________________ अणणुओग 288- अभिधानराजेन्द्रः - भाग 1 अणणुओग काचिद् गृहवृत्त्याद्याश्रिता गुर्विणी, पदातिभायर्या सह एकस्यां रजन्यां प्रसूता। तस्या नकुलो जातः, इतरस्यास्तुपुत्रः, ततोऽस्य समीपे नकुलः सदैव तिष्ठति स्म / अन्यदा च पदातिभार्यया द्वारे कण्डयन्त्या मध्ये मञ्चिकायां स्थापितो बालकःसर्पण दष्टो मृतश्च / ततो मञ्चिकाया उत्तरं नकुलेन दृष्टो विषधरः खण्डशः कृत्वा मारितश्च, ततोद्वारे पदातिभार्यायाः समीपे गत्वा शोणितोपलिप्तवक्त्राद्य-वयवोऽसौ चाटूनि कर्तुमारब्धः, दृष्टश्च तया, ततो नूनं मदीयपुत्रं मारयित्वा भक्षितोऽनेनेति विचिन्त्य कोपावेशात् मुशलेन हत्वा मारितो नकुलः / गता च पुत्रसमीपे / दृष्टश्व पुत्रेण सह विनष्टः सर्पः, ज्ञातं च यथा सो निहतस्ततो हन्तेत्थं निरपराधोऽप्युपकार्यपि मया निकृष्टया हतो वराको नकुलः, इति विचिन्त्य द्विगुणतरं शोकमापन्ना / पूर्वमपराधिनं विज्ञाय नकुलं प्रत्यास्तस्या भावाननुयोग इति, यथावस्थितावगमे त्वनुयोगः / प्रस्तुतयोजना त्वनन्तरोक्तवदिति।। अथ कमलामेलोदाहरणम् - तत्र द्वारावत्यां नगर्यां बलदेवपुत्रो निषधः, तस्यापि सूनुः सागरचन्द्रः, सच रूपेणाऽतीवोत्कृष्टः, शम्बादीनां च कुमाराणां सर्वेषामप्यतिप्रियः, तस्यामेव च द्वारावत्यां नगर्यामन्यस्य राज्ञो दुहिता कमलानाम समस्ति स्म / सा चोग्रसेनतनयस्य नभः- सेनकुमारस्य दत्ता वृता च तिष्ठति स्म / अन्यदाच तत्र नारदः सागरचन्द्रस्य समीपं गतः / तेनाऽप्युत्थाय उपवेश्य प्रणम्य च पृष्टः- दृष्टं भगवन् ! आश्चर्यं किमपि क्वापि ? नारदेनोक्तम्- दृष्टं कमलामेलाभिधानराजपुत्रिकायाः, न खलु ममैव किन्तु भुवन-त्रयस्याऽप्याश्चर्यकारिरूपम्। सागरचन्द्रेणोक्तम्-किं दत्ता कस्यचित्सा? नारदेनोक्तम्- दत्ता,परं नाऽद्यापिपरिणीता। कथं पुनर्मम सा संपत्स्यते? इति सागरचन्द्रेणोक्ते, न जानाम्येतत् अहमित्यभिधाय गतो नारदः / सागरचन्द्रस्तुतदिनादारभ्य न शयानो नाऽप्यासीनः क्यापि रतिं लभते, तामेव कन्यकां फलका-दिष्वालिखन् / तन्नाममात्रजापं चाऽनवरतं कुर्वन्नास्ते स्म। नारदोऽपिकमलामेलाऽन्तिकं गतः। तयाऽपि तथैवाऽऽश्वर्यं किमपि दृष्टम् ? इति पृष्टः / कलहदर्शनप्रियतया स प्राहदृष्टमाश्चर्यद्वयं मया- सागरचन्द्रे सुरूपत्वं, नभःसेने तु कुरूपत्वम्। ततो झगित्येव सा विरक्ता नभःसेने, अनुरक्ता च सागरचन्द्रे / तत्प्राप्तिचिन्ताऽऽतुरा च समाश्वासिता नारदेन सा- वत्से ! स्थिरीभव संपत्स्यते अचिरादेव तवाऽयमित्युक्त्या गतः सागरचन्द्रसमीपे। इच्छति त्वां सेत्यभिधाय गतः। ततो विरहावस्थाव्यथिते प्रलपतिच सागरचन्द्रे, आर्तः सर्वोऽपि मात्रादिस्वजनवर्गः, खिद्यन्ते यादवाः, तदत्रान्तरे समायातः कथमपि सागरचन्द्रसमीपे शम्बकुमारः, दृष्टश्च तेनासौ तदवस्थः, ततः पृष्ठतस्तस्य स्थित्वा हस्त-द्वयेनाऽऽच्छादिते तदक्षिणी शम्बेन / सागरचन्द्रेणोक्तम् किं कमलामेला ? शम्बेनोक्तम्- नाऽहं कमलामेला, किन्तु कमलामेलोऽहम्। ततः सागरचन्द्रेण शम्बो-ऽयमिति ज्ञात्वा प्रोक्तम् - सत्यमेव कमलसमदीर्घलोचनां कमलामेला मेलयिष्यसि, कोऽत्राऽर्थेऽन्यः समर्थ इति। ततोऽन्यैर्यदुकुमारैः पीतमद्यः परवशीभूतः शम्बो ग्राहितस्तद्यापनप्रतिज्ञाम् / उत्तीर्णे च मदभावे विचिन्तितं शम्बेन- अहो ! अलं मयाऽभ्युपगतम्, अशक्यं ह्येतद्वस्तु, कथमियं प्रतिज्ञा निर्वाहयिष्यते ? ततः प्रद्युम्नपात् प्रज्ञप्तिविद्या याचिता शम्बेन। विवाहदिवसेच बहुभिर्यादवकुमारैः परिवृतेन तेन सुरङ्गा पातयित्या पितृगृहादाकृष्य नीता बहिरुद्याने कमलामेला / नारदं च साक्षिणं कृत्वा कारितस्तत्पाणिग्रहणसंबन्धः सागरचन्द्रस्य। ततः सर्वेऽपि कृतविद्याधररूपाः क्रीडन्तस्तिष्ठन्तिस्मा उद्याने पितृश्वसुरपाक्षिकैश्चाऽन्वेषयद्भिदृष्टा कृतविद्याधररूपा नवपरिणीतवेषधारिणी च क्रीडन्ती कमलामेला / विद्याधरैरपहत्य परिणीता कमलामेले ति कथितं तैर्वासुदेवस्येति। निर्गतश्च विद्याधरोपरि कुपितः सबलवाहनोऽसौ, लग्नं च महदायोधनं तावद् यावत् पश्चाच्छम्बः परिहतवैक्रियरूपः पतितो जनकस्याऽङ्घ्रियुग्मे / ततश्चोपसंहृतः सङ्ग्रामः, दत्ता च कृष्णेन कमलामेला सागर-चन्द्रस्यैव / गताश्च सर्वे स्वस्वस्थानम् / तत्र सागरचन्द्रस्य शम्बं कमलामेला मन्यमानस्य भावाननुयोगः, यथावस्थितावगमे तु भावानुयोगः / विपरीतादिप्ररूपण-योजना तु प्रस्तुता पूर्ववदिति। शम्बसाहसोदाहरणमिति। वाचनान्तरे शम्बस्योदाहरणम्- वासुदेवाच्छेषजाय सदैव शृणोति जाम्बवती- समस्तानामप्यालीनां मन्दिरं त्वत्पुत्रः शम्ब एति / ततो जाम्बवत्या विष्णुरभिहितः - मया पुत्रसत्का एकाऽप्यालिर्न दृष्टा। विष्णुना प्रोक्तम्- आगच्छ येनाऽद्य दर्शयामि / ततो जाम्बवती उत्कृष्टलावण्यमाभीरीरूपं कारिता, स्वयं पुनराभीररूपं कृत्वा दण्डहस्तःस्वयं पृष्ठे व्यवस्थितः।अग्रतस्तुमस्तकन्यस्तदधि-हण्डिका जाम्बवती कृता,प्रविष्टोऽथ दधि-विक्रयाऽर्थ नगरीमध्ये। दृष्टा च शम्बेन माता। तदुत्कृष्टरूपाआभीरीति विज्ञाय प्रोक्ता शम्बेनैषा-आगच्छ मद्गृहं सर्वस्यापि त्वदीयदध्नो यावन्मात्रं मूल्यं याचसे,तदहं दास्यामीत्यग्रतः स्वयं पृष्ठतस्त्वामीरी पश्चात्त्वाभीरः। स्वतः शून्यदेवकुलिकायामेकस्यां गत्वा प्रोक्ता शम्बेनाऽऽभीरी- प्रविश एतन्मध्ये, मुञ्च दधि / तया च विरूपाऽभिप्रायं तं विज्ञाय प्रोक्तम्- नाऽहमत्र प्रविशामि, द्वारस्थिताया एव गृहाण दधि, प्रयच्छ मूल्यम् / बलादपि प्रवेशयिष्यामीत्यभिधाय गृहीता शम्बेन सा बाहौ, ततो धावित्वा द्वितीयबाहौ लग्न आभीरः / द्वयोरपि चाऽऽकर्षणं विकर्षणं कुर्वतोभनं भाण्डम् / ततः कृतं सहजरूपमात्मनो, जाम्बवत्याश्च विष्णुना / तच्च दृष्ट्वा लज्जितो नष्टः शम्बः, नाऽऽगच्छति चाऽवसरेऽपि लज्जया राजकुले / ततोऽन्यदिने विष्णुनियुक्त-बृहत्पुरुषैः कष्टनाऽऽनीयमानः क्षुरिकयावंशकीलकं घट्यन् आगच्छत्यसौ। प्रणामे च कृते पृष्टो वासुदेवेन शम्बः - किमेतत् क्षुरिकया घट्यते / तेनोक्तम्- कीलकोऽयम् / किमर्थं पूनरसौ ? यः पर्युषितानतीतजल्पान् वदिष्यति, तन्मुखे आहननार्थमिति / तदत्र शम्बस्य मातरमप्याभीरी मन्यमानस्य भावाऽननुयोगः, पश्चाद् यथावदवगमे तुभावानुयोगः। प्रस्तुतयोजना तु पूर्ववदिति। अथ श्रेणिककोपोदाहरणम् - राजगृहे नगरे समवसृतस्य भगवतः श्रीमन्महावीरस्य श्रेणिकनराधिपो राज्ञया चेल्लणया सह माघमासे हिमकणप्रवर्षिणि महाशीते पतति वन्दनार्थं गतः। ततो निवर्तमानस्य च तस्य, राज्ञया चेल्लणया मार्गासन्नः तपःकर्षितशरीरः सर्वथा- ऽप्यनावरणो मेरुशिखरमिव निष्प्रकम्पः प्रतिमाप्रतिपन्नो- ऽभिनयकायोत्सर्गे स्थितः संध्यायां दृष्टः कोऽपि तपस्वी। गताऽसौ तद्गुणानेव मनसि ध्यायन्ती गृहम्, सुप्ता च रजन्यामनेक-शीतापहर्तृप्रावरणप्रावृता पल्यङ्के, निर्गतश्व प्रावरणेभ्यो बहिस्तात् कथमप्येकः करः, शीताभिभूतश्वायमतीव स्तब्धीभूतः, तदनुसारेण च समस्तमपि शरीरं तथा व्याप्तं शीतेन यथा निद्राभरे-ऽपि जागीरतं तया। ततः क्षिप्तो हस्तः प्रावरणमध्ये, स्थितश्च हृदये स तथा कायोत्सर्गस्थायी महामुनिः, तद्गुणोत्पन्नाऽतुच्छबहुमानया विस्मितयाच प्रोक्तं तया- सतपस्वी किं