________________ अणणुओग २८६-अभिधानराजेन्द्रः-भाग 1 अणणुओग मप्यात्मपरिचितस्य यानशालिकस्य / ततस्तेन प्रगुणीकृत्य यानान्यगच्छत एव राज्ञः पुरतोऽपि प्रवर्तितानि, तत्पृष्ठतश्च सर्योऽपि स्कन्धावारः प्रवृत्तो गन्तुम्।व्याप्तं च नभोमण्डलं कटक-धूलिनिकरणे। ततश्चिन्तितं विस्मितमनसा नराधिपेन- ननु कस्यापि प्रयाणकंन कथित धूलीभयात्किलाहं स्वल्पपरिच्छदो भूत्या सैन्यस्यपुरतएव यास्याम्येतच विपरीतमापन्नम्, तत्कथ-मिदं कटकलोकेन विज्ञातमिति / परम्परया शोधयता विज्ञाता कुब्जा / पृष्टया च तया कथितं सर्वमपि यथावृत्तम् / तदत्र सभामण्डपिकादिक्षेत्रेण निष्ठीवनस्य अननुयोगः, निष्ठीवना दिरक्षणप्रमार्जनोपलेपनादिकस्त्वनुयोगः / एवमेकान्त नित्यमेकमप्रदेश चाकाशं प्ररूपयतोऽननुयोगः, स्याद्वादलाञ्छितं तु तदेव प्ररूपयतोऽनुयोग इति। कालाननुयोगानुयोगयोः स्वाध्यायदृष्टान्तः- तद्यथा-एकः साधुः प्रादोषिककालग्रहणानन्तरं कालिक श्रुतमतीतामपि तद्गुणनवेलामजानानः परावर्तयते स्माततः सम्यग्दृष्टिदेवतया चिन्तितम्बोधयाम्यमुं, मा भून्मिथ्यादृष्टिदेवताछलमस्य, ततो मथितकारूपेण मथितभृतमेव घटं मस्तके निधाय तस्यैव साधोरन्तिके गतागतानि कुर्वती 'मथितं लभ्यते' इति महता शब्देन पुनः पुनर्घोषयन्ती परिभ्रमति स्म। ततोऽत्युद्वेजितेन साधुना प्रोक्तम्- अहो ! भवत्यास्तक्रविक्रयवेला ? ततो मथित-कारिकयाऽप्यवोचि-अहो ! तवापि स्वाध्यायवेला? ततो विस्मतः साधुरुपयुज्य मिथ्यादुष्कृतं ददाति स्म / ततोऽकालस्वाध्यायविधानेन मिथ्यादृष्टिदेवताविहितच्छलानि भवन्त्यतः पुनरप्येवं मा कार्षीस्त्वमित्यादि साधुर्देवतयाऽनुशासितः / इत्येष स्वाध्यायस्य कालाननुयोगः, कालेऽनुपठतस्तदनुयोगः। प्रस्तुते-ऽपि कालधर्माणां वैपरीत्यावैपरीत्यप्ररूपणे अननुयोगाऽनुयोगौ वाच्याविति / अथ वचनविषयमनुयोगाननुयोगयोरुदाहरणद्वयमुच्यते-तत्र प्रथम बधिरोल्लापः। तत्र चैकस्मिन्ग्रामेबधिरकुटुम्ब परिवसतिस्मा स्थविरः, स्थविरा, पुत्रो, वधूश्च / अन्यदाचपुत्रः क्षेत्रे हलं वाहयन् पथिकैर्मार्ग पृष्टो बधिरतया ब्रवीति-गृहजातौ मम बलीवाविमौ, न पुनरन्यस्य सत्कौ। ततो बधिरोऽयमिति विज्ञाय गताः पथिकाः / ततो भक्तं गृहीत्वा वधूः समायाता।शृङ्गितौ पथिकैर्बलीववित्यादि निवेदितं तेन तस्याः।तया च प्रोक्तम्-क्षारमलवणं वेति न जानाम्यहम्, एतत्त्वदीयजनन्यैव हि संस्कृतम् / ततो गृहं गतया तयाऽपि क्षारादिभणनव्यतिकरो निवेदितः। स्थविरया च कर्तयन्त्या प्रोक्तम्-स्थूलं सूक्ष्म वा भवत्विदं, स्थविरस्य परिधानं भविष्यतीति / निवेदितं चैतत्सानुशयचित्तया स्थविरया गृहमागतस्य स्थविरस्य। तेनाऽपि बिभ्यताप्रोक्तम्-तवजीवितं पिबामि, यद्येकमपि तिलमहं भक्षयामीति / एवमेक-वचनादिकमप्युक्तम्। द्विवचनादितया यः शृणोति तथैव चान्यस्य प्ररूपयति, तस्याननुयोगः, यथावच्छ वणनिरूपणे त्वनुयोग इति / वचनानुयोगस्यै वेह प्राधान्यख्यापनार्थं वचनविषयमेव द्वितीयं ग्रामेयकोदाहरणमुच्यते-तत्र चैकस्मिन्नगरे कस्या-चिन्महिलाया भर्ता मृतः, तन्धनजलादिकष्टेन बाधिता निर्वहन्तीलधुना निजतनयेन सह ग्रामंगताऽसौ। ततो वृद्धिंगतेन पुत्रेण सा पृष्टा-मदीयपितुः का जीविका आसीत् ? तया प्रोक्तम्राजसेवा / तेनोक्तम्- अहमपि तां करोमि ? तया प्रोक्तम्- पुत्र ! | दुष्कराऽसौ, महता विनयेन क्रियते। कीदृशः पुनरसी विनयः? तया ) प्रोक्तम्-सर्वस्यापि दृष्टस्य प्रणामः कार्यः, नीचैर्वृत्त्या सर्वस्यापि प्रवर्तित व्यम्, परच्छन्दानुवृत्तिपरैश्च सर्वत्र भवितव्यम् / एवं करिष्यामीत्यभ्युपगम्य चलितोऽयं राजधानीम्। सम्मुखे मार्गे च हरिणेष्वागच्छत्सु वृक्षमूलेष्वाकृष्टधनुर्यष्टयो निलीना व्याधा दृष्टाः। तेषां च तेन महता शब्देन योत्कारः कृतः, ततस्त्रस्ताः प्रपलाय्य गता हरिणाः / ततो व्याधैः कुट्टयित्वा बद्धोऽसौ / ततस्तेनोक्तम्- जनन्याऽहं शिक्षितःदृष्टस्य सर्वस्यापि योत्कारः कर्तव्य इत्यादि / ततश्च ऋजुरयमिति ज्ञात्वा मुक्तस्तैः, शिक्षितश्च यथा- ईदृशे दृष्ट निलीनैरवनतैः शब्दमकुर्वद्भिः शनैर्वा जल्पद्भिर्निभृतमागम्यते / तदभ्युपगम्य पुरतो गन्तुं प्रवृत्तोऽसौ / दृष्टाश्च वस्त्राणि क्षालयन्तो रजकास्तेषांचवस्त्राणि तस्करैर्नित्यमपहियन्ते स्म, ततस्तत्र दिने लगुडादिव्यग्रपाणयो रजकाः प्रच्छन्नोपविष्टा हेरयन्तस्तिष्ठन्ति स्म। आगतश्वाजल्पन्नवनतगात्रो निलीयमानः शनैः सः तत्र ग्रामेयकः। स एष चौर इति कृत्वा कुट्टयित्वा बद्धोऽसौ रजकैः / सद्भावे च कथिते मुक्तस्तैः शिक्षितश्च-यथेदृशे कस्मिंश्चिदृष्टएवमुच्यते, यथा-ऊषक्षारोऽत्र पततु, शुद्धं च भवत्विति / इदं चाभ्युपगम्य प्रवृत्तः पुरतो गन्तुम्। ततो दृष्ट क्वचिद् ग्रामे बहुभिर्मङ्गलैः प्रथमं हलवाहनस्य दिवसकरणं क्रियमाणम्। तत उक्तम्-ऊषेत्यादि।ततस्तैरपि कृषीवलैः पिट्टितो बद्धश्च, सद्भाये ज्ञाते मुक्तः, शिक्षितश्च-यथेदृशे क्वापि दृष्ट प्रोच्यते, यथा-गन्त्र्योऽत्र वियन्ता, बह्वत्र भवतु, सदैव चेदमस्त्विति। अभ्युपगतं च तेनेदम्। अन्यत्र च मृतके बहिर्नीयमाने प्रोक्तमिदम्। तत्रापि कुट्टितो बद्धश्च, सद्भावकथने च मुक्तः, शिक्षितश्च-यथेदृशं मा भूद्भवतां कदाचिदपि वियोगश्चेदृशो नास्त्विति / एतचान्यत्र विवाहे प्रोक्तम् तत्रापि तथैव बद्धः, सद्भावे परिज्ञाते मुक्तः, शिक्षितश्च-यथेदृशे प्रोच्यते-सदैवं पश्यन्त्वीदृशानि भवन्तः,शाश्वतश्च भव-त्वेतत्संबन्धः, मा भूदिह वियोग इति / इदं चाऽन्यत्र क्वचिन्निगड-बद्धं राजानमवलोक्य ब्रुवाणस्तथैव कदर्थयित्वा मुक्तः, शिक्षितश्च यथेदृशो वियोगः शीघ्रं भवत्वनेन, एवं च मा भूत्कदाचिद-पीत्यभिधीयते / एतच्चान्यत्र क्वचिद् राज्ञां संधी जल्प्यमाने प्रोक्तं, ततस्तत्रापि तथैव कदर्थितः / एवं स्थाने स्थाने कदर्थ्यमानोऽन्यदा कस्यापि विभवतः प्रमुक्तस्य ठक्कुरस्य सेवां विधातुमारब्धः, तत्र चान्यदा गृहे आम्ल-खलिकायां सिद्धायां ग्रामसभाजनसमूहमध्ये उपविष्टस्य ठक्कुरस्य शीतलीभूता एषा भोक्तुमयोग्या भविष्यतीति भार्यया तदाकारणाय प्रेषितो ग्रामेयकः। तेनापि तस्य जनसमूहस्यशृण्वतोमहताशब्देन प्रोक्तम्-आगच्छ ठकुर ! शीघ्रमेव गृहं, भुझ्व, आम्लखलिका शीतलीभवति स्थिताऽसौ, ततो लज्जित ठक्कुरो गृहं गतस्ततो बाढं ताडयित्वा शिक्षितोऽसौ, यथा नेत्थं कुणिर्गृहप्रयोजनानि भण्यन्ते, किंतुवस्वेण मुखं स्थगयित्वा कर्णाभ्यणे च स्थित्वा शनैः कथ्यन्ते। ततोऽन्यदा वह्निदीप्ते गृहे गतो ग्रामसभायां, शनैरग्रतः स्थित्वा वस्त्रं च मुखद्वारे दत्त्वा कथितं तत्तस्य कर्णे। ततः संभ्रमाद्धावितो गृहाभिमुखः ठकुरो, दग्धं च सर्वस्वं, सर्वमपि गृहं, ततः कुपितेन बाढं ताडितोऽसौ ठकुरेण, भणितश्च निर्लक्षण ! प्रथममेव धूमे निर्गते जलाचाम्लधूलिभस्मादिकं किमिति त्वया न निक्षित, महता च शब्देन कि मिति त्वया न पूत्कृतम् ? तेनोक्तम्- अन्यदा इत्थं करिष्यामीति / ततः कदाचिद्वि-हितस्नानो धूपनायोपविष्टः ठकुरः, निर्गतां च प्रच्छादनपटस्योपरि अगरुधूमशिखां दृष्ट्वा च ग्रामेयकेन क्षिप्ता चोत्पाट्य तदुपर्याचाम्लभृतमहास्थाली, जलधूलीभस्मादिक , rar च पूत्कृतं महद्भिः शब्दैरिति। ततोऽयोग्योऽयमिति निष्कासितो गृहात्।