________________ अणसण 303- अभिधानराजेन्द्रः-भाग 1 अणसण यद्वा-मरणं कालोऽवसरो यस्य तन्मरणकालम् ।चः समुचये। अश्यते भुज्यत इत्यशनम्, अशेषाहाराऽभिधानमेतत्। उक्तं हि-"सव्वो विय आहारो, असणं सव्वो विवुचइ पाणं / सव्वो विखाइमं चिय, सव्यो विय साइमं होइ" ||1|| ततश्चाऽविद्यमानं देशतः सर्वतो वाऽशनमस्मिन्नित्यनशनं, द्विविधं द्विः प्रकारं भवेत, तत्र (इत्तरिय त्ति) इत्यरकं सहाऽवकासया घटिकाद्वयाधुत्तर-कालं भोजनाभिलाषरूपया वर्तत इति सावकाशम्, निष्क्रान्त-माकाङ्क्षातो, निराकासम्, तज्जन्मनि भोजनाशंसाभावात्, तुशब्दस्यभिन्नक्रमत्वात्। द्वितीयं पुनर्मरणकालम्। पाठा-ऽन्तरतश्च निरवकाझं द्वितीयम्। जो सो इत्तरियतवो, सो समासेण छव्विहो। सेढितवो पयरतवो, घणो य तह होइ वग्गे य // 10 // तत्तो य वग्गवग्गो, पंचम छट्टओ पइन्नतवो। मणइच्छियचित्तत्थो, नायव्वो होइइत्तरिओ // 11 // यथोद्देशं निर्देश इति न्यायतः इत्यरकानशनस्य भेदानाह-यत्तदित्वरकं | तपः इत्वरकानशनरूपमनन्तरमुक्तं तत्समासेन संक्षेपेण षड्विधं, विस्तरेण तु बहुतरभेदमितिभावः। षड्विधत्वमेवाह-(सेढितवो इत्यादि) अत्र च श्रेणिः पङ्क्तिः , तदुपलक्षितं तपः श्रेणितपस्तचतुर्थादिक्रमेण क्रियमाणमिह षण्मासान्तं परिगृह्यते, तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं तपः प्रतरतपः, इह चाऽव्यामोहाथ चतुर्थषष्ठऽष्टमदशमाख्य-पदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते / सा च चतुर्मिगुणिता षोडशपदात्मकः प्रतरो भवति / अयं च आयामतो विस्तरतश्च तुल्य इति। अस्य स्थापनोपाय उच्यतेएकाद्याद्या व्यवस्थाप्याः, पङ्क्तयोऽत्र यथाक्रमम्। एकादींश्च निवेश्यान्ते, क्रमात् पङ्क्तिं प्रपूरयेत्।।१।। अस्याऽर्थः- एकः आदिर्येषां ते एकादयः एककद्विकत्रिक-चतुष्कास्ते आधायासुता एकाद्याद्याः, व्यवस्थाप्यान्यसनीयाः, पङ्क्तयः श्रेणयो, यथाक्रम क्रमानतिक्रमेण, कोऽर्थः ? प्रथमा एकाद्या एककादारभ्य संस्थाप्यते, द्वितीया द्विकाद्या द्विका-दारभ्य, तृतीया त्रिकाद्या, त्रिकादारभ्य, चतुर्थी चतुष्काद्या चतुष्कादारभ्य / आह- एवं सति प्रथमपङ्क्तिरेव परिपूर्णा भवति, द्वितीयाद्यास्तु न पूर्यन्त एव / तत्कथं पूरणीयाः ? उच्यते-एकादींश्च निवेश्य व्यवस्थाप्य, अन्त इत्यग्रे, क्रमादिति क्रम-माश्रित्य, पङ्क्तिमपूर्यमाणां श्रेणी, पूरयेत् परिपूर्णा कुर्यात् / तत्र च द्वितीयपङ्क्तौ द्विकत्रिक-चतुष्कानामग्रे एककः, तृतीयपङ्क्तौ त्रिकचतुष्कयोः पर्यन्ते एकको द्विकश्च, चतुर्थपङ्क्तौ चतुष्काऽवसाने एकद्वित्रिकाःस्थाप्यन्ते। स्थापना चेयम् चतुर्थ षष्ठ० अष्टमादशम० ततश्चतुष्षष्टिश्चतुष्षष्ट्ये व गुणिता 64 4 64 = 4066 जातानि षण्णवत्यधिकानिचत्वारि सहस्राणि, एतदुपलक्षितं तपो वर्गतपः, ततश्च वर्गतपसाऽनन्तरं वर्ग 2 इति वर्ग 2 तपः, तुः समुच्चये / पञ्चमं पञ्चसंख्यापूरणम्, अत्र वर्ग एव यदा वर्गेण गुण्यते तदा व वर्गो भवति, तथाच चत्वारि सहस्राणि षण्णवत्यधिकानि तावतैव गुणितानि जातकको टिः, सप्तषष्टिलक्षाः, सप्तसप्तति-सहस्राणि, द्वे शते षोडशाधिके / अङ्कतोऽपि, 4066 x 4066 - 1,67,77,216 / एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते / एवं पदचतुष्टयमाश्रित्य श्रेण्यादितपो दर्शितम्। एतदनुसारेण पञ्चादिपदेष्यप्येतत्परिभावना कार्या / षष्ठकं प्रकीर्णकतपो यत् श्रेण्यादिनियतरचनादिरहितं स्वशक्त्यपेक्षं यथा कथंचिद् विधीयते, तच्च नमस्कारसहितादि पूर्वपुरुषचरितं यवमध्यवज प्रतिमादि च / इत्थं भेदानभिधाय उपसंहारमाह-(मणइच्छियचित्तत्थोत्ति) मनसश्चित्तस्य ईप्सितं इष्टचित्रोऽनेक प्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादि यस्मात् तन्मनईप्सितचित्तार्थं ज्ञातव्यं भवतीत्यरकं प्रक्रमादनशना- ऽऽख्यं तपः / उत्त०३ अ० (कियत्कालिकेनाऽनशनेन कियती निर्जरा भवतीति 'अण्णइलाय' शब्दे वक्ष्यते) संप्रति मरणकालमनशनं वक्तुमाहजा सा अणसणा मरणे, दुविहा सा वियाहिया। सवियारमवीयारा, कायचेटुं पई भवे // 12 // (जा सा अणसणाइ त्ति) प्राकृतत्वादत्र स्त्रीत्वम्, यदनशनं मरणे मरणाऽवसरे द्विविधं, तद्विशेषेणाऽऽख्यातं कथितं व्याख्यातं, तीर्थकृदादिभिरिति गम्यते / द्वैविध्यमेवाह- सह विचारेण चेष्टात्मकेन वर्तते यत्, तत् सविचारं, तद्विपरीतमविचारम् / विचारश्च कायवाड्मनोभेदात् त्रिविधमिति। तद्विशेषपरिज्ञानार्थमाह-कायचेष्टाम्, उद्वर्तनपरिवर्तनादिकं कायप्रविचारं प्रतीतिमाश्रित्य, भवेत् स्यात्। तत्र सविचारं भक्त-प्रत्याख्यानमिङ्गिनीमरणं च। तथाहि- भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो मरणायोद्यतो विधिना संलेखनां विधाय ततस्त्रिविधं चतुर्विधं चाऽऽहारं प्रत्याचष्टे, सच समास्तृतमृदुसंस्तारकं समुत्सृज्य शरीराधुपकरणम-मत्वः स्वयमेवोद्ग्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा सत्यां शक्तौ स्वयमुद्वर्तते, परिवर्तते च, शक्तिविकलतायां चाऽपरैरपि किंचित् कारयति। यत उक्तम्-वियडणमब्भुट्ठाणं, उचियं संलेहणं चकाऊणं। पञ्चक्खति आहार, तिविहं च चउव्विहं वा वि||१|| उव्वत्तइ परियत्तइ,सयमण्णेणावि कारए किंचि / जत्थ समत्थो नवरं, समाहिजणयं अपडिबद्धो // 2 // इङिनीमरणमप्युक्तन्यायतः प्रतिपद्य शद्धस्थण्डिलस्थानामेकाक्येव कृतचतुर्विधाऽऽहारप्रत्याख्यान-स्तत्स्थण्डिलस्थानच्छायात उष्णमुष्णावस्थायां स्वयं संक्रामति / तथा चाह-इंगियभरणविहाणं, आपव्वजंतु वियडणं दाउं। संलेहणंच काउं,जहासमाही महाकालं / / 1 / / पचक्खति आहारं, चउव्यिहं नियमओ गुरुसगासे। इंगियदेसम्मितहा, चिट्ठपि हु इंगियं कुणइ / / 2 / / उव्यत्तइ परियत्तइ, काइयमाईसु होइ उ विलासो / किचं पि अप्पणचिय, हुंजइ नियमेण धीबलिओ / / 3 / / अविचारं तु पादपोपगमनं, तत्र हि स-व्याघाताऽव्याघातभेदतो विभेदेऽपि पादपवन्निश्चेष्टतयैव स्थीयते / तथा च तद्विधिः- अभिवंदिऊण देवे,जहाविहिं से सए य गुरुमाइ / पचक्खाइत्तु तओ, तयं तिए सव्यसमाहारं ||1| सब्भावम्मि ठियप्पा, सम्म सिद्धंतभणियमग्गेणं / गिरिकंदरं तु गंतु, पायवगमणं अह करेति // सव्वत्थाऽपडिबद्धो, दंडो य पमायठाण प्रक्रमाद्द्घन इति धनतपः, चः पूरणे, तथेति समुचये, भवतीति क्रिया प्रतितपोभेदं योजनीया / अत्र च षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या गुणितो घनो भवति, आगतं चतुःषष्टि 64, स्थापना तु पूर्विकैव, नवरं, बाहुल्यतोऽपि पदचतुष्टयात्मकत्वं विशेष एतदुपलक्षितंतपोधनतपउच्यते।चः समुच्चये। तथा भवति वर्गश्चतीहाऽपि प्रक्रमाद् वर्ग इति वर्गतपः, तत्र च घन एव घनेन गुणितो वर्गो भवति,