________________ अणगार 269- अभिधानराजेन्द्रः - भाग 1 अणगार चाऽत्यर्थनिन्दा, पुलुम्पुलप्रभूता अनवरतोद्भूता या रोगवेदना। / पाठान्तरेतीव्रखिंसनप्रलुम्पितानि च, प्रभूतरोगवेदनाश्च, परि- | भवविनिपातश्च पराभिभवसम्पर्कः / परुषधर्षणाश्व निष्ठुरवचनानि र्भत्सनानि, समापतितानि समापन्नानि बद्धानि यानि कठिनानि कर्कशोदयानि, कर्माणि ज्ञानावरणादीनि, तानि चेति द्वन्द्वः, ततः एतान्येव ये प्रस्तराः पाषाणाः, तैः कृत्वा तरङ्गः रिङ्गद्वीचिभिश्चलद्, नित्यं ध्रुवं, मृत्युभयमेव मरणभीतिरेव, तोयपृष्ठ जलोपरितनभागो यत्र स तथा ततः कर्मधारयः / अथवा अपमानफेनमिति तोयपृष्ठस्य विशेषणमतो बहुव्रीहिरेवास्तु, तम्।(कसायेत्यादि)कषाय एव पातालाः पातालकषायास्तैः संकुलो यः स तथा तम्, (भवसयसहस्सेत्यादि) भवशतसहस्राण्येव कलुषो जलानां संचयो यत्र स तथा तम्, पूर्व जननादिजन्यदुःखस्य सलिलतोक्ता, इह तु भवानां जननादिधर्मवतां जनिविशेषसमुदायतोक्तेति नपुनरुक्तत्वमिति। (पइभयं ति) व्यक्तम्, (अपरिमियेत्यादि) अपरिमिता अपरिमाणा या महेच्छा बृहदभिलाषा सा येषां ते लोकास्तेषां कलुषा मलिना या मतिः सैव वायुवेगस्तेन 'उधुम्ममाणं उधुव्वमाणवा' उत्पाट्यमानं यदुदकरज उदकरेणुसमूहः, तस्य रयो वेगस्तेनान्धकारोयः स तथा, वरफेनेनेव प्रचुराशापिपासाभिः, तत्र प्रचुरा बयः आशाः अप्राप्तार्थानां प्राप्तिसम्भावनाः, पिपासास्तु तेषामेवाकासाः, अतस्ताभिर्धवल इव धवलो यः स तथा, ततः कर्मधारयः, अतः तम्। (मोहमहावत्तेत्यादि) मोहरूपे महावर्ते भोगरूपं भ्राम्यत् मण्डलेन भ्रमद् गुप्यव्याकुलीभवत्, उच्छलत् उत्पतत्, प्रत्यवनिपतचाऽधःपततपानीयं जलं यत्र स तथा, प्रमादा मद्यादयस्त एव चण्डबहुदुष्टस्वापदाः रौद्रभूरिक्षुद्रव्या-लास्तैर्ये समाहताः प्रहता उद्धावन्तश्च उत्तिष्ठन्तो वा विविधं चेष्टमानाः, समुद्रपक्षे मत्स्यादयः, संसारपक्षे पुरुषादयः, तेषां प्राग्भारः पूरो वा समूहो यत्र स तथा, तथा घोरो यः क्रन्दितमहारवः स एव रवन् प्रतिशब्दकरणतः शब्दायमानो भैरवरवो भीमघोषो यत्र स तथा, तत्पदत्रयस्य कर्मधारयः, ततस्तम्, (अण्णाणभमंतेत्यादि)अज्ञानान्येवभ्रमन्तो मत्स्याः (परिहत्थं ति) दक्षा यत्र स तथा, अनिभृतान्यनुपशान्तानि यानीन्द्रियाणि तान्येय महामकारास्तेषां यानि त्वरितानि शीघ्राणि चरितानि चेष्टितानि तैः (खोखुब्भमाणे ति) भृशं क्षुभ्यमाणो, नृत्यन्निव नृत्यंश्च चपलानां मध्ये चञ्चलश्चा-स्थिरत्वेन, चलंश्च स्थानान्तरगमनेन, घूर्णश्च भ्राम्यन् जलसमूहो जलसंघातः, अन्यत्र जडसमूहो यत्र स तथा, ततः कर्मधारयः, ततस्तम् ।(अरति-भयेत्यादि) अरतिभयविषादशोकमिथ्यात्वानि प्रतीतानि, तान्येव शैलास्तैः संकटो यः स तथा, तम् / (अणाइसंताणेत्यादि) अनादिसन्तानमनादिप्रयाहं यत्कर्मबन्धनं तय, क्लेशाश्च रागादयस्तल्लक्षणं यचिक्खिल्लं कर्दमस्तेन सुष्ठ दुस्तारो यः स तथा, तम्। (अमरासुरेत्यादि) अमरासुरतिर्यड्निरय-गतिषु यद्गमनं तदेव कुटिलपरिवर्तावर्तपरिवर्तना विपुला च विस्तीर्णा वेला जलवृद्धिलक्षणा यत्र स तथा, तम् , (चउरंतमहंत त्ति) चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं च महायामम्, (अणवदग्गं ति) अनवदग्रमनन्तमित्यर्थः, विस्तीर्ण संसारसागरमिति व्यक्तम् / (भीमदरिसणिज्जं ति) भीमो दृश्यत इति भीमदर्शनीयस्तं, तरन्ति लद्धयन्ति संयमपोतेनेति योगः। किम्भूतेन (धीईधणिअणिप्पकंपेण त्ति) धृतिरज्जुबन्धनेन, धनिकमत्यर्थ , निष्प्रकम्पोऽविचलो यः सः, मध्यमपदलोपाद् धृतिधनिकनिष्प्रकम्पस्तेन, त्वरितं, चपल मतित्वरितं यथा भवतीत्येवं तरन्ति / (संवरवरग्गेत्यादि) संवरः प्राणातिपातादिविरतिरूपः, वैराग्यं कषायनिग्रहः, एतल्लक्षणो यस्तुङ्ग उच्चः कूपकस्तम्भविशेषस्तेन, सुष्ठु संप्रयुक्तो यः स तथा, तेन (णाणेत्यादि) ज्ञानमेव सितः सितपटः स विमल उच्छितो यत्र स तथा तेन, णकार श्वेह प्राकृतशैलीप्रभवः। (सम्मत्तेत्यादि) सम्यक्त्यरूपो विशुद्धो निर्दोषो लब्धोऽवाप्तो निर्यामकः कर्णधारो यत्र स तथा, तेन, धीराः अक्षोभाः, संयमपोतेन शीलकलिता इति च प्रतीतम् / (पसत्थेत्यादि) प्रशस्तं ध्यानं धर्मादितद्रूपं यत्तपः स एव यातो वायुस्तेन यत् प्रणोदितं प्रेरणं तेन प्रधावितो वेगेन चलितो यः स तथा, तेन, संयमपोतेनेति प्रकृतम् / (उज्जमववसाये-त्यादि)उद्यम अनालस्यं, व्यवसायो वस्तुनिर्णयः,सद्व्यापारोवा, ताभ्यां भूलकल्पाभ्यां यद् गृहीतं क्रीतं निर्जरणयतनोपयोगज्ञान-दर्शनविशुद्धव्रतरूपं भाण्डक्रयाणकं तस्य भरितः संयमपोतभरणेन पिण्डितः सारो यैस्ते तथा, श्रमणवरसार्थवाहा इति योगः / तत्र निर्जरणं तपः, यतना बहुदोषत्यागेनाल्पदोषाश्रयणम् , उपयोगः सावधानता, ज्ञानदर्शनाभ्यां विशुद्धानि व्रतानि, अथवा ज्ञानदर्शने च विशुद्धव्रतानि चेति समासः। व्रतानि च महाव्रतानि / पाठान्तरे (णाणदंसणेत्यादि)तत्र ज्ञानदर्शनचारित्राण्येव विशुद्ध-वरभाण्ड, तेन भरितः सारो यैस्ते तथा। (जिणवरेत्यादि) व्यक्तम्।(सुसुइ इत्यादि) सुश्रुतयः सम्यक्श्रुतग्रन्थाः, सत्सिद्धान्ता या, सुशुचयोवा,सुखः सम्भाषो येषां, सुखेनवा सम्भाष्यन्त इति सुसम्भाषाः, शोभनाः प्रश्नाः, सुखेन वा प्रश्नयन्ते ये ते सुप्रथाः, शोभनाआशाः वाञ्छा येषां तेस्वाशाः। अथवा सुखेन प्रश्नयन्ते शास्यन्ते च शिक्ष्यन्ते ये ते सुप्रश्नशास्याः, शोभनानि वा प्रश्नशस्यानि पृच्छाधान्यानि येषां ते तथा, अथवा सुप्रश्नाः शस्याश्च प्रशंसनीयाः, ततः कर्मधारय इति / (दूइञ्जय ति) द्रवन्तो वसन्तः, अनेकार्थत्वाद्धातूनाम् / (णिब्भय त्ति) भयमोहनी- योदयनिषेधात् / (गयभय त्ति) उदयविफलताकारणात् / (संजय त्ति) संयमवन्तः। कुत्त इत्याह-(विरय ति) यतो निवृत्ताः हिंसादिभ्यः, तपसि वा विशेषेण रता विरताः 'विरया' वा निरौत्सुक्याः विरजसोवा अपापाः / 'संचयाओ विरय त्ति' क्वचिद् दृश्यते, तत्रसन्निधेर्निवृत्ता इत्यर्थः। (मुत्त त्ति) मुक्ताः ग्रन्थेन, (लहुअत्ति) लघुका अल्पोपधित्वात् , (णिरवकंखं ति) अप्राप्तार्थाकासावियुक्ताः (साहू) मोक्षसाधनात् , (णिहुआ) निभृताः प्रशान्तवृत्तयः, चरन्ति / (धम्मं ति) व्यक्तम् / अत्र साधुवर्णक जितेन्द्रियत्वादीनि विशेषणानि बहुशोऽधीतानि, तानि च गमान्तरतया निरवद्यानि, यत्पुनरत्रैव गमे पुनरुक्तमवभासते, तत् स्तवत्वान्न दुष्टम्। यदाह-सज्झायज्झाणतवओसहेसु उवएसथुइपणामेसु / संतगुणकित्तणासुंय, न हुंति पुनरुत्तदोसाओ।॥१॥औला "तिहिं ठाणेहिं संपन्ने अणगारे अणाईयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं विईवएला / तं जहा-अणिदाणयाए दिद्विसंपन्नयाए जोगवाहियाए"। स्था०३ ठा०। (सर्वेषां पदानां व्याख्या स्वस्वस्थाने द्रष्टव्या) (3) पृथिवीकायिकादिहिंसकानामनगारत्वं न भवतिपवयंति य अणगारा, ण य तेसिं गुणेहि जेहि अणगारा। पुढविं विहिंसमाणा, न होंति वायाइ अणगारा // // अणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा। निहोस त्तिय मइला, विरइ दुगुंछाइ मइलतरा / / 10 / / आचा०नि०।