________________ अणवट्ठप्प 299 - अभिधानराजेन्द्रः- भाग 1 अणवठ्ठप्प भावलिङ्गस्य वा तत्र क्षेत्रे प्रदानम्, कारणं तु भक्तप्रत्याख्यानप्रतिपत्तिलक्षणे अन्यत्र वा तत्र वा अनुज्ञातमेव / एषा पुरातनी गाथा। अत एनां विवरीषुराहहत्थातालो मणिओ, तस्स उदो आइमे पदे मोत्तुं। अत्थायाणे लिंग,न दिति तत्थेव विसयम्मि। हत्थातालसूत्रक्रमप्रामाण्यात् तृतीयम्, अर्थात् तस्य द्वे आदिमे हस्तातालहस्तालम्बलक्षणे पदे मुक्त्वा यदर्थाऽऽदाना-ऽऽख्यं पदं,तत्र वर्तमानस्य तत्रैव विषये देशे लिङ्ग नददति। स च अर्थाऽऽदानकारी गृही लिङ्गी वा / तत्र - गिहिलिंगस्स उदोण्ण वि, आसन्ने न दिति भावलिंगं तु। दिजंति दोवि लिंगा, ओवत्थि य उत्तमट्ठस्स। यो गृहिलिङ्गी प्रव्रज्यार्थमभ्युत्तिष्ठति, तस्य द्वे अपि द्रव्यभाव-लिड़े तस्मिन् देशे न दीयेते। यः पुनरवसन्नस्तस्य द्रव्यलिङ्गं विद्यत एव, परं भावलिङ्ग तत्र तस्यैव ददति / यदा पुनरसावुत्तमार्थस्य प्रतिपत्त्यर्थमुपतिष्ठते, तदा तस्मिन्नपिदेशेद्वयोरपि गृहस्था-ऽवसन्नयोर्दै अपि लिङ्गे दीयेते।अथवेदं करणम् ओमासिवमाईहिव, सप्पिस्सति तेण तस्स तत्थेव। न य असहाओ मुच्चइ, पुट्ठो य भणिज्ज वीसरियं / / अवमाशिवराजद्विष्टादिषु वा समुपस्थितेषु गच्छस्य प्रति-सर्पिष्यति उपग्रहं करिष्यति, तेन कारणेन तत्रैव क्षेत्रे तस्य लिङ्ग प्रयच्छन्ति। तत्र चेयं यतना- (न य असहाओ इत्यादि) स तत्राऽऽरोपितमहाव्रतः सन्नसहाय एकाकी न मुच्यते, लोकेन च निमित्तं पृष्टो भणति- विस्मृतं मम सांप्रतं तन्निमित्तमिति। अथ साधर्मिकादिस्तैन्येषु प्रायश्चित्तमुपदर्शयतिसाहम्मिय अण्णधम्मिय तेणेसु उ तत्थ होति, इमा भयणा / चउलहुगा चउ गुरुगा, अणवट्ठप्पो य आएसा / / साधर्मिकस्तैन्याऽन्यधार्मिकस्तैन्ययोस्तावदियं भजना प्रायश्चित्तरचना भवति-आहारं स्तेनयतश्चतुर्लघु, सचित्तं स्तेनयतश्चतुर्गुरवः, आदेशेन वाअनवस्थाप्यम्। अहवा अणुवज्झाओ, एएसु पएसु पावती तिविहं। तेसुं चेव पएसुं, गणिआयरियाण णवमं तु // अथवा अनुपाध्यायो य उपाध्यायो न भवति, किंतु सामान्य-भिक्षुः। स एतेषु आहारोपधिसचित्तरूपेषु यथाक्रमं त्रिविधं लघुमासं चतुर्लघु चतुर्गुरु वक्ष्यमाणं प्रायश्चित्तं प्राप्नोति। तेष्वेव चाहारादिषु पदेषु गणिन उपाध्यायस्याऽऽचार्यस्य च नवममनवस्थाप्यं भवति / अत्र परः प्राहननु सूत्रे सामान्येनाऽनवस्थाप्य एव भणितो, नपुनर्लघुमासादिकं त्रिविधं प्रायश्चित्तं, तत्कथमिदमर्थेनाऽभिधीयते ? उच्यतेआर्हतानामेकान्तवादः क्वापि न भवति। तथा हितुल्लम्मि वि अवराहे, तुल्लमतुल्लं व दिज्जए दोण्हं। पारंचिके पिनवम,गणिस्स गुरुगो उ तं चेव॥ तुल्यः सदृशोऽपराधो द्वाभ्यामपि आचार्योपाध्यायाभ्यां सेवितः, तत्र द्वयोरपि तुल्यमतुल्यं वा प्रायश्चित्तं दीयते, तत्र तुल्यदानं प्रतीतमेव / अतुल्यदानं पुनरिदम् - पाराञ्चिके पाराञ्चिकाऽऽपत्तियोग्येऽप्यपराधपदे सेविते गणिन उपाध्यायस्य नवरमनव स्थाप्यमेव दीयते, नपाराञ्चिकम्, गुरोराचार्यस्य पुनस्तदेव पाराञ्चिकं दीयते, ततो यद्यपि सूत्रे सामान्येनानवस्थाप्यमुक्तं तथापि तत् पुरुषविशेषापेक्ष प्रतिपत्तव्यम्, यद्वा- अभीक्ष्णसेवानिष्पन्नम् / तथा चाऽऽहअहवा अमिक्खसेवी, अणुवरयं पावई गणी नवमं / पावंति मूलमेव उ, अमिक्खपडिसेविणो सेसा / / अथवा साधर्मिकस्तैन्यादेरभीक्ष्णसेवी पुनः पुनः प्रतिसेवा यः करोति, स ततः स्थानादनुपरमन् अनिवर्तमानोगणी उपाध्यायो नवमं प्राप्नोति / शेषास्तु ये उपाध्यायत्वमाचार्यत्वं वा न प्राप्ताः, ते अभीक्ष्णप्रतिसेविनोऽपि मूलमेव प्राप्नुवन्ति, नाऽनवस्थाप्यम्। अत्थादाणो ततिओ, अणवठ्ठो खेत्तओ समक्खाओ। गच्छे चेव वसंतो, निजूहन्जंति सेसाओ। अष्टाङ्गनिमित्तप्रयोगेणाऽर्थ द्रव्यमादत्ते इति अर्थाऽऽदाना-ऽऽख्यो यस्तृतीयोऽनवस्थाप्यः, स क्षेत्रतः समाख्यातः, तत्र क्षेत्रे नोपस्थाप्यत इत्यर्थः। शेषास्तु हस्तातालकारिप्रभृतयो गच्छ एव वसन्तो निर्गृह्यन्ते आलोचनादिभिः पदैर्बहिः क्रियन्ते इत्यर्थः। बृ०४ उ०। उक्कोसं बहुसो वा, पउट्ठचित्तो वा तेणियं कुणइ। पहरइ जो य सपक्खे, निरवेक्खो घोरपरिणामो॥ अभिसेओ सव्वेसु वि, बहुसो पारंचियाऽवराहेसु / अणवठ्ठप्पावत्तिसु, पसज्जमाणो अणेगासु॥ उत्कृष्ट वस्तुविषयं बहुशोवा पौनःपुन्येन प्रदुष्टचित्तो वा संक्लिष्टमनाः क्रोधलोभादिकलुषितमनसो यत् स्तैन्यं साधर्मिकस्तैन्यमन्यधार्मिकस्तैन्यं वा करोति / जीता एवंविधार्थोपादानकारी आचार्यः स्वस्य महाव्रतान्यारोपयितुमभ्यर्थयमानो तद्दोषकरणनिवृत्तोऽपितत्र क्षेत्रे नमहाव्रतेषु स्थाप्यते, तथा हस्तालम्बइव हस्तालम्बस्तंददानः, अशिवे पुररोधादौ तत्प्रशमनार्थमभिचारमन्त्रादीन् प्रयुञ्जान इत्यर्थः / तथा हस्तेन ताडनं हस्ततालस्तं ददानः यष्टिमुष्टिल-गुडादिमिरात्मनः परस्य च मरणभयनिरपेक्षः, स्वपक्षे, चशब्दात् परपक्षेच, घोरपरिणामो निर्दयो यः प्रहरति / एते त्रयोऽप्यनवस्थाप्याः क्रियन्ते / यदि वाऽऽचार्थादीन् कोऽपि हिनस्ति, ततस्तन्मारणेनाऽपि तान् क्षेत्। यदाह-"आयरियस्स विणासे, गच्छे अहवा विकुलगणे संघे। पंचिंदियवेरमणं, काउं नित्थारणं कुज्जा // 1 // एवं तु करितेणं, अव्वुच्छित्ती कया उ तित्थम्मि / जइ वि सरीराघाओ, तहवियआराहओसो उ॥२॥" यस्तु समर्थोऽप्यागाढेऽपि प्रयोजने न प्रगल्भते, स विराधकः / इहाऽभिषेक उपाध्यायः स येषु येष्वपराधेषुपाराञ्चिकमापद्यते, तेषु बहुशः पाराञ्चिकापराधेषु सर्वेष्वपि शुद्धिनिमित्तमनवस्थाप्यः क्रियते / यथा भिक्षोरनवस्थाप्यपाराञ्चिके ऽपि प्राप्तस्य मूलमेव चरमं प्रायश्चित्तं भवति, एवमुपाध्यायस्याप्यनवस्थाप्यमेव परमं, तथा अनवस्थाप्या-ऽऽपत्तिषु उपचारादनवस्थाप्याऽऽख्य प्रायश्चित्तापत्तिकारिणीष्वतिचारप्रतिसे वाष्वने कासु प्रसञ्जनं प्रसक्तिं कुर्वाणोऽनवस्थाप्यः क्रियते। स चाऽनवस्थाप्यः क्रियमाणः कस्मिन् कस्मिन् विषये क्रियते ? इत्याहकीरइ अणवट्ठप्पो, सो लिंगखित्तकालओ तवतो। लिंगेण दव्वभावो, मणिओ पव्वावणाऽणरिहो।