________________ अणहीयपरमत्थ 305 - अभिधानराजेन्द्रः - भाग 1 अणाइय परमार्था आगमरहस्यानि यैस्तेऽनधीतपरमार्थाः / अगीतार्थे, "जे अणहीयपरमत्थे गोयमा ! संजए भवे''ग०१ अधि०। अणाइ-त्रि०(अनादि) न विद्यते आदिः प्राथम्यमस्येत्यनादिः / उत्त०१ अ० अप्राथम्ये, हा० 30 अष्ट०। पं०सं० आदिविकले, उत्त० 1 अ०। द्रव्या०। आ०म०। नाऽस्याऽऽदिरस्त्यनादिः। संसारे, सूत्र०२ श्रु०२ अ० आदिरहिते, स्था० 3 ठा०१ उ०। अणाइजणाम(ण)-न०(अनादेयनामन्) नामकर्मभेदे,कर्म० 1 कर्म०। प्रव० श्रा०। यदुदयवशादुपपन्नमपि ब्रुवाणो नोपादेय-वचनो भवति, नाऽप्युपक्रियमाणोऽपि जनः, तस्याऽभ्युत्थानादि समाचरति। पं०सं०३ द्वा० अणाइ(ए)अवयणपञ्चायाय-त्रि०(अनादेयवचनप्रत्या-जात) अनादेये वचनप्रत्याजाते येषां ते तथा / अनुपादेयवचनजन्मसु, भ०७ श०६ उ०॥ अणाइणिहण-त्रि०(अनादिनिधन) आदिः प्रथमं निधनं पर्यन्तः, ततश्च ते आदिनिधने, न विद्यते आदिनिधने यस्य स अनादिनिधनः / दर्श०। सम्म०। अनाद्यपर्यवसिते, अनुत्पन्नशाश्वते च। आव० 4 अ०। अणाइण्ण-त्रि०(अनाचीर्ण) अनासेविते, महापुरुषैरनाचीर्णम् (नाऽऽचरणीयम्)। बृ० 1 उ०। तदेवाशङ्कय परः प्राह- यदि यद्यत्प्राचीनगुरुभिराचीर्ण तत्पाश्चात्यैरप्याचरितव्यं, तर्हि तीर्थकरैः प्राकारत्रयछत्रत्रयप्रभृतिकाप्राभृतिका तेषामेवाऽर्थाय सुरैर्विर-चिता यथा समुपजीविता, तद् वयमपि अस्मन्निमित्तकृतं किं नोपजीवामः ? सूरिराहकामं खलु अणुगुरुणो, धम्मा तह विहुन सव्वसाहम्मा। गुरुणो जं तु अइसए, पाहुडियाई समुपजीवे / / काममनुमतं खल्वस्माकं यदनुगुरवो धर्माः,तथापि न सर्वथा साधाचिन्त्यन्ते, किन्तु देशसाधादेव। तथाहि- गुरवः तीर्थकराः, यत्तु यत् पुनरतिशयान् प्राभृतिकादीन्, कोऽर्थः ? प्राभृतिका सुरेन्द्रादिकृता समवसरणरचना, आदिशब्दा-दवस्थितनखरोमाऽधोमुखकण्टकाऽऽदिसुरकृताऽतिशय-परिग्रहः, तान् समुपजीवति, स तीर्थकरो जीतकल्प इति कृत्वा न तत्राऽनुधर्मता चिन्तनीया, यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते, सा चेयमनाचीर्णेति दृश्यते। सगडबहसमभोमे, अवि अविसेसेण विरहियतरं से। तह वि खलु अणाइन्नं, एसऽणुधम्मो पवयणस्स। यदा स भगवान् श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रव्राजनाथ सिन्धुसौवीरदेशाऽवतंसं वीतभयं नगरं प्रस्थितः, तदा किलाऽपान्तराले बहवः साधवः क्षुधाऽऽस्तृिषाऽर्दिताः संज्ञाबाधिताश्च बभूवुः, यत्र च भगवानावासितस्तत्र तिल- भृतानि शकटानि, पानीयपूर्णश्च हृदः, समभौमं च गर्ता-बिलादिवर्जितं स्थण्डिलमभवत्। अपि च - विशेषेण तत् तिलोदकस्थण्डिलजातं विरहिततरम्, अतिशयेनाऽऽगन्तुकैश्च जीवैर्वर्जितमित्यर्थः / तथापि खलु भगवताऽनाचीर्ण, नाऽनुज्ञातं च, एषोऽनुधर्मः प्रवचस्य तीर्थस्य, सर्वैरपि वचनमध्यमध्यासीनैः शस्त्रोपहतपरिहारलक्षण एष चधर्मोऽनुगन्तव्य इति भावः। अथैतदेव विवृणोति - वकंतजोणि थंडिल-अतसा दिन्ना ठिई अवि छुहाई। तह वि न गेण्हंसु जिणो, मा हु पसंगो असत्थहए / यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितानि आसन, तेषु च तिला व्युक्रान्तयो निका अशस्त्रोपहता अप्यायुःसंक्षयेणाऽचित्तीभूताः। ते च यद्यस्थण्डिले स्थिता भवेयुः, ततो न कल्पेरन्नित्यत आह- स्थण्डिले स्थिताः। एवंविधा अपि त्रसैः संसक्ता भविष्यन्तीत्याह- अत्रसाः, तद्भवाऽऽगन्तुकत्रसविरहिताः, तिलशकटस्वामिभिश्च गृहस्थैर्दत्ताः / एतेन चाऽदत्तादानदोषोऽपि तेषु नाऽस्तीत्युक्तं भवति / अपि च- ते साधवः क्षुधापीडिता आयुषः स्थितिक्षयमकार्षुः तथापि जिनो वर्द्धमानस्वामी नाऽग्रहीत्, मा भूद् अशस्त्रहते प्रसङ्गः। तीर्थकरेणाऽपि गृहीतमिति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रोपहतमग्रहीषुरितिभावः। युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम्। यत उक्तम् - "प्रमाणानि प्रमाणस्थैः, रक्षणीयानि यत्नतः। विषीदन्ति प्रमाणानि, प्रमाणस्थैर्विसंस्थुलैः" ||1|| एमेव य निजीवे, दहम्मि तसवजिए दए दिन्ने। समभोमे अ अवि ठिती, जिमिताऽऽसन्नान याऽणुन्ना / / एवमेव च हृदे निर्जीवे यथाऽऽयुष्कक्षयादिचित्तीभूते अचित्तपृथिव्यां च स्थिते त्रसवर्जिते च उदके पानीये हृद- स्वामिना च दत्ते तृषार्दितानां स्थितिक्षयकारणेऽपि भगवान् नाऽनुजानीते स्म, मा भूत् प्रसंग इति, तथा स्वामी तृतीयपौरुष्यां जिमितमात्रैः साधुभिः सार्द्धमेकामटवीं प्रपन्नः सन् अतिसंज्ञाया आबाधा, यद्वा(आसन्न त्ति) भावासन्नता साधूनां समजनि / तत्र समभौमं गर्तगोष्पदबिलादिवर्जितं यथा स्थितिक्षयं व्युत्क्रान्तयोनिकपृथिवीकं त्रसप्राणविरहितं स्थण्डिलं वर्तते, अपरं च शस्त्रोपहतं स्थण्डिलं नाऽस्ति न प्राप्यते, अपिचतेसाधवः संज्ञाबाधिताः स्थितिक्षयं कुर्वन्ति, तथापि भगवान् नाऽनुज्ञां करोति, यथाऽत्र व्युत्सृजतेति, मा भूदशस्त्रहते प्रसङ्गः, इत्येषोऽनुधर्मः प्रवचनस्येति सर्वत्र योज्यम् / बृ०१ उ०। नि०चूला (फलविषयाऽऽचीर्णताऽनाचीर्णता च 'पलम्ब' शब्दे वक्ष्यते) अणाइबन्ध-पुं०(अनादिबन्ध) यस्त्वनादिकालात् सन्तान-भावेन प्रवृत्तो, न कदाचिद्व्यवच्छिन्नः, सोऽनादिबन्धः / कर्मबन्धभेदे, कर्म० 5 कर्म अणाइभव-पुं०(अनादिभव) निष्प्राथम्यसंसारे, पंचा०३ विव० / अणाइभवदव्वलिंग-न०(अनादिभवद्रव्यलिङ्ग) अनादिभवे निष्प्राथम्यसंसारे यानि द्रव्यलिङ्गानि भावविकलत्वेनाऽप्रधानप्रव्रजितादिनेपथ्यचरणलक्षणानि तानि तथा / संसारे परतीर्थिकप्रव्रजितेषु, 'एतो उ विभागओ अणाइ- भवदव्वलिंगओ चेव'। पंचा० 3 विव०॥ अणाइय-त्रि०(अज्ञातिक) अविद्यमानस्वजने, भ०१श०१ उ०। *अणातीत-त्रि०ा अणमणकं पापमतिशयेन इतं गतम् अणातीतम्। पापं प्राप्ते,भ०१श०१ उ०। *अनादिक-त्रि०ा अविद्यमानादिके,भ० 1 श०१ उ० स्था०॥ नाऽस्याऽऽदिः प्रथमोत्पत्तिर्विद्यते इत्यनादिकः / चतुर्दश- रज्वात्मके लोके,धर्माऽधर्मादिके वा द्रव्ये, सूत्र०२ श्रु०५० *ऋणातीत-त्रि०ा ऋणमतीतम्, ऋणजन्यदुःस्थतानिमित्त- तया संसारे, भ०१श०१३०