________________ अणट्ठादंडवेरमण 285 - अभिधानराजेन्द्रः - भाग 1 अणणुओग दंडवे रमणस्स समणोवासगस्स पंच अइयारा जाणियच्या, न समायरियव्वा / तं जहा- शहाणुव्वट्टणयन्नगविलेवणे सद्दरूवरसगंधे / वत्थासणआभरणे, पडिक्कमणे देवस्सियं सव्वं / / 1 / / कंदप्पे 1, कुक्कुइए 2, मोहरिए 3, असंजुताहिकरणे 4 य / उवभोगपरिभोगातिरित्ते 5 / उपा० 1 अ० अस्याऽनर्थदण्ड-विरमणस्य श्रमणोपासकेन अमी पञ्चाऽतीचारा ज्ञातव्या, न समाचरितव्याः / आव० 6 अ०(व्याख्या 'कंदप्प' आदिशब्देषुद्रष्टव्या) अणट्ठाबंधि-पुं०(अनर्थबन्धिन) पक्षमध्ये अनर्थकं निष्प्रयोजनमेकवारोपरि द्वौ त्रीन् चतुरो वा वारान् कम्बासु बन्धान् ददाति, चतुरुपरि बहूनि अट्टकानि वा बध्नाति, तथा च स्वाध्यायविघ्नपलिमन्थादयो दोषाः, यदि चैकाऽङ्गिकं चम्पकादि पदे लभ्यते, तदा तदेव ग्राह्यम्, बन्धनादि-पलिमन्थपरिहारात् / कल्प०। अणडण-न०(अनटन) अभ्रमणे, पंचा० 13 विव०॥ अणडो-(देशी) जारे, दे०ना०१ वर्ग। अणणिप्पित्तु-अव्य०(अनर्ण्य ) प्रतीपमनयेत्यर्थे, अपडिहट्ठुमणणिप्पित्तु संपव्यए, अणणिप्पित्तु, न प्रतीपं अर्पयतीत्यर्थः / निचू० २उ०॥ अणणुओग-पुं०(अननुयोग) अनुयोगविपर्यस्ते अननुरूपे योगे, विशेषण नामादिभेदात्सप्तविधमनुयोगं व्याख्याय तद्विपक्षभूतमननुयोगं बिभणिषुरुक्तोपसंहारं प्रस्तावनां चाहएसोऽणुरूवजोगो, गओऽणुओगो इओ विवज्जत्थं / जो सो अणणुओगो, तत्थेमे हो ति दिटुंता ||1|| तदेवं गतो भणित एषोऽनुरूपयोगोऽनुयोगः सप्तविधोऽपि / अथ | विपर्यस्तमेतद्विपर्ययेण योऽयमननुयोगः, स उच्यते, तत्र चैते वक्ष्यमाणदृष्टान्ता भवन्तीति / / 1 / / के पुनस्तेऽननुयोगदृष्टान्ताः? इत्याहवच्छगगोणी खुज्जा, सज्झाए चेव बाहिरुल्लावे। गामल्लए य वयणे, सत्ते यं होति भावम्मि॥२॥ सावगमज्जा सत्तवइए य कोंकणगदारए नउले। कमलामेला संबस्स साहसं सेणिए कोवा ||3|| यथाऽनुयोगो नामादिभेदात्सप्तविधस्तथाऽननुयोगो यथासंभवं वक्तव्यः / तत्र नामस्थापने सुगमे, द्रव्यानुयोगस्तत्प्रसंगतः। द्रव्यानुयोगे च वत्सगौरुदाहरणम् / क्षेत्रे त्वननुयोगानुयोगयोः कुब्ज उदाहरणम् / काले स्वाध्यायः / वचने पुनरुदाहरणद्वयम्, तद्यथा- बधिरोल्लापः, ग्रामेयकश्च / भावे तु सप्तोदाहरणानि भवन्ति, तद्यथा- श्रावकभार्या 1, साप्तपदिकः पुरुषः 2, कोङ्कणकदारकः 3, नकुलः 4, कमलामेला 5, शम्बस्य साहसम् 6, श्रेणिककोप७ श्चेति नियुक्तिगाथासंक्षेपार्थः / / 3 / / अथ विस्तरतो वत्सगोण्युदाहरणं भाष्यकारः प्राहखीरं न देह सम्मं, परवच्छनिओयओ जहा गावी। छड्डेज व परदुद्धं, करेज देहोवरोहं वा / / यथा काचिच्छबलादिका गौरन्यस्या बहुलादिकायाः संबन्धिनि गोदोहकेन वत्से नियुक्ते सत्यननुयोगोऽयमिति कृत्वा तन्नियोगतः क्षीरं दुग्धं सम्यग् न ददाति / अथवा न तावता तिष्ठेत्, किन्तु परदुग्धम्अन्यस्या अपि गोः सत्कं दुग्धमग्रेऽपि गोदोहनिकायां व्यवस्थितमुल्ललन्ती छर्दयेत् त्याजयेत्, यदि वा देहोपरोधं लत्ता प्रहारादिभिर्जानुभङ्गादिना देह बाधामपि कु र्यादित्यर्थः / तथा किमित्याशक्य प्रस्तुते योजयन्नाहतह न चरणं पसूते, परपज्जायविणिओगओ दव्वं / पुव्वचरणोवधायं, करेइ देहोवरोहं वा // जिणवयणसायणाओ, उम्मायातंकमरणवसणाई। पावेज सव्वलोवं, स बोहिलाभोवघायं वा / / दव्वविवजासाओ, साहणमेओ तओ चरणभेओ। तत्तो मोक्खामावो, मोक्खाभावेऽफला दिक्खा॥ तथाऽत्रापि व्याख्या- यदा जीवादिद्रव्यमजीवादिधर्मः प्ररूपयति, अजीवादिद्रव्यं वा जीवादिधर्मः प्ररूपयति, तदित्थं प्ररूप्यमाणं तद् द्रव्यमनुयोगतो दुग्धस्थानीयं चरणं चारित्रंन प्रसूते। परपर्यायविनियोगतो विपर्यासात्तद्धेतुः, तत्र भवतीत्यर्थः / न चैतावता तिष्ठति, किन्त्वित्थमननुयोगं कुर्वतः पूर्वप्राप्तचरणोपघातं च करोति, तथेत्थमवधिप्ररूपणप्रवृतस्य रोगाद्युत्पत्तेर्देहस्याप्युपरोधं बाधां विदधाति / किञ्चेत्थं जिनवचनाशातनोत्पत्तेरुन्मादातङ्कमरणव्यसनान्यपि प्राप्नुयात्, तथा सर्वव्रतलोपं, बोधिलाभोपघातं च प्राप्नुयादिति / ननु कथंचित्पर्यायप्ररूपणामात्रादेवैतावन्तो दोषा स्युरित्याह-(दव्वविवज्जासेत्यादि) विपरीतप्ररूपणे हिद्रव्यस्य विपर्यासो भवति, तथा च सति साधनस्यसम्यग्ज्ञानादेर्भेदो-ऽन्यथाभावो जायते, ततःसाधनभेदाचरणभेदस्तद्भेदात् तत्साध्यस्य मोक्षस्याऽभावप्रसङ्गः, उपायाभावे उपेयासिद्धेः। ततो मोक्षाभावे निष्फलैय दीक्षा, मोक्षार्थमेव तत्प्रतिपत्तिस्ततस्तदभावे निरर्थकैव सेति। तदेवं द्रव्याननुयोगे निर्दिष्टा दोषाः। अथ द्रव्यस्य सम्यगनुयोगे गुणानाहसम्म पयं पयच्छइ, सवच्छविणिओगओ जहा घेणू। तह सयपञ्जवजोया, दव्वं चरणं तओ मोक्खो।। यथा परवत्सपरिहारेण स्ववत्सविनियोगतो गौः सम्यक् पयः प्रयच्छति तथा स्वकपर्याययोगाद् द्रव्यं, ततश्चरणं, ततो मोक्षः प्राप्यत इति। तदेवं द्रव्याननुयोगेच दोषगुणयोर्वत्सगोदृष्टान्त उक्तः।। अथ क्षेत्राद्यननुयोगे दोषांस्तदनुयोगे तुगुणान् सोदाहरणानतिदिशन्नाह एवं खेत्ताईसु वि, सधम्मविणिओगओऽणुओग त्ति। विवरीए विवरीओ, सोदाहरणोऽणुगंतव्वो। एवमुक्तानुसारेण, क्षेत्रकालवचनभावेष्वपि स्वधर्मविनियोगतः आत्मोचितधर्मयोजनात्,अनुयोगः। विपरीते तु- विपरीतधर्मयोजनेतु, विपरीतोऽननुयोगः सोदाहरणः स्वबुद्ध्या, ग्रन्था-न्तराद्वाऽनुगन्तव्यो ज्ञातव्यः। तोत्थमतिदिष्टेऽपि मुग्धविनेयानुग्रहार्थ किञ्चिदुच्यते तत्र क्षेत्रतोऽननुयोगेऽनुयोगे च कुब्जोदाहरणमभिधीयते-प्रतिष्ठाननगरे शालिवाहनो नाम राजा। स च प्रतिवर्ष समागत्य भृगुकच्छे नभोवाहननृपं रुणद्धि स्म / ऋतुबद्धे च काले तत्र स्थित्वा वर्षासु स्वनगरं गच्छति स्म / अन्यदा च रोहक समागते तेन राज्ञा स्वनगरं जिगमिषुणा आस्थानसभामण्डपिकायां पतद्ग्रहकमन्तरेणापि भूमौ निष्ठयूतम् / तस्य च राज्ञः पतद्- गृहधारिणी कुठजा समस्ति स्म / तया चाऽतीवभावशतया लक्षितम्- नूनं परिजिहासरिदंस्थानं नरपतिर्यास्यति प्रभाते स्वनगरं, तेनेत्थमिह निष्ठीवतीति संचिन्त्य निगदितं कथ