________________ अणवट्ठप्प 298 - अभिधानराजेन्द्रः - भाग 1 अणवठ्ठप्प गणस्य गच्छस्य गणिनो वा आचार्यस्य अत्यय आत्यन्तिको विनाशः प्राप्तः, तदा कालातिचारं वा कालातिक्रमेण, सद्यो वा तत्कालमेव, हस्ततालमिच्छन्ति, गीतार्था इति गम्यते। अथ हस्ताऽऽलम्बं व्याख्यानयतिअसिवे पुरोवरोधे, एमादी वइससेसु अभिभूता। संजायपचया खलु, अण्णेसु य एवमादीसु / / मरणभयेणऽभिभूते, ते णातुं देवतं वुवासंते। पडिमं काउं मज्झे, विंधति मंते परिजवंतो / अशिवेन लोको भूयान् मियते, परबलेन वा पुरं समन्तादुप-रुद्धं, तत्र बहिः कटकयौधेराभ्यन्तराणां कटकमदः क्रियते, अन्न-क्षयाद्वा क्षुधा मियते, आदिशब्दाद् गलगण्डादिभिर्वा रोगार्दितः प्रभूतो जनो मरणमश्नुते / एवमादिभिर्वशसैर्दुःखैरभिभूताः, ते पौरजनाः संजातप्रत्ययाः, योऽत्र पुरे आचार्यों बहुश्रुतो गुणयांस्तपस्वी स शक्ती वैशसमिदं निरोद्धं नाऽन्यः कश्चिदिति। (समिति) सम्यग्जातः प्रत्ययो येषां ते तथा, न केवलमत्रैव किन्तु अन्येष्यप्येवमादिषु संजातप्रत्ययाः, ते संभूय तमाचार्यमुपासतेशरणमुपगताः प्राञ्जलिपुष्टाः पादपतितास्तिष्ठन्ति / ततः स एवाऽऽचार्यस्तान् पौरजनान् मरणभयेनाभिभूतान् देवतामिवाऽऽत्मानं पर्युपासीनान् ज्ञात्वा तदनुकम्पापरीतचित्तः प्रतिमा कृत्वा, तत अभिचारिकमन्त्रान्परिजपन्तां प्रतिमांमध्यभागे विध्यति, ततो नष्टा सा कुलदेवता, प्रशमितः सर्वोऽप्युपद्रवः / एवं विधहस्तालम्बदायी यदा अभ्युत्तिष्ठति तदा तत्कालमेव नोपस्थाप्यते,किन्तु कियन्तमपिकालं गच्छ एव वसन्व्यामर्दनं कार्यते / अथाऽर्थाऽऽदानमाह - अणुकंपणा निमित्तं,जायण पडिसेहणा सउणि मे वा। वणिय पुच्छा य तहा, सारण उन्मावणविणासे / कस्याप्याचार्यस्य भागिनेयो व्रतं परित्यज्य मुत्कलापयति / तत्र आचार्यस्य अनुकम्पा- कथमयं द्रव्यमन्तरेण गृह-वासमध्यासिष्यते इत्येवंलक्षणा बभूव / स च निमित्तेऽतीव- कुशल इति तेनैवाऽऽवर्जितयोर्द्वयोर्वणिजोरन्तिके भागिनेयं रूपकयाचनाय प्रेषितवान्, स च तत्रैकेन वणिजा- किं मम शकुनिका रूपकान् हदते, एवमुक्त्वा निषिद्धः, द्वितीयेन तुरूपकनवलकानां दर्शना कृता। द्वितीये चवर्षे द्वाभ्यामपि वणिग्भ्यां पृच्छा कृता, तत आचार्येण सारणा क्रयाणकग्रहणविषया शिक्षा दत्ता, ततो येन रूपकानदत्ताः, तस्य सर्वस्वविनाशः समजनि, येन तु दत्ताः, तस्योद्भावनं महर्धिकतासंपादनं कृतवान् / एष नियुक्तिगाथाऽक्षरार्थः / बृ०४ उ०। भावार्थस्तु कथानकादवसेयः / तच्चेदम् - "वणिजावुज्जयिन्यां द्रौ, प्रायः पृष्ट्वा गुरुं सदा। पणायमानौ पण्यौघैः, परमामृद्धिमीयतुः / / 1 / / औज्झद् गुरूणां जामेयो, भोगार्थी व्रतमन्यदा। ततस्तैः कृपयोचे स, विनाऽर्थः किं करिष्यसि ?||2|| तथाहि वणिजौ तौ त्वं, भणाऽर्थ मे प्रयच्छतम्। गुर्वादशात् ततः सोऽपि, गत्वा तौ भणति स्म तत्॥३॥ अथैकः स्माऽऽह भोः ! कस्मादस्माकं द्रव्यसंचयः। शकुनी रूपकान् भद्र !, कुत्रापि हदतेऽत्र किम् ?||4|| अढौकयद् द्वितीयस्तु, तस्याग्रे द्रविणं बहु। ऊचे देव ! गृहाण त्वं, यथेच्छं सोऽपि चाग्रहीत्।।५।। द्वितीयेऽब्दे स तैर्द्रव्य-प्रदः पृच्छन्नभण्यत। क्रीणीहि तृणकाष्ठानि, स्थापयेश्च पुराद् बहिः॥६|| द्वितीयकस्तु तैरुक्तः क्रीत्वा स्नेहं गुर्ड कणान्। वस्त्रकासकाष्ठादीन, पुरमध्ये निधेहि भोः!||७|| वर्षारम्भे समस्तेषु, च्छादितेष्यथ वेश्मसु। दग्धं सर्वं पुरं जज्ञे, तृणकाष्ठमहर्घता ||6|| प्राज्यं तदाऽर्जयद्वित्तं, गुरुजामेयवित्तदः। दग्धं सर्व द्वितीयस्य, सोऽथाभ्येत्यावदद्गुरुम्॥६॥ किं न ज्ञातमिदं पूज्याः, गाढं प्लुष्टोऽहमैषमः। निमित्त्यूचे निमित्तं नः, शकुनी हदतेऽत्र किम् ?||10|| तथाऽन्यथाऽपि वा किंचित्, स्यात्कथंचन मे धनम्। ततो रुष्ट गुरुं ज्ञात्वाऽत्यर्थं क्षमयति स्म सः॥११|| जीता उजेणीओसण्णं, दो वणिया पुच्छियं ववहरंति। मोगामिलास तव्वय, मुंचंति ण रूवए सउणी // 1 // एगो व णउलदायण, बितिएणं जत्तिए तहिं एको। अण्णम्मि हायणम्मि य, गेण्हामो किंति पुच्छंति ?|2|| तणकट्ठनेहधण्णे, गिण्हह कप्पासदूसगुलमादी। अंतो बहिं च ठवणा, हऽग्गी सउणीण य निमित्तं // 3 // इति तिस्रोऽपि व्याख्याताऽर्थाः, नवरं, मित्रकेण वणिजा भागिनेय उच्यते- (जत्तिए तहिं एको त्ति) यावन्तो युष्मभ्यं रोचन्ते तावतो नवलकान् गृह्णीत, एवं द्वितीयेन वणिजा भणितम्, तत्र तेषां मध्ये एको नवलको गृहीतः / अन्यस्मिन् हायने वर्षे इत्यर्थः / दूष्यं वस्त्रमुच्यते, (सउणी न य निमित्तं ति) न च नैव मम शकुनिका निमित्तं हदते। एयारिसोय पुरिसो, अणवट्ठप्पो उसो सुदेसम्मि। नेत्तूण अण्णदेसं, चिट्ठ उवट्ठावणा तस्स। एतादृशोऽर्थो दानकारी यः पुरुषोऽभ्युत्तिष्ठते, सस्वदेशेऽनव-स्थाप्यो, न महाव्रतेषु स्थाप्यते, किंतु तमन्यदेशं नीत्वा तस्य च तत्र तिष्ठत उपस्थापना कर्तव्या। कुत इति चेद् ? उच्यते - पुव्वन्मासा मासेज किंचि गोरवसिणेहनयतो वा। न सहइ परीसह पिय, णाणं कंडुव्व कच्छुल्लो // तं नैमित्तिक लोकः पूर्वाभ्यासान्निमित्तं पृच्छेत, सोऽपि ऋद्धिगौरवतः स्नेहादा नयाद् वा किंचिल्लाभादिकं तत्र स्थितो भाषते / अपि च स ज्ञानविषयं परीषहं तत्र न सहते, सोढुं न शक्नोतीत्यर्थः / यथा कच्छू: पामा, तद्वान् पुरुषः, कण्डू खर्जितं विनाशितुं न शक्नोति, एवमेषोऽपि तत्र निमित्तकथनमन्तरेण न स्थातुं शक्त इति भावः। अथ पूर्वोक्तमप्यर्थ विशेषज्ञापनार्थं भूयोऽप्याहतइयस्स दोण्णि मोत्तुं, दव्वे मावे य सेस मयणा उ। पडिसिद्धलिगकरणं, करणा अण्णत्थ तत्थेव।। इह 'साधम्मियतेणियं करेमाणे' इत्यादिसूत्रक्रमप्रामाण्येन हत्थातालतस्तृतीय उच्यते / स च त्रिधा- हस्तातालो हस्ताऽऽलम्बोऽर्थाऽऽदानं चेति / तत्राऽऽद्ये द्वे पदे मुक्त्वा यच्छेषमा दानाऽऽख्यं तृतीयं पदं, तत्र द्रव्यतो भावतश्च लिङ्गप्रदाने भजना भवति / कथमित्याह-(पडिसिद्ध इत्यादि) उत्तरत्र कारणे इति अभिधास्यमानत्वादिह निष्कारणमिति मस्यते / ततो निष्कारणे प्रतिषिद्धमर्थाऽऽदानकारिणो लिङ्गकरणं द्रव्यलिङ्गस्य