SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ अणाययण 311 - अभिधानराजेन्द्रः - भाग 1 अणायार सुगमा, नवरं, उत्तरगुणाः "पिंडस्स जा विसोही' इत्यादि, | तत्प्रतिसेविनोये। जत्थ साधम्मिया बहवे, भिन्नचित्ता अणारिया। लिंगवेसपडिच्छन्ना, अणाययणं तं वियाणाहि॥११०३।। सुगमा, नवरं, लिङ्गवेषमात्रेण प्रतिच्छन्ना बाह्यतः, आभ्यन्तरतः पुनर्मूलगुणसेविन उत्तरगुणसेविनश्च, ते यत्र तदनायतनमिति / उक्तं लोकोत्तरं भावानायतनं तत्प्रतिपादनायोक्तमनायतन- स्वरूपम्। ओ०। अणाययणे चरंतस्स, संसग्गीए अभिक्खणं। होज्ज वयाणं पीला, सामन्नम्मिय संसओ॥१०॥ अनायतने अस्थाने वेश्यासामन्तादौ, चरतो गच्छतः, संसर्गण सम्बन्धेन, अभीक्ष्णं पुनः पुनः / किमित्याह - भवेद् व्रतानां प्राणातिपातविरत्यादीनां पीडा, तदा क्षिप्तचेतसो भावविराधना, श्रामण्ये च श्रमणभावे चद्रव्यतो रजोहरणादिधारणरूपे भूयो भावव्रतप्रधानहेतौ संशयः, कदाचिदुन्निष्क्रामत्येव इत्यर्थः / तथा च वृद्धव्याख्या"वेसादिगयभावस्स, मेहुणं पीडिजइ, अणुवओगेणं एसणाकरणे हिंसा, पडुप्पायणे अन्नपुच्छणअवलवणाऽसच्चवयणं, अणणुण्णायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववयपीडा / दव्वसामन्ने पुण संसओ उण्णिक्खमणेण त्ति'। सूत्रार्थः / दश०५ अ०१ उ०। अणाययणपरिहार-पुं०(अनायतनपरिहार) आयतनं पार्श्व स्थादिकुतीर्थिवेश्याविट्खड्गादिकुस्थानवर्जने, दर्शका अणाययणसेवण-न०(अनायतनसेवन) पावस्थाद्यायतन-भजने, आ०३अ०। अणायर-पुं०(अनादर) तिरस्कारे, को०। अनुत्साहाऽऽत्मिके सामायिकव्रततिचारभेदे, स च प्रतिनियतवेलायां सामायिकस्याऽकरणं, यथाकथंचिद्वा करणाऽनन्तरमेव पारणं च / यदाहुः"काऊण तक्खणं चिय, पारेइ करेइ वा जहिच्छाए / अणवहिअसामाइअअणायराओ न तंसुद्ध" // 1 // धर्म०५ अधि०। प्रव०॥ अणायरंत-त्रि०(अनाचरत्) विवर्जयति, "पावमणायरंते" पापमागमनिषिद्धं कर्म, अनाचरन् विवर्जयन्। पंचा०११ विव०। अणायरणजोग्ग-त्रि०(अनाचरणयोग्य) आसेवनाऽनर्हे, "सिक्खावेउ अणायरणजोग्गो''। पञ्चा०१० विवा अणायरणया-स्त्री०(अनाचरणता) गौणमोहनीयकर्मणि, सम्मका अणायरिय-पुं०(अनार्य) आराद् याताः सर्वहयधर्मेभ्य इत्यार्याः, तद्विपर्ययादनार्याः / क्रूरकर्मसु, आचा० 1 श्रु० 4 अ० 2 उ०। शकयवनादिदेशोद्भवेषु, सूत्र०२ श्रु०१ अ०॥ अणायस-त्रि०(अनायस) अलोहमये, नि०चू० 130 / / अणाया-पुं०(अनात्मन्) न आत्मा अनात्मा / घटादिपदार्थे, 'एगे अणाया' प्रदेशाऽर्थतयाऽसंख्येयाऽनन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यापेक्षया एक एव, सन्तानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोगलक्षणैकस्वभावयुक्तत्वात् कथञ्चि-भिन्नस्वरूपाणामपि धर्माऽस्तिकायादीनामनात्मनामेकत्व-मवसेयमिति / स०१ सम०। परस्मिश्च "अणायाए अवक्कमई"। भ०१श०४ उ० अणायाण- न०(अनादान) अकारणे, "अणायाणमेयं अभिग्गहियसिञ्जासणियस्स"।कल्पा अणायार-पुं०(अनाचार) आचरणमाचारः, आधाकर्मादिपरिहरणपरिष्ठापनरूपोऽनाचारोऽनाचारः। आधाकर्मादिग्रहणे, आतु साध्वाचारस्य परिभोगतो ध्वंसे, व्य०१ उ०। आव०। धo (अनाचारव्याख्याऽऽधाकर्माऽऽश्रित्य 'अइक्कम' शब्दे अत्रैव भागे 2 पृष्ठे कृता) आचरणीयः श्रावकाणामाचारः, न आचारो-5नाचारः / अनाचरणीये "अणायारे अणिच्छियदे"। ध०२ अधिक। शास्त्रविहितस्य व्यवहारस्याऽभावे, ग०२ अधि०। अथ साधूनां यद्यदनाचरितं तत् तत् समासेन व्यासेन च प्रदर्शयामः। तत्र दशवैकालिके द्वितीयाध्ययनेसंजमे सुट्टिअप्पाणं, विप्पमुक्काण ताइणं। तेसिमेयमणाइण्णं, निग्गंथाण महेसिणं // 1 // इह संहिताऽऽदिक्रमः क्षुण्णः / भावार्थस्त्वयम्- संयमे द्रुमपुष्पिकाव्यावर्णितस्वरूपे शोभनेन प्रकारेणाऽऽगमनीत्या स्थित आत्मा येषां ते सुस्थितात्मानः, तेषाम्।तएव विशेष्यन्ते -विविधमनेकैः प्रकारैः प्रकर्षण भावसारेण मुक्ताः परित्यक्ता बाह्याऽभ्यन्तरेण ग्रन्थेनेति विप्रमुक्ताः, तेषाम् / त एव विशेष्यन्ते-त्रायन्ते आत्मानं परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः, स्वतस्तीर्णत्वादुभयं स्थविरा इति / तेषा मिदं वक्ष्यमाण-लक्षणमनाचरितमकल्पम् / केषामित्याह-निर्ग्रन्थानांसाधूनाम-भिधानमेतत्। महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः / अथवा महान्तमेषितुं शीलं येषां ते महेषिणस्तेषाम् / इह च पूर्वपूर्वभाव एवोत्तरोत्तरभावो नियतो हेतुहेतुमद्भावेन वेदितव्यः। यत एव संयमे सुस्थितात्मानः,अत एव विप्रमुक्ताः / संयमसुस्थिता-ऽऽत्मनिबन्धनत्वाद्विप्रमुक्ते। एवं शेषेष्वपि भावनीयम् / अन्ये तु पश्चानुपूर्व्या हेतुहेतुमद्भावमित्थं वर्णयन्ति- यत एव महर्षयः अत एव निर्ग्रन्थाः। एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थः। साम्प्रतं यदनाचरितं तदाहउद्देसियं कीयगडं, नियागमभिहडाणि य। राइभत्ते सिणाणे य, गंधमल्ले य वीयणे / / 2 / / (उदेसियं ति) उद्देशनं साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः, तत्र भवमौद्देशिकम् 1, क्रयणं क्रीतं, भावे निष्ठाप्रत्ययः / साध्वादिनिमित्तमिति गम्यते / तेन कृतं निर्वर्तितं क्रीतकृतम् 2, नियागमित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं, तत् तु अनामन्त्रितस्य 3, (अभिहडाणि य त्ति) स्वग्रामादेः साधु निमित्तमभिमुखमानीतमभ्याहृतम्, बहुवचनं स्वग्राम परग्रामनिशीथादिभेदख्यापनार्थम् 4, तथा रात्रिभक्तरात्रि- भोजनं दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गलक्षणम् 5, स्नानं च देशसर्वभेदभिन्नं देशस्नानमधिष्ठानशौचातिरेकेणाऽक्षिपक्ष्मप्रक्षालनमपि / सर्वस्नानं तु प्रतीतम् 6, तथा गन्धं माल्यं च, गन्धग्रहणात् कोष्ठपुटादि परिग्रहः, माल्यग्रहणाच ग्रथितवेष्टितादेर्माल्यस्य 7, वीजनं व्यजनं तालवृन्तादिना घर्म एव, इदमनाचरितम् 8 / दोषाश्वौद्देशिकादिष्वारम्भप्रवर्तनादयः स्वधियाऽवगन्तव्या इति सूत्रार्थः // 2 // संनिही गिहिमत्ते य, रायपिंडे किमिच्छए। संवाहणं दंतपहावणं य, संपुच्छणे देहपलोयणा य॥३॥
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy