________________ अणगारमग्गगइ 281- अभिधानराजेन्द्रः - भाग 1 अणगारमग्गगइ पाचनानि, तेषु च भूतवधो दृश्यत इति प्रक्रमः। ततः किमित्याह-प्राणा द्वीन्द्रियादयः, भूतानि पृथिव्यादीनि, तेषां दयारक्षणम, प्राणभूतदया। तदर्थम्-तद्धेतोः / किमुक्तं भवति? पचन-पाचनप्रवृत्तानां यः संभवी जीवोपधातः स मा भूदिति न पचेत्, स्वतो भक्तादीनिति प्रक्रमः। नापि पाचयेत्, तदेवान्यैरिति॥१०॥ अमुमेवार्थं स्पष्टतरमाहजलधन्ननिस्सिया जीवा, पुढवीकट्ठनिस्सिया। हण्णंति भत्तपाणेसु, तम्हा भिक्खू न पयावए / / 11 / / जलं च पानीयं, धान्यं च शाल्यादि, तन्निःश्रितास्तत्राऽन्यत्र च उत्पद्य ये तन्निःश्रया स्थिताः पूतरकभुजगेलिकापिपीलिकाप्रभृतयः / उपलक्षणत्वात् तद्रूपाश्च जीवाः प्राणिनः / एवं पृथ्वी-कायनिःश्रिता एकेन्द्रियादयो हन्यन्ते, भक्तपानेषु प्रक्रमात् पच्यमानादिषु / यत एवं तस्माद् भिक्षुर्न पाचयेत्। अत्र अपेर्ग-म्यमानत्वात् पाचयेदपि न, किं पुनः स्वयं पचेत्। अनुमति-निषेधोपलक्षणं चैतत्।११।। अपरंचविसप्पे सव्वओ धारे, बहुपाणिविणासणे। नत्थि जोइसमे सत्थे, तम्हा जोइं न दीवए॥१२॥ विसर्पतीति विसर्पम्, स्वल्पमपि बहु भवति / यत उक्तम् "अणथोवं वणथोवं, अग्गीथोवं" इत्यादि / सर्वतः सर्वासु दिक्षु, धारेव धारा जीवविनाशिका शक्तिरस्येति सर्वतो धारम्, सर्वदिगवस्थितजन्तूपघातकत्वात्। उक्तं च -"पाईणं पडणं वा वि'' इत्यादि। अत एव बहुधा प्राणविनाशनमनेकजीवजीवितं व्यपरोपकं, नास्ति न विद्यते, ज्योतिःसमम्-अग्नितुल्यम्, शस्यन्ते हिंस्यन्तेऽनेन प्राणिन इति शस्त्र प्रहरणम्, अन्यदिति गम्यते / तस्याविसर्पित्वाद सर्वतोधारत्वादल्पजन्तूपघातत्वाश्चेति भावः / सर्वत्र लिङ्गव्यत्ययः प्राग्वत् / यस्मादेवं तस्माद्, ज्योतिर्वैश्वानरम्, न दीपयेत् न ज्वालयेत् / अनेन च पचनस्याग्निज्वलनाऽविनाभावित्वात् तत्परिहार एव समर्थितः / इत्थं च विशेष प्रक्रमेऽपि सामान्याभिधानं प्रसङ्गतःशीतापनोदादिप्रयोजनेनापि तदारम्भनिषेधार्थम् , आधाकर्मादिका विशुद्धकोटिरनेनैवार्थतः परिहार्यो क्ता, तदपरिहारे ह्यवश्यंभावि-पचनानुमत्यादि प्रसङ्ग इति / / 12 / / नन्वेवं जीववधनिमित्तत्वमेव पचनादेर्निषेधे निबन्धनम् , तच नास्ति क्रयविक्र ययो रिति, युक्त-मेवाभ्यां निर्वहणमिति कस्यचिदाशङ्का स्यात् अतस्तदपनोदनाय हिरण्यादिपरिग्रहपूर्वकत्वात्तयोस्तन्निषेधपूर्वकत्वे सूत्रत्रयेण तत्परिहारमाहहिरन्नं जायरूवं च, मणसा विन पत्थए। समलेकंचणे मिक्खू, विरए कयविक्कए॥१३॥ हिरण्यं कनकम्, जातरूपं रूप्यम् / चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये। मनसाऽपि चित्तेनापि, आस्तां वाचा, न प्रार्थयेद् -ममामुकं स्यादिति / अपेर्गम्यमानत्वात्प्रार्थयेदपि न, किं पुनः परिगृह्णीयात् / कीदृशः सन् ? समे, कोऽर्थः - प्रतिबन्धाभाव-तस्तुल्ये, लेष्टुकाञ्चने मृत्पिण्डखण्डकनकेऽस्येति समलेष्टु- काञ्चनः, एवंविधश्च सन् भिक्षुर्विरतो निवृत्तः, स्यादितिशेषः / कुतः? क्रयो मूल्येनाऽन्यसंबन्धेन तथाविधवस्तुनः स्वीकारः, विक्रयश्च तस्यैवात्मीयस्य तथाविधवस्तुजातेनाऽन्यस्यदानम् ,क्रयश्च विक्रयश्च क्रयविक्रयमिति समाहारः, तस्मात्। पञ्चम्यर्थे सप्तमी, विषये सप्तमी वा। तत्र च क्रयविक्रयविषये विरत इति-विरतिमानित्यर्थः // 13 // किमित्येवमत आहकिणतो कइओ होइ, विक्कणंतो य वाणिओ। कयविक्कयम्मि वस॒तो, मिक्खू न हवइ तारिसो // 14|| क्रीणन् परकीयं वस्तु मूल्येनाददानः, क्रयोऽस्याऽस्तीति क्रयिको भवति, तथाविधेतरलोकसदृश एव भवति / विक्रीणानश्च स्वकीय वस्तु तथैव परस्य ददद् वणिग् भवति, वाणिज्य-प्रवृत्तत्वादिति भावः, अत एव क्रयविक्रये उक्तरूपे, वर्तमानः प्रवर्त्तमानो, भिक्षुर्न तादृशो भवति, गम्यमानत्वाद् यादृशः सूत्राभिहितो भावभिक्षुरिति // 14 // किमित्याहमिक्खियव्वं न केयव्वं, मिक्खुणा मिक्खुवित्तिणा। कयविक्कओ महादोसो, मिक्खावित्ती सुहावहा / / 15|| मिक्षितव्यं याचितव्यम् , तथाविधं वस्त्विति गम्यते। न नैव, क्रेतव्यं मूल्येन ग्रहीतव्यम् , केन? भिक्षुणा / कीदृशः ? भिक्षयैव वृत्तिर्वर्तन निर्वहणं यस्याऽसौ भिक्षावृतिस्तेन / उक्तं हि -- 'सव्वं से जाइयं होइ, नत्थि किंचि अजाइयं''। क्रयविक्रयवद् भिक्षाऽपि सदोषैव भविष्यतीति मन्दधीर्मन्येत, तत आह- क्रयश्च विक्र यश्च क्रयविक्रयम्, व्यवच्छेदफलत्वादस्य, तदेव महादोषः उक्तन्यायतः, लिङ्गव्यत्ययश्च प्राग्वत् इति। भिक्षाया वृत्तिः शुभमिहलोकपरलोकयोः कल्याणं, सुखं वा तदावहति समन्तात् प्रापयतीति शुभावहा, सुखावहा वा / एतेन क्रीतदोषपरिहार उक्तः, स चाशेषविशुद्धकोटीगतदोष-परिहारोपलक्षणम् // 15|| मिक्षितव्यमित्युक्तं, तच्च दानश्रद्धादिवेश्मनि क्वचिदेकत्रैवस्यादतआहसमुयाणं उंछमेसेज्जा, जहासुत्तमणिंदियं / लाभालामम्मि संतुढे, पिंडवायं चरे मुणी॥१६|| समुदानं भक्ष्यम्, न त्वेकभिक्षामेव, तचोञ्छमियोञ्छम् - अन्यान्यवेश्मनः स्वल्पस्वल्पमात्राणां मीलनात्मधुकरवृत्त्या हि भ्रमत इदृगेव भवतीत्येवमुक्तम्, एषयेद् गवेषयेत् / एतच्चोत्सूत्र-मपि स्यात् / अत आह-सूत्रमागमस्तदनतिक्रमेण यथासूत्र मागमाऽभिहितोदगमैषणाद्यबाधात्,इत्युक्तं भवति / तत एवाऽनिन्दितं शिष्टाऽनिन्द्येन स्वपरप्रशंसादिहेतुनोत्पादितं जात्या-दिजुगुप्सितजनसंबन्धिवान् भवति। तथा लाभश्च अलाभश्च लाभाऽलाभ, तस्मिन् संतुष्टः, ओदनादेः प्राप्ताऽप्राप्तौ च संतोष-वान्, न तु वाञ्छाविधुरितचित्त इति भावः। इह चलाभेऽपि वाञ्छा-उत्तरोत्तरवस्तुविषयत्वेन भावनीया। पिण्ड्यत इति पिण्डो भिक्षा, तस्य पातः पतनम्, प्रक्रमात् पात्रेऽस्मिन्निति पिण्डपातं भिक्षाटनम, तद् चरेदासेवेत, मुनिरिति तपस्वी। पाठान्तरतः - पिण्डस्य पातः पिण्डपातस्तं गवेषयेदन्वेषयेत्। उभयत्र च वाक्यान्तरविषयत्वादपौनरुक्त्यम् // 16 // __ इत्थं च पिण्डमवाप्य यथा भुञ्जीत तथाऽऽहअलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए। न रसवाए भुजेज्जा, जवणट्ठाए महामुणी॥१७॥ अलोलः सरसान्ने प्रासे लाम्पट्यवान् न, रसे स्निग्धमधुरादौ गृद्धोऽप्राप्तावभिकाङ्क्षावान् / कथं चैवंविधः ? यतो (जिब्भादंते त्ति) प्राकृ तत्वाद्दान्ता वशीकृ ता जिला रसना ये नासौ दान्तजिह्वः, अतएवामूञ्छितः सन्निधेरकरणेन तत्काले चाभिष्वङ्गा