुडा इदं चाऽनाचरितमित्याह- (संनिहि त्ति) संनिधीयतेऽनेना- ऽऽत्मा दुर्गताविति संनिधिः। घृतगुडादीनां संचयक्रिया 6, गृह्यमत्रं गृहस्थभाजनं च 10, तथा राजपिण्डो नृपाहारः 11, किमिच्छतीत्येवं यो दीयते, स किमिच्छकः / राजपिण्डो- ऽन्यो वा सामान्येन 12, तथा संबाधनमस्थिमांसत्वग्रोम-सुखतया चतुर्विधमर्दनम् 13, दन्तप्रधावनं चाऽङ्गुल्यादिना क्षालनम् 14, तथा संप्रश्नः सावधो गृहस्थविषयः, राढाऽर्थं कीदृशो वाऽहमित्यादिरूपः 15, देहप्रलोकनं चादर्शादौ 16, अनाचरितम् / दोषाश्च सन्निधिप्रभृतिषु परिग्रहप्राणातिपाताऽऽदयः स्वधियैव वाच्या इति सूत्रार्थः / / 3 / / अट्ठावए य नालीए, छत्तस्स य धारण द्वाए। तेगिच्छं पाहणा पाए, समारंभं च जोइणो // 4 // अष्टापदं द्यूतम्, अर्थपदं वा, गृहस्थमधिकृत्य निमित्तादिविषयम् 17, अनाचरितम् / तथा नालिका चेति द्यूतविशेषलक्षणा, यत्र माऽभूत् कलयाऽन्यथापाशकपातनमिति नालिकया पात्यन्त इति / इयं चानाचरिता अष्टापदेन सामान्यतो द्यूतग्रहणे सत्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थ भेदत उपादानम्, अर्थपदमेवोक्ताऽर्थ तदित्यन्ये अभिदधते / अस्मिन् पक्षे सकलद्यूतोपलक्षणाऽर्थं नालिकाग्रहणमष्टापदद्यूतविशेषपक्षे चोभयोरिति 18, तथा छत्रस्य च लोक प्रसिद्धस्य धारणमात्मानं परं प्रति वाऽनयेत्यागाढग्लानाद्यालम्बनं मुक्त्वाऽनाचरितम् / प्राकृतशैल्या चाऽत्राऽनुस्वारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथा श्रुतिप्रामाण्यादिति 16, तथा (तेगिच्छंति) चिकित्साया भावश्चकित्स्य व्याधिप्रतिक्रियारूपम् 20, तथोपानही पादयोरना-चरिते।पादयोरिति साभिप्रायकम् / न त्वापत्कल्पपरिहाराऽर्थमुप-ग्रहधारणेन 21, तथा समारम्भश्च समारम्भणं च ज्योतिषो- ऽग्नेः 22, तदनाचरितम् / दोषा अष्टापदादीनां क्षुण्णा एवेति सूत्रार्थः / / 4 / / सिञ्जायर पिंडंच, आसंदी पलिअंकए। गिहतरनिसिज्जाय, गायस्सुव्वट्टणाणि य॥५॥ किञ्च- शय्यातरपिण्डोऽप्यनाचरितः / शय्या वसतिस्तया तरति संसारमिति शय्यातरः साधुवसतिदाता, तत्पिण्डः 23. तथा आसंदकपर्यौ अनाचरितौ / एतौ च लोकप्रसिद्धावेव 24, तथा गृहाऽन्तरनिषद्याऽनाचरिता / गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं, तत्रोपवेशनं, चशब्दात्पाटकादिपरिग्रहः 25, तथा गात्रस्य कायस्योद्वर्तनानि चाऽनाचरितानि / उद्वर्तनानि पङ्काऽपनयनलक्षणानि / चशब्दादन्यसंस्कारपरिग्रहः 26 / इति सूत्राऽर्थः / / 5 / / गिहिणो वेआवडिअं,जाय आजीववत्तिया। तत्तानिवुडभोइत्तं, आउरस्सरणाणिय॥६॥ तथा (गिहिणो त्ति) गृहिणो गृहस्थस्य वैयावृत्त्यं व्यावृत्तस्य भावो वैयावृत्त्यं, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः 27, एतदनाचरित-मिति। तथा चाऽऽजीववृत्तिता जातिकुलगणकर्मशिल्पा-नामाजीवनमाजीवन्, तेन वृत्तिः, तद्भाव आजीववृत्तिता। जात्या-द्याजीवनेनात्मपालनेत्यर्थः 28, इयं चाऽनाचारता / तथा तप्तानिवृतभोजित्वंतप्तं च तदनिर्वृतं च अत्रिदण्डोद्धृतं चेति विग्रहः / उदकमिति विशेषणमन्यथाऽनुपपत्त्या गम्यते / तद्भोजित्व मिश्रसचित्तोदक-भोजित्वमित्यर्थः 26, इदं चाऽनाचरितम् / तथाऽऽतुरस्मरणानि च क्षुधाद्यातुराणां पूर्वो पभुक्तस्मरणानि च अनाचरितानि / आतुरशरणानि वा दोषाऽऽतुराश्रयदानानि 30 / इति सूत्रार्थः / / 6 / / मूलए सिंगबेरे य, उच्छुखंडे अनिव्वुडे / कंदे मूले य सचित्ते, फले बीए य आमए // 7 // किञ्च (मूलए त्ति) मूलको लोकप्रतीतः 31, शृङ्गबेरं चा-5ऽर्द्रकम् 32, तथेक्षुखण्डं च लोकप्रतीतम् 33, अनिर्वृत्तग्रहणं सर्वत्राऽभिसंबध्यते। अनिवृत्तमपरिणतमनाचरितमिति, इक्षुखण्ड चाऽपरिणतं द्विपर्वाऽन्तं यद्वर्त्तते / तथा कन्दो वज्र-कन्दादिः 34, मूलं च सट्टामूलाऽऽदि सचित्तमनाचरितम् 35, तथा फलं पुष्यादि 36, बीजं च तिलादि 37, आमकं सचित्तमनाचरितमिति सूत्रार्थः // 7 // सोवचले सिंधवे लोणे, रोमालोणे य आमए। सामुद्दे पंसुखारे य, कालालोणे य आमए // 8|| किञ्च (सोवचले त्ति) सौवर्चलम् 38, सैन्धवम् 36, लवणं च साँभरलवणम् 40, रुमालवणं च (खानिलवणम्) 41, आमकमिति सचित्तमनाचरितम्। सामुद्र लवणमेव 42, पांसुक्षारश्चोषरलवणम् 43, कृष्णलवणं च 44, सैन्धवलवणं पर्वतैकदेशजम्, आमकमनाचरितमिति सूत्रार्थः ||8|| धूवणे त्ति वमणे य, बत्थीकम्म विरेयणे। अंजणे दंतवण्णे य, गायाभंग विभूसणे ||6|| किञ्च(धूवणे त्ति) धूपनमित्यात्मवस्त्रादेरनाचरितम् / प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते 45, वमनं मदनफलादिना 46, बस्तिकर्म पुटकेनाऽधिष्ठाने स्नेहदानम् 47, विरेचन दन्त्यादिना 48, तथाऽञ्जनं रसाञ्जनादिना 46, दन्तकाष्ठं च प्रतीतम् 50, तथा गात्राऽभ्यङ्गस्तैलादिना 51, विभूषणं गात्राणामेवेति 52 सूत्राऽर्थः / / 6 / / क्रियासूत्रमाहसव्वमेयमणाइन्नं, निग्गंथाण महेसिणं / संजमम्मि अजुत्ताणं, लहुभूयविहारिणं // 10 // (सव्वमेयं ति) सर्वमेतदौद्देशिकादि यदनन्तरमुक्तं तदनाचरितम्। केषामित्याह-निर्ग्रन्थानां महर्षीणां साधूनामित्याह। त एव विशेष्यन्तेसंयमे चशब्दात्तपसि युक्तानामभियुक्ताना, लघुभूत-विहारिणां लघुभूतो वायुः, ततश्च वायुभूतोऽप्रतिबद्धतया विहारो येषां ते लघुभूतविहारिणस्तेषाम्। निगमनक्रियापदमेतदिति सूत्राऽर्थः / / 10 / / किमित्यनाचरितं ? यतस्त एवंभूता भवन्तीत्याह - पंचासव परिणाया, तिगुत्ता छसु संजया। पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो॥११॥ (पंचासव ति) पञ्चाश्रवा हिंसादयः, परिज्ञाता द्विविधया परिज्ञयाज्ञपरिज्ञथा, प्रत्याख्यानपरिज्ञया च / परि समन्ताद् ज्ञाता यैस्ते पञ्चाश्रवपरिज्ञाताः।आहिताऽग्नयादेराकृतिगणत्वात्, न निष्ठायाः पूर्वनिपात इति समासोयुक्तएवापरिज्ञात-पञ्चाश्रवाइतिवाायतएव चैवंभूताअत एव त्रिगुप्ता मनोवाकाय-गुप्तिभिः / षट्संयताः षट्सु जीवनिकायेषु पृथिव्यादिषु