________________ अणवठ्ठप्प २९५-अभिधानराजेन्द्रः - भाग 1 अणवठ्ठप्प शैक्षमपहरत आज्ञाभङ्गादयो दोषा भवन्ति, अनन्तसंसारिकत्वं च भगवतामाज्ञाभङ्गाद्भवति। बोधेश्च दुर्लभत्वं जायते, साधर्मिकस्तैन्यं च कुर्वाणः प्रमत्तो भवति, प्रमत्तस्य च प्रान्ते देवतया छलना भवति / यस्य च सबन्धी सोऽपहियते, तेन सममधिकरणं कलह उपजायते / एवं तावत्पुरुषविषयादयो दोषा उक्ताः / अथ स्त्रीविषयान् तानेवाऽतिदिशति - एमेव य इत्थीए, अभिघारेतिए तह वयंतीए। वत्तव्वत्ताए गम, जहेव पुरिसस्स नायव्वा / / एवमेव स्त्रिया अपि शैक्षकाया अभिधारन्त्याः , तथा (वयंतीए त्ति) ससहायायाः प्रव्रजितुं व्रजन्त्याः , व्यक्ताया अव्यक्तायाश्च गमः स एव ज्ञातव्यो यथापुरुषस्योक्तः। अथ प्रावचनिकपदं व्याचष्टे - एवं तु सो अवहिओ, जाहे जाओ सयं तु पावयणी। निक्कारणे य गहिओ, पवयति ताहे पुरिल्लाणं // एवमनन्तरोक्तैः प्रकारैः स शैक्षोऽपहृतःसन्यदा स्वयमेव प्रावचनिको जातः, अन्योवा निष्कारणेयः केनापि गृहीतः,सआत्मनो दिक्परिच्छेदं कृत्वा भूयोऽपि बोधिलाभाभावात् पूर्वेषामेवाचार्याणामन्तिके प्रव्रजति। अन्नस्स व असतीए, गुरुम्मि अब्मुज्जएगतरजुत्तो। धारेंति तमेव गणं, जाव हडो कारणज्जाते / / येन स शैक्षो निष्कारणमपहृतस्तस्यार्थे अपरः कोऽप्याचार्यः पदयोग्यो न विद्यते, ततोऽन्यस्याभावे, यद्वा- गुरावाचार्ये- ऽभ्युद्यतस्यैकतरेण युक्तं अभ्युद्यतमरणमभ्युद्यतविहारं वा प्रतिपन्न इत्यर्थः / ततो यदि कोऽपि शिष्यस्तेषां निष्पन्नो नाऽस्ति, तदा तमेव गणमसौधारयति, यावत्कोऽपि तत्र निष्पन्न इति। यश्च कारणजाते केनाप्याचार्येण हृतः, सोऽपि तमेव गणं धारयति। किं पुनस्तत्कारणमित्याहनाऊण य वोच्छेदं, पुव्वगते कालियाणुओगे थे। अज्जा कारणजाते, कप्पति सेहाऽवहारो उ॥ कोऽप्याचार्यों बहुश्रुतः, तस्य पूर्वगते किंचिद्वस्तु प्राभृतं वा, कालिकानुयोगेऽपि श्रुतस्कन्धोऽध्ययनं वा, विद्यते, तच्चाऽन्यस्य नास्ति, ततो यद्यन्यस्य न संक्राम्यते, तदा तद् व्यवच्छिद्येत / एवं पूर्वगते कालिकानुयोगेच व्यवच्छेदं ज्ञात्वातंचसंप्रस्थितं शैक्षं ग्रहणधारणसमर्थं विज्ञाय भक्तदानधर्मकथादिभिर्विपरि-णामझम्पनादीन्यपि कुर्वाणः शुद्धः। यद्वा- तस्याचार्यस्य नास्ति कोऽप्याचार्याणां प्रवर्तकस्ततस्तासामपि कारणजाते शैक्ष-मपहरेत, एवं कल्प्यते शैक्षापहारः कर्तुम्। तस्य च कारणेऽपहतस्य को विधिरित्याहकारणजाए अवहिअ,गण धारेंति तु अवहरंतस्सा जा एगो निप्फण्णो, पच्छा से अप्पणो इच्छा।। यः कारणजातेऽपहृतः स तदीये गणे धारयन् अपहरत एव विनेयो भवति / अथयेन कारणेनाऽपहृतस्तत्कारणं न पूरयति तदा पूर्वेषा-मेव भवति, नाऽपहरतः / स च कारणाऽपहृतस्तस्मिन् गणे तावदास्ते यावदेको गीतार्थो निष्पन्नः,पश्चात् तस्याऽऽत्मीया इच्छा- तत्र वा तिष्ठति, पूर्वेषां वा सकाशे गच्छति। यस्तु निष्कारणे अपहृतः, स एकस्मिन्निष्पन्ने नियमात् पूर्वेषामन्तिके गच्छति / स तस्या-ऽऽत्मीयेच्छेति भावः / गतं शैक्षद्वारम्। अथाऽऽहारविधिद्वारमाहठवणाघरम्मि लहुगो, मायी गुरुगो अणुग्गहे लहुगा। अप्पित्तियम्मिगुरुगा, वोच्छेद पसज्जणा सेसे॥ दानश्रद्धादिकुलं स्थापनागृहं भण्यते, तस्मिन् य आचार्य:असंदिष्टोऽननुज्ञातो वा प्रविशति, तस्य मासलघु / अथवा प्राघूर्णकग्लानाऽर्थमहमिहाऽऽयात इति तेषां श्राद्धानां पुरतो मायां करोति, ततो मायिनो मासगुरुकम्, एवमुक्ते यदि ते श्राद्धा अनुग्रहोऽयमिति मन्यन्ते, तदा चतुर्लघु / अथाप्रीतिकं कुर्वन्ति, ततश्चतुर्गुरवः, यच तद्र्व्यव्यवच्छेदादिशेषदोषाणां प्र-सज्जनाप्रसङ्गात् तन्निष्पन्नं प्रायश्चित्तम्। इदमेव व्याचष्टे - अज्ज अहं निद्दिट्ठो,पुट्ठोऽपुट्ठो वसाहई एवं। पाहुणगगिलाणवा, तं च पलोभेति तो बितियं / / कश्चिदाचार्यरसंदिष्टःस्थापनाकुलेषु प्रविश्य पृष्टोऽपृष्टो वा इदं भणतिअद्याऽहं गुरुभिः संदिष्टः प्रेषित इति, ततो मासलधु / यदि च पूर्व संदिष्टसंघाटकप्रविष्ट आसीत्, श्राद्धैश्चतस्याऽसंदिष्टस्याऽग्रे इदं भणितं भवेत् - संदिष्टसंघाटकस्य दत्तमिति / ततो यदि ब्रूयात्- प्राघूर्णकार्थ ग्लानार्थ या साम्प्रतमह- मागत इति, एवं तं श्राद्धजनं मायया यदि प्रलोभयति, ततो द्वितीयं मासगुरु / ते च श्राद्धा विपरिणमेयुः, विपरिणताश्चाऽऽचार्यादीनां प्रायोग्यं नदधुः, ततः शुद्धं, शुद्धेनाऽप्येतत् प्रायश्चित्तं भाव्यम्। आयरिगिलाण गुरुणा, लहुगा य हवंति खमणपाहुणए। गुरुगो य बालवुड्ढे, सेसे सव्वेसु मासलहु॥ आचार्यस्य ग्लानस्य च प्रायोग्यमददानेषु श्राद्धेषु चतुर्गुरवः। क्षपणकस्य प्राघूर्णकस्य च प्रायोग्यमददानेषु चतुर्लधयः / बालवृद्धानां प्रायोग्ये अलभ्यमाने गुरुमासः। शेषाणामेतद् व्यतिरिक्तानां सर्वेषामपि प्रायोग्ये अलभ्यमाने मासलघु / गतं साधर्मिकस्तैन्यम् / अथान्यधार्मिकस्तैन्यमाहपरघम्मिया विदुविहा, लिंगपविट्ठ तहा निहत्था य। तेसिं तेण्णं तिविहं, आहारे उपधि सविते // परधार्मिका अन्यधार्मिका इत्येकोऽर्थः। तेच द्विविधा-लिङ्गप्रविष्टाः, गृहस्थाश्च / लिङ्ग प्रविष्टाः शाक्यादयः, गृहस्थाः प्रतीताः, तेषामुभयेषामपि स्तैन्यं त्रिविधम् - आहारविषय-मुपधिविषयं सचित्तीविषयं चेति। तत्राऽऽहारविषयं तावदाहभिक्खूण संखडीए, विकरणरूवेण मुंजई लुद्धे / आमोगणमुद्धसण-पवयणहीला दुरप्पाओ। भिक्षवो बौद्धाः तेषां संखड्यां कश्चिल्लुब्धो विकरणरूपेण लिङ्ग विवेकेन भुङ्क्ते, तदीयं लिङ्गं कृत्वेति भावः / एवं भुजानं यदि कोऽप्याभोगयति उपलक्षयति, तदा चतुर्लधवः / एवमुपलक्ष्य यद्यसावुद्धर्षणं कोऽर्थः निर्भर्त्सनं करोति, ततश्चतुर्गुरुकाः। प्रवचनहीला वा ते कुर्युः - यथा दुरात्मानोऽमी भोजननिमित्तमेव प्रव्रजिता इति।