SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ अणवटुप्प 296 - अभिधानराजेन्द्रः - भाग 1 अणवठ्ठप्प अपिचगिहवासे वि वरागा, धुवं क्खु एते अदिट्ठकल्लाणा। गलए णवरिण वलितो, एएसिं सत्थुणा चेव।। गृहवासेऽप्येते वराका धुवं निश्चितमेवादृष्टकल्याणाः, एतेषां च यां | तीर्थकृता दुश्चरितामाहारशुध्यादिचर्यामुपदिशता गलक एव नवरं न वलितः, शेषं तु सर्वमपि कृतमिति भावः / गतमाहारविषयं स्तैन्यम्। अथोपधिविषयमाहउवस्सए उवहि ठवेतुंगतभिक्खुम्मि गिण्हती लहुगा। गेण्हणकडणववहारपच्छकटुडहणणिव्विसए॥ उपाश्रये नवे, उपधिमुपकरणं, स्थापयित्वा कश्चिद्भिक्षुको बौद्धो भिक्षां गतस्तस्मिन् गते यदि तदीयमुपधिं गृह्णाति, तदा चतुर्लघवः / स भिक्षुकः समायातःस्वकीयमुपकरणंस्तेनितं मत्वातस्य संयतस्य ग्रहणं करोति, तदा चतुर्गुरवः / राजकुलाभिमुखमाकर्षणे षड् गुरवः / व्यवहारं कारयितुमारब्धे छेदः / पश्चात्कृते सतिमूलम् / उड्डहने-ऽनवस्थाप्यम्। निर्विषयाज्ञापने पाराञ्चिकम्। अथ सचित्तविषयं स्तैन्यमाहसचित्ते खुड्डादी, चउरो गुरुगा यदोस अण्णादी। गेण्हणकडणववहारपच्छकट्टड्डाहणणिव्विसए। सचित्ते स्तैन्ये चिन्त्यमाने भिक्षुकादेः सम्बन्धिनं क्षुल्लकम् , आदिशब्दादक्षुल्लकं वा यद्यपहरति, तदा चत्वारो गुरुकाः, आज्ञादयश्च दोषाः / ग्रहणकर्षणव्यवहारपश्चात् कृतोड्डाह-निर्विषयाज्ञापनादयश्च दोषाः प्राग्वत् मन्तव्याः। अथ तेष्वेव प्रायश्चित्तमाहगहणे गुरुगा छमास, कड्डणे छेओ होइ ववहारे। पच्छा कडम्मि मूलं, उड्डहणविरंगणे नवमं // 1 // उद्दावणनिव्विसए, एगमणेगे य दोस पारंची। अणवट्ठप्पा दोसु य, दोसु उपारंचिओ होइ॥२॥ गाथाद्वयं गताऽर्थम् - खुडं व खुड्डियं वा, णेति अवत्तं अपुच्छियं तेण्णं। वत्तम्मि णत्थि पुच्छा, खेत्तट्ठाणंच नाऊणं॥ क्षुल्लको वा क्षुल्लिका वा योऽव्यक्तः, स यस्य शाक्यादेः सम्बन्धी, तमपृष्ट्वा यदि तं क्षुल्लकं क्षुल्लिका वा नयति, ततः स्तेनः अन्यधार्मिकस्तैन्यकारी स मन्तव्यः, चतुर्गुरुकं च तस्य प्रायश्चित्तम् / यस्तु व्यक्तस्तत्र नास्ति पृच्छा / तामन्तरेणापि स प्रव्रजनीयः, किं सर्वथैवानेनेत्याशब्याह-क्षेत्रस्थानंच ज्ञात्वा। किमुक्तं भवति? यदि विवक्षितं क्षेत्रं शाक्यादिभावितं राजवल्लभतादिकं वा तेषां तत्र बलं, तदा पृच्छामन्तरेण व्यक्तोऽपि प्रव्राजयितुंन कल्पते, अन्यथा तु कल्पते इति / एवं तत्र लिङ्गप्रविष्टानांस्तैन्यमुक्तम्। अथ गृहस्थानांतदेवाऽऽहएमेव होति तेण्णं, तिविहं गारत्थियाण जं वुत्तं / गहणादिगा य दोसा, सविसेसतरा भवे तेसु॥ एवमेवागारस्थानामपि त्रिविधम् आहारादिभेदात् त्रिप्रकार, स्तैन्यं / भवति, यदनन्तरमेव परतीथिकानामुक्तम् तेषु च गृहस्थेषु आहारदिकं स्तनयता ग्रहणादयो दोषाः सविशेषतरा भवेयुः। तेहि राजकुले करादिक प्रयच्छन्ति, ततस्तबलेन समधिकतरान् ग्रहणाऽऽकर्षणादीन् कास्येयुः। - कथं पुनरमीषामाहारादिकं स्तेनयतीत्युच्यतेआहारं पिट्ठादी, तंतुण खुड्डादियं भणितपुव्वं / पिट्ठम्मि य कप्पट्टी, संछुभण पडिग्गहे कुसला // आहारे-पिष्टादिक बहिर्विरल्लितं दृष्ट्वा क्षुल्लकः स्तेनयति, उपधौ(तंतु त्ति) सूत्राष्टिकाम् , उपलक्षणत्वाद्वस्त्रादिकंवा, अपहरति। सचित्तेक्षुल्लकं वा स्तेनयति। एवं यदेव पूर्वं परतीर्थकानां भणितं, तदेवात्रापि मन्तव्यम्। कथंपुनः पिष्टां स्तेनयति-(पिट्ठामीत्यादि) काश्चित्क्षुल्लिका भिक्षामटन्त्यः किंचिद् गृहं प्रविष्टास्तत्र च बहिः पिष्ट विसारितमास्ते, तच्च दृष्ट्वा तासांमध्यादेका कल्पस्थिका पिष्टपिण्डिकां गृहीत्वा पतद्ग्रहे प्रक्षिप्तवती / सा चाविरतिकया दृष्टा / ततो भणितम्- एनां पिष्टपिण्डिकामत्रैव स्थापय, ततस्तया क्षुल्लिकया कुशल त्वेनाऽन्यस्याः संघटिकाया अन्तरे प्रक्षिप्ता। एवं सूत्राष्टिकामपि दक्षत्वेनाऽपहरेत्। अथ सचित्तविषयं विधिमाहनीएहिं अविदिन्नं, अप्पत्तवयं पुमं ण दिक्खित्ती। अपरिग्गहो उ कप्पति, विजढो जो सेसदोसेहिं / / निजकैर्मातृपितृप्रभृतिभिः स्वजनैरवितीर्णमथ तमप्राप्तवयस-मव्यक्तं पुमांसं न दीक्षयति / यदि पुनरपरिगृहीतोऽव्यक्तः स शेष दोषैलिजडव्याधितादिभिर्विमुक्तस्तर्हि प्रव्राजयितुं कल्प्यते। अपरग्गिहा उनारी, ण भवति तो सा ण कप्पति अदिण्णा। सा वि य हु काचि कप्पति, जह पउमा खुडमाता य॥ नारी स्त्री सा प्रायेणाऽपरिग्रहा न भवति, पितृपतिप्रभृतीना- मन्यतरेण परिगृहीता भवतीति भावः / ततो नाऽसावदत्ता सती कल्पते प्रव्राजयितुम् / साऽपि च काचिददत्ताऽपि कल्पते। यथा पद्मावतीदेवीकरकण्डु माता प्रवाजिता, यथा वा क्षुल्लक-कुमारमाता योगसंग्रहाऽभिहिता यशोभद्रा नाम्नी प्रव्राजिता। अथ द्वितीयपदमाहबिइयपयं आहारे, अद्धाणे हंसमादिणे उवही। उवउजिऊण पुट्विं, होहिंति जुगप्पहाण त्ति। द्वितीयपदमाहारादिषु त्रिष्वप्यभिधीयते / तत्राऽऽहारेऽ- ध्वानं प्रवेष्टुकामास्ततो वा उत्तीर्णा उपलक्षणत्वादशिवादौ वर्तमाना असंस्तरणे अदत्तमपि भक्तपानं गृह्णीयुः / आगाढे कारणे उपधिमपि हंसादेः सम्बन्धिना प्रयोगेणोत्पादयेत् / सचित्तविषयेऽपि भविष्यन्त्यमी युगप्रधाना इत्यादिकं दृढाऽऽलम्बनं पूर्व प्रथम-मेवोपयुज्य परिभाव्य गृहस्थक्षुल्लकान् अन्यतीर्थकक्षुल्लकान् वा हरेत। इदमेव भावयति - असिवं ओम विहं वा, पविसिउकामो ततो व उतिण्णा। नियलिंगिअण्णतित्थिग, जायइ अदिण्णे तु गेण्हंति॥ अशिवगृहीते विषये स्वयं वा साधवोऽशिवगृहीता भक्त पानलाभाभावान्न संस्तरेयुः। अवमं दुर्मिक्षं तत्र वा भक्तपानं न लभेरन् / विहमध्वानं वा प्रवेष्टु कामाः, ततो वा उत्तीर्णा न संस्तरेयुः। ततः स्वलिङ्गिनो या स्थलिकादे वद्रोणिः, तस्या याचन्ते / यदि ते न प्रयच्छन्ति, तदा बलादपि गृहन्ति / अथ
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy