________________ अणवठ्ठप्प 297 - अभिधानराजेन्द्रः - भाग 1 अणवठ्ठप्प बलवन्तस्ते, दारुणप्रकृ तयो वा, ततोऽन्यतीर्थिकानामपि स्थलीषु याच्यते, यदि न प्रयच्छन्ति, ततः स्वयमेव प्रकटं, प्रच्छन्नं वा गृह्णीयुः। एवं गृहस्थेष्वपि याचितमलभमानाः स्वयमपि गृह्णन्ति / असंस्तरणे उपधिरप्येवमेव स्तैन्यप्रयोगेण ग्रहीतव्यः। नाऊण य वोच्छेदं, पुव्वगए कालियाणुओगे य। गिहि अण्णतित्थियं वा, हरेज एतेहिं हेतूहिं॥ पूर्वगते कालिकानुयोगे वा व्यवच्छेदं ज्ञात्वा यो गृहस्थक्षुल्लकोऽन्यतीर्थिकक्षुल्लको वा ग्रहणधारणमेधावी, स याचितो यदा न लभ्यते, तदा स्वयमपि गृह्णीयात् / एतैरेव-मादिभिर्हे तुभिः कारणैर्गृहस्थमन्यतीर्थिकं वा हरेत् / गत-मन्यधार्मिकस्तैन्यम् / अथ 'हत्थादालं दलमाणे' इत्यादि- पदत्रयं विवरीषुराह - हत्थाताले हत्थालंबेऽत्थादाणे य बोधव्दो उ। एतेसिंणाणत्तं, वोच्छामी आणुपुवीए॥ हस्तातालो हस्तालम्बोऽर्थादानं चेति त्रिधा पाठोऽत्र बोद्धव्यः। एतेषा त्रयाणामपि नानात्वं वक्ष्यामि यथानुपूर्व्याऽहम्। तत्र हस्तातालं तावद् विवृणोतिउक्किण्णम्मि य गुरुगो, दंडो पडियम्मि होइ भयणा उ। एवं खु लोइयाणं, लोउत्तरियाण वोच्छामि।। इह हस्तेन, उपलक्षणत्वात्खड्गादिभिश्च यदा ताडनं, सहस्तातालः / स च द्विधा- लौकिको लोकोत्तरिकश्च / तत्र लौकिके हस्ताताले पुरुषवधायखड्गादावुत्कीर्णेगुरुको रूपकाणामशीतिसहस्रलक्षणो दण्डो भवति / पतिते तु प्रहारे यदि कथमपि न मृतस्तदा भजना, देशे देशे अपराऽपरदण्डलक्षणा भवति। अथ मृतस्तदेवाऽशीतिसहसंदण्डः / एवं खुरव-धारणे,लौकिकानां दण्डो भवति। लोकोत्तरिकानां तु दण्डमतः परं वक्ष्यामि। हत्थेण व पादेण व, अणवट्ठप्पो उ होति उग्गिण्णे। पडियम्मि होति भयणा, उद्दवणे होति चरिमपदं / / हस्तेन वा पादेन वा उपलक्षणत्वाद् यष्टिमुष्ट्यादिभिर्वा यः साधुः स्वपक्षस्य परपक्षस्य च प्रहारमुद्गिरति सोऽनवस्थाप्यो भवति, पतिते तु प्रहारे भजना, यदि न मृतस्ततोऽनवस्थाप्य एव / अथाऽपद्रावणे मृतस्तदा चरमपदं पाराञ्चिकं भवति। अत्रेदं द्वितीयपदम्आयरिय विणयगाहण, कारणजाते व बोधिकादीसु। करणं वा पडिमाए, तत्थ तु भेदोपसमणं वा // आचार्यः क्षुल्लकस्य विनयग्राहणं कुर्वन् हस्तातालमपि दद्यात्। कारणजाते वा गुरुगच्छ प्रभृतीनामात्यन्तिके विनाशे प्राप्ते, बोधिकस्तेनादिष्वपि हस्तातालं प्रयुञ्जीतापश्चार्द्धन हस्ताऽऽलम्बमाह(करणं वा इत्यादि) अशिवपुराऽवरोधादौ तत्प्रशमनाऽथ प्रतिमा पुत्तलिकां करोति, तत्र अभिचारिकमन्त्रं परिजपन् तत्रैव प्रतिमाया भेदं करोति, ततस्तस्योपद्रवस्य प्रशमनं भवति / एषा नियुक्तिगाथा / अत | एनां विवृणोतिविणयस्स उगाहणया, कण्णामोडणखड्डुगचवेडाहिं। सावेक्ख हत्थतालं, दलाति मम्माणि फेडतो।। इह विनयशब्द शिक्षायामपि वर्तते / यत उक्तम् - 'विनयः / शिक्षाप्रणत्यो रिति' / ततोऽयमर्थः - वियनस्य ग्रहणशिक्षायां आसेवनाशिक्षां वा कर्णामोटकेन खड्डुकाभिश्चपेटाभिर्वा सापेक्षो जीवनापेक्षां कुर्वन्, अत एव मर्माणि स्फेटयन्,येषु प्रदेशेष्वाहताः सन्तो नियन्ते, तानि परिहरन् आचार्यः क्षुल्लकस्य हस्तातालं ददाति / अत्र परः प्राह- ननुपरस्य परितापे क्रियमाणे अशातवेदनीयकर्मबन्धो भवति, तत्कथमसावनुज्ञायते ? उच्यतेकामं परपरितावो, असायहेतू जिणेहिं पण्णत्तो। आत-परहितकरो पुण, इच्छिज्जइ दुस्सले खलु उ॥ काममनुमतमस्माकं परपरितापो जिनैरशातहेतुः प्रज्ञप्तः, परं परपरितापो दुःशले माडवके शिक्षया दुहे दुर्विनीते शिष्ये खलु निश्चितमिष्यत एव / कुत इत्याह- (आतपरहिकरो त्ति) हेतौ प्रथमा, भावप्रधानश्च निर्देशः। ततोऽयमर्थः - आत्मनः परस्य च हित-करत्वात्, तत्रात्मनः शिष्यशिक्षां ग्राहयतः कर्मनिर्जरा लाभः / परस्य तु सम्यग्गृहीतशिक्षस्य यथावचरणकरणानुपालनादयो भूयांसो गुणाः। पुनःशब्दो विशेषणम्। स चैतद्विशिनष्टियो दुष्टाध्यवसायतया परपरितापः क्रियते, स एवाऽशातहेतुः प्रज्ञप्तः, यस्तु शुद्धा-ऽध्यवसायेन आत्मपरहितकरः क्रियते, सनैवाऽशातहेतुरिति / अमुमेवाऽर्थं दृष्टन्तेन द्रढयतिसिप्पं उणियट्ठा, घाते विसहंति लोइया गुरुणो। ण य मधुरणिच्छया ते, ण होंति ण्सेविहं उवमा। शिल्पानि रथकारकर्मप्रभृतीनि, नैपुण्यानि च लिपिगणितादिकलाकौशलानि, तदर्थं लौकिकाः शिक्षका गुरोराचार्यस्य घातान् परिसहन्ते, न चतथा ते, तदानीं दारुणा अपि मधुरनिश्चयाः, तैः सुन्दराः क्रियन्ते, तेनैवाऽपरिणामा न भवन्ति, किन्तु शिल्पादि- परिज्ञाने वृत्तिलाभजनपूजनीयतादिना परिणामस्तेषां सुन्दरो भवतीति भावः / एषैवोपमा इह प्रस्तुतार्थे मन्तव्या, यथा तेषां ते धाता हितास्तथा प्रस्तुतस्याऽपि दुर्विनीतस्य शिष्यस्येति भावः। अत्राऽयं बृहद्भाष्ये उक्तः सोपमेयोऽपरो दृष्टान्तः - अहवा वि रोगियस्सा, ओसह विजेहिं दिज्जए पुटिव। पच्छा तालेतुमवी, देहहियट्ठा पडिज्जइ से। इय नवरोगिणस्स वि, अणुकूलं ण तु सारणा पुदि। पच्छा पडिकूलेण वि, परलोगहियह कायव्वा।। (ओसह त्ति) विभक्तिलोपादोषधमितिमन्तव्यम्। अत एव साधुरेवंविधो भवेत् - संविग्गो मद्दविओ, अमुई अणुवत्तओ विसेसन्नू / उजुत्त अवहितंतो, इच्छियमत्थं लहइ साहू || संविग्रो मोक्षामिलाषी, मार्दविकः स्वभावकोमलः, अमोची गुरूणाममोचनशीलः, अनुवर्तकस्तेषामेव छन्दोऽनुवर्ती, विशेषज्ञो वस्त्ववस्तुविभागवेदी, उद्युक्तः स्वाध्यायादौ, अपहृताऽन्तो वैयावृत्त्यादौ, एवंविधः साधुरीप्सितमर्थमिह परत्र च लभते। अथ कारणजाते 'बोहिगाइमुत्ति' पदं व्याचष्टेबोहिकतेणभयादिसु, गणस्स गणिणो व अनए पत्ते। इच्छंति हत्थतालं,कालातिचरं च सखं वा।। बोधिक स्तेनभये, आदिशब्दात् श्वापदादिभयेषु वा यदि