SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ अणगारगुण 279 - अभिधानराजेन्द्रः - भाग 1 अणगारमग्गगइ णेसज्जिया, वीरासणिया, दंडायतिया,लगंडसाइणो, अप्पाउडा, अगत्तया, अकंड्या, अणिहा,धूतकेस मंसरोमनहा, सव्वंगा य पडिक्कमविप्पमुक्का चिटुंति॥७२॥ ते णं एतेणं विहारेणं विहरमाणा बहूई वासाइं सामन्नपरियागं पाउणंति, बहु बहु आबाहंसि उप्पन्नंसि वा अणुप्पन्नंसि वा बहूई भत्ताई पथक्खाइ, पचक्खा-इत्ता बहूई वासाइं अणसणाई छेदिति, अणसणाई छेदित्ताजस्सट्ठाए कीरति नग्गभावे मुंडभावे अण्हाण-भावे, अदंतवणगे अछत्तए अणोवाहणए, भूमिसेज्जा फलगसेज्जा कट्ठसेजा, केसलोएबंभचेरवासे परघरपवेसे लद्धा अलद्धमाणा अमाणणाओ हीलणाओ निंदणाओ खिसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकंटगा बावीसं परीसहोवसग्गं अहियासचिंति, तमढें आराहंति, तमटुं आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अणंतं अणुत्तरं निव्वाघातं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदंसणसमुप्पाडेंति, समुप्पाडें तित्ता ततो पच्छा सिज्झंति बुज्झंति मुचंति परिणिव्वायंति सव्वायंति सव्वदुक्खाणं अंतं करेंति // 73 // तद्यथा नाम केचनोत्तमसंहननधृतिबलोपेता अनगारा भगवन्तो भवन्तीति / ते पञ्चभिः समितिभिः समिताः, एवमित्युपदर्शने / औपपातिकमाचाराङ्ग संबन्धिप्रथममुपाङ्ग, तत्र साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते, तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः / यावद्भूतमपनीतं केशश्मश्रुलोमनखादिकं यैस्ते, तथा सर्वगात्र-परिकर्मविप्रमुक्ता निष्प्रतिकर्मशरीरास्तिष्ठन्तीति !70-72 / / तेचोगविहारिणः प्रव्रज्यामनुपाल्य बाधारूपे रोगातः समुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति / किं बहुनोक्तेन ? यत्कृतेऽयमयोगोलकवन्निरास्वादः, करवालधारामार्गवद् दुरध्यवसायः, श्रमणभावोऽनुपाल्यते, तमर्थं सम्यग्दर्शनज्ञान-चारित्राख्यमाराध्य अव्याहतमनन्तं मोक्षकारणं केवलज्ञान-माप्नुवन्ति, केवलज्ञानाऽवाप्रूज़ सर्वदुःखविमोक्षलक्षणं मोक्षमवाप्नु-वन्तीति // 73 // सूत्र०२ श्रु०२अ०) अणगारचरित्तधम्म-पुं०(अनगारचरित्रधर्म) अगारं नास्ति येषां तेऽनगाराः साधवः, तेषां चारित्रधर्मः ! महाव्रतादिपालनरूपे चारित्रधर्मभदे, "अणगारचरितधम्मेदुविहे पण्णत्ते। तंजहा सरागसंजमे, वीयरागसंजमे" स्था०२ ठा०१ उ०॥ (व्याख्या चाऽस्य स्वस्वस्थाने द्रष्टव्या) अणगारधम्म-पुं०(अनगारधर्म) ६ता सर्वविरतिचारित्रे यतिधर्म, औ० अणगारधम्मो ताव इह खलु सव्वओ सव्वयाए मुंडे भवित्ता आगाराओ अणगारियं पव्वइस्सं, सव्वाओ पाणाइवायाओ देरमणं,मुसावाय-अदिन्नादाण-मेहुण-परिग्गह-राईभोअणाओ वेरमणं, अयमाउसो! अणगार-सामइए धम्मे पण्णत्ते। एअस्स धम्मस्स सिक्खाए उवट्ठिए निग्गंथे वा निग्गंथी वा विहरमाणे आणाए आराहए भवति। अथाऽधिकृतवाचना- इह खलु इहैव मर्त्यलोके, (सव्वओ सव्वयाए ति) सर्वतः द्रव्यतो भावतश्चेत्यर्थः / सर्वात्मना सर्वान् / क्रोधादीनात्मपरिणामानाश्रित्येत्यर्थः। एते चमुण्डीभूत्वेत्यस्य विशेषणे, अनगारिता प्रव्रजितस्येत्यन्तस्य वा (अयमाउसो त्ति) अयमायुष्मन् ! (अणगारसामइए त्ति) अनगाराणां समये सामाचारे, सिद्धान्ते वा भवोऽनगारसामयिको, अनगारसामयिकं वा (सिक्खाए त्ति) शिक्षायामभ्यासे (आणाए त्ति) आज्ञाया विहरन् आराधको भवति ज्ञानादीनाम् / अथवा आज्ञाया जिनोपदेशस्याऽऽराधको भवतीति / औ० . साधुधर्ममाहखंतीय मद्दवऽज्जव, मुत्ती तवसंजमे अबोधव्वे। सचं सोयं आकिंचणं च बंभं च जइधम्मो // 14 // क्षान्तिश्च, मार्दवम्, आर्जवम्, मुक्तिः तपःसंयमौ च बोद्धव्यौ, सत्यं, शौचम्, आकिञ्चन्यं, ब्रह्मचर्यं च यतिधर्म इति गाथाक्षरार्थः // 14 // दश० नि०६अ० सापेक्षो निरपेक्षश्च, यतिधर्मो विधा मतः। सापेक्षस्तत्र शिक्षायै.गुर्वन्तेवासिताऽन्वहम्।। यतिधर्म उक्तलक्षणः मुनिसंबन्ध्यनुष्ठानविशेषः, द्विधा द्वाभ्यां प्रकाराभ्यां, मतः प्ररूपितः, जिनैरिति शेषः / द्वैविध्यमेवाह- सापेक्षो निरपेक्षश्चेति / तत्र गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां परिपालयति, स सापेक्षः। इतरस्तु निरपेक्षो यतिः, गच्छाद्यपेक्षारहित इत्यर्थः / तयोर्धर्मोऽपि क्रमेण गच्छवासलक्षणो जिनकल्पादिलक्षणश्च सापेक्षो निरपेक्षश्वोच्यते, धर्मधर्मिणोरभेदोपचारात् / तत्र तयोः सापेक्षनिरपेक्षयति-धर्मयोर्मध्यात् अयं सापेक्षयतिधर्मो भवतीति क्रियासंबन्धः / एवमग्रेऽपि योज्यम् / स च यथा शिक्षाया इत्यादि / तत्र शिक्षा अभ्यासः / सा च द्विधा - ग्रहणशिक्षाऽऽसेवनाशिक्षा चेति / तत्र ग्रहणशिक्षाप्रतिदिनसूत्रार्थग्रहणाऽभ्यासः। आसेवनाशिक्षा प्रतिदिनक्रियाऽभ्यासः। तस्यैतदर्थं, न तूदरपूाद्यर्थमिति भावः। ध० 2 अधि। अणगारमग्गगइ-स्त्री०(अनगारमार्गगति) 6 त० सम्यग्दृष्टे : तत्प्रतिबन्धपरित्यागरूपेण निर्मुक्तस्य सम्यग्दर्शनज्ञानचारित्रेषु सिद्धिगतौ च। उत्ता एषां चोत्तराध्ययनानां पञ्चत्रिंशेऽध्ययने दर्शितानि सूत्राणि सुणेह मेगम्गमणे, मग्गं बुद्धेहि देसियं / जमायरंतो भिक्खू य, दुक्खाणंतकरो भवे ||1|| शृणुत आकर्णयत, मे मम, कथयत इति शेषः। एकाग्रमनसः कोऽर्थः? अनन्यगतचित्ताः सन्तः, शिष्या इति शेषः। किं तदित्याह- मार्गमुक्तरूपं प्रक्रमान्मुक्तैर्बुद्धैरवगतयथास्थितवस्तु-तत्त्वैरुत्पन्नके वलैरहद्भिः श्रुतकेवलिभिर्गणधरादिभिर्वेत्युक्तंभवति। देशितं प्रतिपादितम्। अर्थतः सूत्रतश्च / तमेव विशेषयितुमाह (जमिति) मार्गमाचरन् आसेवमानो, भिक्षुरनगारो, दुःखानां शारीरमानसानामन्तः पर्यन्तः तत्करणशीलोऽन्तकरो, भवेत् स्यात्, सकलकर्मनिर्मूलनत इति भावः / तदनेनासेव्यासेवक- संबन्धेनाऽनगारसंबन्धिमार्ग , तत्फलं च मुक्तिगतिरिति दर्शितम् / ततश्चानगारमार्ग , तद्गतिं च शृणुत इत्यर्थः, उक्तं भवतीति सूत्रार्थः / / 1 / / यथाप्रतिज्ञातमाहगिहवासं परिचज, पव्वजामस्सिओ मुणी।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy