________________ अणणुओग 287 - अभिधानराजेन्द्रः - भाग 1 अणणुओग एवं शिष्योऽपि यावन्मात्रं वचनं गुरुः कथयति, तावन्मात्रमेव स्वयं द्रव्यक्षेत्रकालपराभिप्रायौ चित्यपरिज्ञानशून्यो यो वक्ति, तस्य वचनाननुयोगः। यस्तु द्रव्यक्षेत्राद्यौचित्येन वक्ति, तस्य तदनुयोग इति / भावाऽननुयोगाऽनुयोगयोः सप्तोदाहरणानि - तत्र श्रावकभार्योदाहरणमाह-एकेन गृहीताणुव्रतेन तरुण- श्रावकेण श्रावकभार्याऽतीवरूपवती कृतोद्भटरूपशृङ्गारा निजपत्न्या एव सखी कदाचिद् दृष्टा / गाढमध्युपपन्नश्च तस्यां, पर लज्जादिना किमपि वकुमशक्नुवंस्तत्प्राप्तिचिन्तया च प्रतिदिनमतीव दुर्बलो भवन्निर्बन्धेन पृष्ट कारणं स्वभार्यया, कथित चकथं कथमपि तेन। तया चाऽतीवदक्षतया प्रोक्तम्- एतावन्मात्रेऽप्यर्थे किं खिद्यसे? प्रथममेव ममैतत्किन कथितम, स्वाधीना हि मम सा, आनयामि सत्वर-मेवेति / ततोऽन्यदिने भणितो भतिया अभ्युपगतं सहर्षया तया युष्मत्समीहितं, प्रदोष एवागमिष्यति, परं लज्जालुतया वासभवन-प्रविष्टमात्राऽपि प्रदीपं विध्यापयिष्यति। तेनोक्तम्- एवं भवतु, किमित्थं विनश्यति, ततो वयस्यायाः सकाशामिक चिन्निमित्तमुद्भाव्य याचितानि, तया तदीयानि स्वभर्तृदृष्टपूर्वाणि प्रधानवस्त्राण्या-भरणानि च, ततो गुटिकादिप्रयोगतो विहितसखीसदृशस्वरादि-स्वरूपा तथैव कृतशृङ्गारा तत्सदृशललितेन विलासैश्वान्विता तस्यैव श्राद्धस्य भार्या सन्निहितवरकुसुमताम्बूलश्रीखण्डागुरुकर्पूरकस्तू रिकादिसमस्तभोगाङ्गे विहितामलप्रदीपालोके रमणीये वासभवने सविलासमन्वविशत् / ततो दृष्टा सोत्कण्ठविस्फारितदृशा त्रिदशकल्लोलिनीपुलिनप्रतिस्पर्धिपल्यड्कोपविष्टन झगित्येव नयनमनसोऽमृतवृष्टिमियादधाना तेनैषा / तया च दृष्टमात्रया विध्यापितः प्रदीपः। क्रीडितं विविधगोष्ठी प्रबन्धपूर्वक तया सह निर्भरं तेन। ___ गतायां च तस्यां प्रत्युषसि चिन्तितमनेनसयलसुरासुरपणमियचलणेहिं जिणेहि जं हियं भणियं / तं परभवसंचलयं, अहह ! मए हारियं सीलं // 1|| इत्यादिसंवेगवशोत्पन्नपश्चात्तापमहानलप्लुष्यमानान्तःकरणः प्रतिदिनमधिकतरं दुर्बलीभवत्यसौ / ततो निर्बन्धेन भार्यया पृष्टो निःश्वस्य सखेदं ब्रवीति स्मप्रिये ! यतश्चिरकालानुपार्जितस्वर्गाऽपवर्गनिबन्धनव्रतखण्डनेनाऽमुना कृतं मया तदकर्तव्यं यद् बालिशानामप्यविधेयम्। ततः कशीभवाम्यहमनया चिन्तया। ततो भार्यया संवेगवशीभूतंव्यावृत्तं च तचेतो विज्ञाय कथितः सर्वोऽपि यथावृत्तः / सद्भाव-साभिज्ञानकथनादिभिश्च समुत्पादिता प्रतीतिस्तस्य, ततः स्वस्थीभूतोऽयमिति / तदेवं स्वकलत्रमपि परकलत्राभिप्रायेण भुञानस्य तस्य भावाऽननुयोगः, यथाऽवस्थितावगमे भावानुयोगः एवमौदयिकादिभावान् स्वरूपवैरीत्येन प्ररूपयतो भावाऽननुयोगः, यथाव-स्थिततत्प्ररूपणे तु भावाऽनुयोग इति। सप्तभिः पदैर्व्यवहरतीति साप्तपदिकस्तदुदाहरणमुच्यते- एकस्मिन् प्रत्यन्तग्रामे कोऽपि सेवकपुरुषो वसति स्म / स च साध्वादिदर्शनिनां संबन्धिनं धर्म कदाचिदपिन शृणोति स्म।नच तदन्तिके कदाचिदपि व्रजति स्म, न च कस्याप्युपाश्रयं ददाति स्म / यतो दयालुतां परधनपरकलत्रनिवृत्त्यादिगुणप्रतिपत्तिं चैते उपदेक्ष्यन्ति, न च पालयितुमहं शक्नोमीति। अन्यदा च वर्षासन्नसमायातास्तत्र कथमपि साधवः, तेषां च तत्र वसति- मन्वेषयतां कौतुक दिदृक्षुभिः सेवकनरमित्रामीणैरुक्तम्- अत्रेत्थंभूतो भवतामतीव भक्तोऽमुकगृहे श्रावकस्तिष्ठति, वसत्यादिनान किञ्चित् क्षुण्णं करिष्यति, तद् गच्छत तत्रेति, कृतं तत् तथैव तैः। स च तेषां पुरतोऽपि स्थितानां संमुखमपि नाऽवलोकयति स्म / तत एकेन साधुना शेषसाधूनामभि-मुखमुक्तम् स एष न भवति, प्रवञ्चिता वा तैमियकैर्वयम् / ततस्तेन संभ्रान्तेनोक्तम् -- किं किं भणथ यूयम् ? ततस्तैः कथितं सर्वमपि भाषितम्, ततस्तेन चिन्तितम्- अहो ! मत्तोऽपि ते निकृष्टाः, यैरतेऽपि प्रवञ्चिताः, तस्माद मा भूवन् अमी, अहं च तदुपहासपात्रम् / अतोऽनिष्टमपि करोम्येतदिति विचिन्त्योक्तम्- तिष्ठत मम निराकुलशालायामेतस्याम्, परं मम धर्माऽक्षरं न कथनीयम् / प्रतिपन्नमेतत्तैः / स्थिताश्च सुखेन तत्र चतुर्मासकाऽत्ययं यावत् / ततो विजिहीर्षुभिस्तैरनुव्रजनार्थमागतस्य शय्यातरस्यकल्पोऽयमिति दत्ताऽनुशास्तिः। ततो मद्यमांसजीवघातादि विरतिं कर्तुमशक्नुवत-स्तस्याऽतिशयज्ञानितयाऽग्रे प्रतिबोधगुणं पश्यद्भिर्गुरुभिः साप्तपदिकं व्रतं दत्तम्। किंचित्पञ्चेन्द्रियप्राणिनं जिघांसुनायावता कालेन सप्तपदान्यवष्वष्क्यन्ते, तावन्तं कालं प्रतीक्ष्य हन्तव्योऽसाविति / प्रतिपन्नमेतत्तेन / गताश्व साधवोऽन्यत्र / अन्यदा चाऽसौ सेवकनरैश्चौर्याऽर्थं गतः क्वापि, ततोऽपशकुनादिकारणेन स्वल्पेनैव कालेन प्रतिनिवृत्तः, कीदृशो मत्परोक्षेमदीयगृहे समाचार इति जिज्ञासुर्निशीथे प्रच्छन्न एवं प्रविष्टो निजगृहे। तस्मिश्च दिने तदीयभगिनी ग्रामान्तरादागता, तया च केनचिद् हेतुना विहितपुरुषनेपथ्यया नटा नृत्यन्तो निरीक्षिताः / ततोऽसौ प्रचलनिद्रावशीकृतपुरुषवेषैव भ्रातृजायायाः समीपे प्रदीपालोकादिरम्यवासभवनगतपल्यङ्क एव निर्भरं प्रसुप्ता / तेनाऽपि च तद्वन्धुना अकस्मादेव गृहप्रविष्टन दृष्ट तत्तादृशम्। ततश्चिन्तितमनेन- अहो ! विनष्ट मद्गृहम् / विटः कोऽप्ययं मद्भार्या समीपे प्रसुप्तस्तिष्ठतीति कोपावेशादात्तकृपाणः, ततः स्मृतं व्रतं, विलम्बितं च सप्तपदापसरणकालम् / अत्रान्तरे तद्भगिनीबाहुलतिका निद्रावशेन तद्भार्यया मस्तकेनाक्रान्ता, ततः पीड्यमानया तद्भगिन्या प्रोक्तम्- हले ! मुञ्च मम बाहुं, दूयेऽत्यर्थमहम् / ततः स्वरविशेषेण ज्ञाताऽनेन स्वभगिनी / अहो ! निकृष्टोऽहं, मनागेव मयान कृतमिदमकार्यम्। तत उत्थिते ससंभ्रम भगिनीभार्ये / कथितश्च सर्वः स्वव्यतिकरः परस्परम् / ततो यथोक्ताभिग्रहमा-त्रस्याप्येवं भूतं फलमद्वीक्ष्य संविग्नः प्रवजितोऽसाविति / तदत्र स्वभगिनीमपि परपुरुषाभिप्रायेण जिघांसोस्तस्य भावाननुयोगः, यथाऽवस्थितावगमे तु भावानुयोगः / प्रस्तुतयोजना तु श्रावकभार्योदाहरणवदिति। कोङ्कणकदारकोदाहरणम् - यथा कोङ्कणकविषये एकस्य पुरुषस्य लघुदारकोऽस्ति स्म। भार्या तु मृता, अन्यां च परिणेतुमिच्छतोऽपि सपत्नी-पुत्रोऽस्याऽस्तीतिन कोऽपि ददाति स्म।अन्यदाच सहैव तेन दारकेणाऽसावरण्ये काष्ठानां गतः, तत्र च कस्यापि पित्रा काण्ड मुक्तं, तदानयनाय च दारकः प्रेषितः, गतश्वाऽयम. अत्रान्तरे दृष्पितस्तस्य चलितं चित्तं. यदस्य दारकस्य सत्ककारणेनाऽन्यां भार्यां मम न कोऽपि ददाति / ततोऽन्यत्काण्ड क्षिप्त्वा विद्धोऽसौ दारकः, ततो महता स्वरेणोक्तं बालकेन- तात ! किमेतत्काण्ड त्वया मुक्तम् ? विद्धो ह्यनेनाऽहम्। ततो निघृणेनं पित्राऽन्यत् काण्ड मुक्तम् / ततो ज्ञातं दारकेण-हन्त ! चुक्को मारयत्येष मामिति विस्वरं रट निकृष्टेन तेन मारितोऽसाविति / पूर्वमन्यस्य बाण मुञ्चताऽपिऽनाभोगत एवाऽहं विद्ध इत्येवमवबुध्यमानस्य भावाऽननुयोगः, पश्चाद् यथावस्थितावगमेतस्य भावाऽनुयोगः। अथवा संरक्षणाऽहमपि तं बालकं मारयामीत्यध्यवस्यतः पितुर्भावाऽननुयोगः, तद्-रक्षणाऽध्यवसाये तु भावानुयोगः / एवं विपरीतभावप्ररूपणे भावाननुयोगः, अविपरीतभावप्ररूपणे तु भावाऽनुयोग इति। अथ नकुलोदाहरणम् - यथा पदातेः कस्यचिद् भार्या गुर्विणी जाता, नकुलिका च