________________ अणगार 270 - अभिधानराजेन्द्रः - भाग 1 अणगार इह होके कुतीर्थिका यतिवेषमास्थाय एवञ्च प्रवदन्तिवयमनगाराः प्रव्रजिताः / न च तेषु गुणेषु निरवद्यानुष्ठानरूपेषु वर्तन्ते येष्वनगाराः। यथा चानगारगुणेषु न वर्तन्ते तदर्शयति- यतस्ते ऽहर्निश पृथिवीजन्तु विपत्तिकारिणो दृश्यन्ते गुदपाणिपादप्रक्षालनार्थम्, अन्यथाऽपि निर्लेपनिर्गन्धत्वं कर्तुं शक्यम्।अतश्च ते गुणकलापशून्याः, न वाड्मात्रेण युक्तिनिरपेक्षेणानगारता भवतीत्यनेन प्रयोगः सूचितः। तत्र गाथापूर्वार्धन प्रतिज्ञा, पश्चार्धन हेतुः, उत्तरगाथाऽर्धन साधर्म्यदृष्टान्तः / स चायं प्रयोगः- तीर्थका यत्यभिधानवादिनोऽपि यतिगुणेषु न वर्तन्ते, पृथिवी-हिंसाप्रवृत्तत्वात्, इह ये ये पृथिवीहिंसाप्रवृत्तास्ते ते यतिगुणेषु न वर्तन्ते, गृहस्थवत् / साम्प्रतं दृष्टान्तगर्भनिगमनमाह-(अणे- त्यादि) अनगारवादिनः, वयं यतय इति वदनशीलाः पृथिवीकाय-विहिंसकाः सन्तो निर्गुणाः, यतोऽगारिसमा गृहस्थतुल्या भवन्ति / अभ्युचयमाह-'सचेतना पृथिवी' इत्येवं ज्ञानरहितत्वेन तत्स-मारम्भवर्तिनः सदोषा अपि सन्तो वयं निर्दोषा इत्येवं मन्यमानाः स्वदोषप्रेक्षाविमुखत्यान्मलिनाः कलुषितहृदयाः, पुनश्वातिप्रगल्भतया साधुजनाश्रिताया निरवद्यानुष्ठानात्मिकाया विरतेः जुगुप्सया निन्दया मलिनतरा भवन्ति। अनया च साधुनिन्दयाऽनन्त संसारित्वं प्रदर्शितं भवतीति / आचा० नि०१ श्रु०१ अ० 2 उ० "अणगारे पासंडी, चरगेतह बंभणे चेव" इति। दश०१०अ०) "बुद्धः प्रव्रजितो मुक्तोऽनगारश्वरकस्तथा''। द्वा० 27 द्वा०। (4) क्रियाऽसंवृतोऽनगारो न सिध्यति, किन्तु संवृत इति सावतारमाहननु सत्यपि ज्ञानादेर्मोक्षहेतुत्वे दर्शन एव यति- तव्यम्, तस्यैव मोक्षहेतुत्वात् / यदाह-"भट्टेण चरित्ताओ, सुठुयरं दंसणं गहेयव्यं / सिज्झंति चरणरहिया, दंसणरहिया ण सिज्झति' |1|| इति यो मन्येत तं शिक्षयितुं प्रश्नयन्नाहअसंवुडे णं मंते ! अणगारे सिज्झति बुज्झति मुचति परिणिव्वाति सव्वदुक्खाणमंतं करेति ? गोयमा ! णो इणढे समटे / से केपट्टे णं भंते ! जाव अंतं न करेति ? गोयमा ! असंवुडे अणगारे आउयवज्जाओ सत्तकम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ पकरेइ, हस्सकालद्वितीयाओ दीहकालद्वितीयाओ पकरेइ, मंदाणुभावाओ तिव्वाणु-मावाओ पकरेइ, अप्पपदेसगाओ बहुपदेसगाओ पकरेइ। आउयं च णं कम्म सिय बंधइ, सिय नो बंधइ, असायवेयणिज्जं च णं कम्मं मुज्जो मुज्जो उवचिणइ, अणाइयं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकं तारं अणुपरियट्टति, से तेणढे णं गोयमा ! असंबुडे अणगारे णो सिज्झइ। प्रश्नसूत्रं सुगमम् / उत्तरमाहएतदपि कण्ठ्य म् / नवरं (नो इणढे समढे त्ति) नो नैव, अयमनन्तरोक्तत्वेन प्रत्यक्षोऽर्थो भावः, समर्थो बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात् / (आउयवजाओ ति) यस्मादेकत्र भवग्रहणे सकृदेव अन्तर्मुहूर्त्तमात्रकाल एव, आयुषो बन्धः, तत उक्तम् -आयुर्वर्जा इति। (सिढिलबंधणबद्धाओ ति) श्लथबन्धनं स्पृष्टता वा, बद्धता वा, निधत्तता वा, तेन बद्धा आत्मप्रदेशेषु सम्बन्धिताः, पूर्वावस्थायामशुभतरपरिणामस्य कथञ्चिदभा-वादिति शिथिलबन्धनबद्धाः। एताश्वाशुभाएव द्रष्टव्याः, असंवृतभावस्य निन्दाप्रस्तावात्। / ताः किमित्याह- (धणिय-बंधणबद्धाओ पकरेइ ति) गाढतरबन्धनबद्धावस्था वा, निधत्ता-वस्था वा,निकाचितावस्था वा प्रकरोति / प्रशब्दस्यादि कर्मार्थत्वात्कर्तुमारभ्यते, असंवृतत्यस्य शुभयोगरूपत्वेन गाढतरप्रकृतिबन्धहेतुत्वात् / आह च-'जोगा य पयडिपएसं ति पौनःपुन्यभावे त्वसंवृतत्वस्यताः करोतीत्येवेति। तथाहस्वकालस्थितिका दीर्घकालस्थितिकाः प्रकरोति, तत्र स्थितिरुपात्तस्य कर्मणोऽवस्थानं, तामल्पकालां महतीं करोतीत्यर्थः, असंवृतत्वस्य कषायरूपत्वेन स्थितिबन्धहेतुत्वात् / आह चठिइमणुभाग कसायओ कुणइ त्ति' / तथा (मंदाणु-भावेत्यादि) इहानुभावो विपाकः, रसविशेष इत्यर्थः, ततश्च मन्दानुभावाः परिपेलवरसाः सतीढरसाः प्रकरोति / असं वृत-त्वस्य कषायरूपत्वादेवानुभागबन्धस्य च कषायप्रत्ययत्वादिति / (अप्पपएसेत्यादि) अल्पं स्तोकं प्रदेशाग्रं कर्मदलिकपरिमाणं यासा तास्तथा, ताः बहुप्रदेशाग्राः प्रकरोति प्रदेशबन्धस्यापि योगप्रत्ययत्वादसंवृतत्वस्य च योगरूपत्वादिति / (आउयं चेत्यादि) आयुः, पुनः कर्म, स्यात् कदाचिद् बध्नाति, स्यान्न बध्नाति / यस्मात्त्रिभागाद्यवशेषायुषः परभवायुः प्रकुर्वन्ति, तेन यदा त्रिभागादिस्तदा बध्नाति, अन्यथा न बध्नातीति तथा / (असाए इत्यादि) असातवेदनीयं च दुःखवेदनीयं कर्म पुनर्भूयो-भूयः पुनरुपचिनोति उपचितं करोति / ननु कर्म सप्तकान्तर्वर्तित्वाद सातवेदनीयस्य पूर्वोक्तविशेषणेभ्य एव तदुपचयप्रतिपत्तेः किमेतद् ग्रहणेन ? इत्यत्रोच्यते - असंवृतोऽत्यन्तदुःखितो भवतीति प्रतिपादनेन भयजननादसंवृतत्वपरिहारार्थमिदमित्यदुष्टमिति / (अणाइयं ति) अनादिकं अविद्यमानादिकम् , अज्ञातिकं या अविद्यमानस्वजनम्, ऋणं वा अतीतम् , ऋणजन्यदुःस्थताऽतिक्रान्तदुःस्थतानिमित्ततयेति ऋणातीतम् / अणं वा अणकं पापमतिशयेनेतं गतम्-अणातीतम् (अणवयग्गं ति) 'अवयग्गं ति' देशीवचनोऽन्तवाचकस्ततस्तन्निषेधात् 'अणवयग्गं' अनन्तमित्यर्थः / अथवा अवनतमासन्नमग्रमन्तो यस्य तत्तथा, तन्निषेधादनवनताग्रमेतदेवर्णनाशादनवताग्रमिति / अथवा अनवगतमपरिच्छिन्नमग्रं परिमाणं यस्य तत्तथा। अत एव (दीहमद्धं ति) दीर्घाऽद्धं दीर्घकालं, दीर्घाध्वं वा दीर्घमार्गम् / (चाउरंत त्ति) चतुरन्तदेवादिगतिभेदात्पूर्वादिदिग्भेदाच चतुर्विभागंतदेव स्वार्थिकाणप्रत्ययोपादानाचातुरन्तम्।(संसारकंतारं ति) भवारण्यम् (अणुपरियट्टइ त्ति) पुनःपुनर्भमतीति। असंवृतस्य तावदिदं फलं, संवृतस्यतु यत्स्यात्तदाहसंवुडे णं मंते ! अणगारे सिज्झइ ? हंता सिज्झइ जाव अंतं करेइ / से केणढे णं मंते ! एवं वुचइ ? गोयमा ! संवुडे ण अणगारे आउयवज्जाओ सत्तकम्मपगडीओ धणियबंधणबद्धाओ सिदिलबंधणबद्धाओ पकरेइ, दीहकालद्वितियाओ हस्सकालद्वितियाओ पकरेइ, तिव्वाणुभावाओ मंदाणुमावाओ पकरेइ, बहुपदेसगाओ अप्पपदेसगाओ पकरेइ, आउयं च णं कम्मं न बंधइ, असायावेयणिज्नं च णं कम्मं णो मुजो मुजो उवचिणइ, अणादीयं च णं अणवदग्गं दीहमद्धं चाउरतसंसारकंतारं वीईवयइ। से तेणटेणं गोयमा ! एवं संदुडे अणगारे सिज्झइ जाव अंतं करेइ।