________________ अणवद्रप्प 300- अभिधानराजेन्द्रः - भाग 1 अणवठ्ठप्प क्रियते तथाविधाऽपराधकारित्वात् महाव्रतेषु लिङ्गे वा नाऽव-स्थाप्य इत्यनवस्थाप्यः / स चतुर्धा- लिङ्गतः, क्षेत्रतः, कालतः, तपोविशेषतश्चेति। लिङ्गं द्विधा- द्रव्ये च भावे च / तत्र द्रव्यलिङ्गं रजोहरणादि, भावलिङ्गं महाव्रतादि / अत्र चतुर्भङ्गी- द्रव्य- लिङ्गेन भावलिङ्गेन चाऽनवस्थाप्य इत्येको भङ्गः 1, द्रव्य-लिङ्गेनाऽनवस्थाप्यो, न भावलिङ्गेनेति द्वितीयः 2, भाव-लिङ्गेनाऽनवस्थाप्यो, न द्रव्यलिनेनेति तृतीयः३, उभा-भ्यामप्यनवस्थाप्य इति चतुर्थः 4 / इह द्रव्यलिङ्गेन भाव-लिङ्गेन चाऽनवस्थाप्यःप्रथमभङ्गस्थः प्रव्राजनाऽनहीं भणितः। लिङ्गाऽनवस्थाप्यादिचातुर्विध्यमेव वितन्वन्नाहअप्पडिविरतोसन्नो, न भावलिंगारिहोऽणवठ्ठप्पो। जो जत्थ जेण दूसइ, पडिसिद्धो तत्थ सो खित्तो। अप्रतिविरतः साधर्मिकान्यधार्मिकस्तैन्यात् प्रदुष्टचित्त- त्वेनाऽनिवृत्तः स्वपक्षपरपक्षप्रहरणोद्यतश्च निरपेक्षानुपशान्तवैरो यः स द्रव्यभावलिङ्गाभ्यामनवस्थाप्योऽनवस्थाप्यप्रथमभङ्गवर्ती क्रियते / हस्ताऽऽलम्बदायी अर्थाऽऽदानकरो वाऽवसन्नादिकश्च तत्तदोषाऽनिवृत्तो न भावलिङ्गार्हः / अयं भावः - स द्रव्यलिङ्गी भवतिन भावलिङ्गमर्हति, भावलिङ्गमपेक्षानवस्थाप्यतृतीयभङ्ग वर्ती भवतीत्यर्थः / द्वितीयचतुर्थभनौ पुनर्न संभवतः, क्षेत्रतोऽनवस्थाप्यो यो यत्र क्षेत्रे येन कर्मणा दूष्यते, स तदोषकरणाऽनिवृत्तोऽपि क्षेत्रे प्रतिषिद्धो महाव्रतेषु स्थापने निराकृतो यथार्थादानकारी तत्रैव क्षेत्रे न महाव्रतेषु स्थाप्यते, यतः पूर्वाऽभ्यासात् तं लोको निमित्तं पृच्छेत्, स च तं निमितज्ञानजमृद्धिगौरवं सोढुमक्षमः कदाचित् कथयेत्, ततो- ऽन्यत्र नीत्वोपस्थाप्य उत्तमार्थप्रतिपन्नस्य पुनस्तत्राऽपि स्व-स्थानेऽपि स्थितस्य महाव्रतारोपः कार्य एव / उक्तौ लिङ्ग-क्षेत्राऽनवस्थाप्यौ / जीत जत्तियमित्तं कालं,तवसा उ जहन्नएण छम्मासा। संवच्छरमुक्कोस, आसायइ जो जिणाईणं / / 61|| यो यावन्तं कालं दोषात् नोपरमते तावन्तं कालमनवस्थाप्यः क्रियते। तपसा त्वनवस्थाप्यो द्विधा- आशातनाऽनवस्थाप्यः, प्रतिसेवनाऽनवस्थाप्यश्च। तत्र जिनादीनां तीर्थकरसश्रुता-ऽऽचार्यमहर्द्धिकगणधराणामाशातनां यः कुर्यात् / यथा-तीर्थकरैः सर्वोपायकुशलैरपि गृहवासत्यागादिकाऽतिकर्कशा देशना कृता, यदि च गृहवासो न श्रेयान्, ततः किमिति स्वयं गृहवासे वसन्ति स्म ? भोगांश्च भुक्तवन्त इत्येवं कृ तोऽधिक्षेपः। सङ्घ च दृष्ट्वा ऽवज्ञया वदेत्-हुहुंदृष्टा मयाऽरण्येऽपि सङ्घाः शृगालश्वानवृक-चित्रकादीनामिति / श्रुतं चैवमधिक्षिपति यथा"कायाववाय तिचिय, पुणो वि तिचियपमायपया। मुक्खस्स देसणाए, जोइसजोणीहिं किं कर्ज // 1 // " आचार्यं च जात्यादिभिरधिक्षि-पति। महार्द्धिकाश्च गणभृतो गौतमादयः, ये वा यस्मिन् युगे प्रधानमूताः, तान् ऋद्धिरसा गौरवप्रसक्ताः कथका इव लोकावर्जनोद्यता इत्यादिवाक्यैराधिक्षिपति / स आशातना-कारित्वादाशातनतपोऽनवस्थाप्यः। स जघन्येन षण्मासान, उत्कर्षतः संवत्सरं यावत् तपः कुर्वन् कर्तव्यः, तावता च तपसा क्षपिताऽऽशातनाजनितकर्मत्वादू_ महाव्रतेषु स्थाप्यते, प्रतिसेवनाऽनवस्थाप्यश्चोत्तरगाथायां वक्ष्यते। सा चेयम्वासं बारसवासा, पडिसेवी कारणाउ सव्वो वि। थोवं थोवतरं वा, वहिज्ज मुचिज वा सव्वं ||2|| प्रतिसेवी प्रतिसेवनाऽनवस्थाप्यः साधर्मिकाऽन्यधार्मिक-स्तेनाभ्यां हस्ततालादिभिश्च भवति, स च जघन्यतोवर्षम्, उत्कृष्टतोद्वादशवर्षाणि, तदनन्तरं व्रतेषु स्थाप्यते। स चा-ऽनवस्थाप्यः संहननादिगुणयुक्त एव क्रियते, अन्यस्य तुमूलमेव दीयते। अथ कीदृशगुणयुक्तस्याऽनवस्थाप्यं दीयत इत्याहसंहणणविरियआगम-सुत्तत्थविहीइ जो समग्गोय। तवसी निम्गहजुत्तो, पक्यणसारे य गहियत्थो / / 1 / / तिलतुसमतिभागमित्तं, विजस्स असुमो न विज्जई भावो / निजूहरणारिहो सो, सेसे निज़हणा नत्थि ||2| एयगुणसंपउत्तो, पावइ अणवठ्ठमुत्तमगुणोहो। एइयगुणविप्पहुणे, तारिसगम्मी भवे मूलं // 3 // " (तपसी) तपश्चरणवान् (निग्गहजुत्तो) जितेन्द्रियः (निजूहणा-रिहो) गच्छात् पृथक् करणार्हः अपवादतस्त्वनन्यसाध्यकुल गणसङ्घकार्यकारी, बहुजनसाध्यं च कार्य शृङ्गवादितमुच्यते, तत्साधकश्वायमित्यतः कारणात्सर्वोऽपि द्विप्रकारोऽपि आशातनेनावस्थाप्यते / प्रतिसेवनाऽनवस्थाप्यश्च गुरुमुखात् सङ्कादेशात् स्तोकं स्तोकतरं वा, मासद्वयं मासैकमात्रं वा अनवस्थाप्यतपो वहेत् / सङ्घो वा सार्थापष्टम्भादिके नै वायमनवस्थाप्यशोध्यमतीचारमलं क्षालयिष्यतीति सर्व मुञ्चेत्, अनवस्थाप्यतपो न कारयेदित्यर्थः / जीता बृक्षण यस्त्वनवस्थाप्यतपः प्रतिपद्यते तद्विधिमाहआसायणा जहण्णे, छम्मासुकोस बारस उमासा। वासं वारसमासे, पडिसेवओ कारणे मणिओ।। इत्तिरियं निक्खेवं, काउं वन्नं गणं गमित्ताणं। दव्वाइ सुहे वियडण, निरुवस्सग्गह उवस्सग्गो।। अप्पचय निन्मयया,आणाभंगो य जंतणा सगणे। परगणे न होति एए, आणा थिरया भयं चेव / / गाथाषट्कं, यथा पाराञ्चिके व्याख्यातं तथैवाऽत्र मन्तव्यम् , नवरं दव्वाइसुहे वियडण त्ति द्रव्यक्षेत्रकालभायेषु शुभेषु प्रशस्तेषु, द्रव्यतो वटवृक्षादौ क्षीरवृक्षे, क्षेत्रत इक्षुक्षेत्रादौ, कालतः पूर्वाह, भावतः प्रशस्तेषु चन्द्रतारादिबलेषु, गुरूणां विकटनामालोचनां ददाति / तत आचार्या भणन्ति - ''एय साहुस्स अणवठ्ठप्पतवस्स निरुवसग्गनिमित्तं ठामि काउसगं ति। अन्नत्थूससिएणं' इत्यादि वोसिरामीति यावत्। ततश्चतुविंशतिसूत्रमुच्चार्याऽऽचार्या भणन्ति- एष तपः प्रतिपद्यते, ततो न भवद्भिः सार्धमालापादिकं विधास्यति, स्वयमप्येतेन सार्धमालापादिकं परिहरध्वमिति। बृ०४ उ० वंदइ नइ वंदिज्जइ, परिहारतवं सुदुचरं चरइ। संवासो से कप्पइ, नालवणाईणि सेसाणि ||6|| अनवस्थाप्यतपश्चरणकरणकालं यावत् स्वगणं गीतार्थे निक्षिप्याऽऽचार्य उपाध्यायो वा प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु, तत्र द्रव्यतो वटादौ क्षीरवृक्षे , क्षेत्रतः इक्षुशालिक्षेत्रकु सुमित वनखण्ड प्रदक्षिणाऽऽवर्तजलपद्मसरश्चैत्यगृहादिषु,कालत:पूर्वाह्ने, भावतः प्रशस्तेषु चन्द्रताराबलेषु, संध्यागतादिनक्षत्रवर्जमालोचनां प्रयुङ्क्ते स्वातिचार प्रकाशयति / आलोचनाऽनन्तरं जघन्येन मासमूत्कर्षतः षण्मासादिकमनवस्थाप्यतपःप्रपद्यगाने आलोचनादायकः कायोत्सर्ग करोति / एयस्स आयरियस्स अणवठ्ठप्पतवस्स निरुवसग्गनिमित्तं ठामि