SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ अणंतजीव 264- अभिधानराजेन्द्रः - भाग 1 अणंतजीव कायस्तीर्थकरगणधरैर्भणितः / स एव किसलयरूपः अनन्त-कायिकः प्रवृद्धि गच्छन् अनन्तो वा भवति परीत्तो था / कथम् ? उच्यते-यदि साधारणं शरीरं निर्वर्त्यते तदसाधारण एव भवति, अथ प्रत्येकशरीर ततः प्रत्येक इति / कियत् कालादूचं प्रत्येको भवति इति चेदुच्यतेअन्तर्मुहूर्ताः / तथाहि- निगोदानामुत्कर्षतोऽप्यन्तर्मुहूर्त कालं यावत् स्थितिरुक्ता, ततोऽन्तर्मुहूर्तात्परतो विवर्त्तमानः प्रत्येको भवतीति / प्रज्ञा०१पद। निगोदादिशब्दैः सहाऽस्य सविषयत्वादनन्तजीवस्य च अनन्तजन्तुसन्ताननिपातननिमित्तत्वाद्भक्षणं वर्ण्यम्। यतः - नृभ्यो नैरयिकाः सुराश्च निखिलाः पञ्चाक्षतिर्यग्गणो, व्यक्षाद्या ज्वलनो यथोत्तरममी संख्यातिगा भाषिताः / तेभ्यो भूजलवायवः समधिकाः प्रोक्ता यथाऽनुक्रम,सर्वेभ्यः शिवगा अनन्तगुणितास्तेभ्योऽप्यनन्ता नगाः / / 1 / / शादूलविक्रीडितम् / तानि आर्यदेशप्रसिद्धानि द्वात्रिंशत् / तदाहुःसव्वा य कंदजाई, सूरणकंदो अवजकंदो अ। अल्ल हलिद्दा य तहा, अल्लं तह अल्लकचूरो॥१॥ सत्तावरी विराली, कुँआरितह थोहरी गलोई अ। लसुणं वंसकरिल्ला, गजर लूणो अतह लोढा / / 2 / / गिरिकण्णि किसलिपत्ता, खरिंसुआ थेग अल्ल मुत्था य। तह लूणरुक्खछल्ली, खिल्लहडो अमयवल्ली य // 3 // मूला तह भूमिरुहा, विरुहा तह ढकवत्थुलो पढमो। सूअरवल्लो अतहा, पल्लंको कोमलंबिलिआ॥४॥ आलू तह पिंडालू, हवंति एए अणंतनामेणं। अन्नमणतं नेअं, लक्खणजुत्तीइ समयाओ ||5|| सर्वैव कन्दजातिरनन्तकायिका इति सम्बन्धः। कन्दो नाम भूमध्यगो वृक्षावयवः / ते चाऽत्र कन्दा अशुष्का एव ग्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न सम्भवति। श्रीहेमसूरिरप्येवमेव 'आर्द्रः कन्दः समग्रोऽपि, आद्रोऽशुष्कः कन्दः / शुष्कस्य तु निर्जीवत्वादनन्तकायित्वंन सम्भवति' इति योग-शास्त्रसूत्र-वृत्त्योराह / अथ तानेव कांश्चित्कन्दान् व्याप्रियमाण-त्वान्नामत आहसूरणकन्दोऽर्शीघ्रः कन्दविशेषः 1, वज्रकन्दोऽपिकन्दविशेष एव२,आर्द्रा अशुष्का, हरिद्रा प्रतीतैव 3, आर्द्रकं शृङ्गबेरम् 4, आर्द्रकचूरस्तिक्तद्रव्यविशेषः प्रतीत एव 5, शतावरी 6, वरालिके 7, वल्लीभेदौ / कुमारी मांसलप्रणालाकारपत्रा प्रती तैव 6, थोहरी स्नुहीतरुः 6, गुडूची वल्लीविशेषः प्रतीत एव 10, लशुनं कन्दविशेषः 11, वंशकरिल्लानि कोमलातिनववंशा-वयवविशेषाः प्रसिद्धा एव 12, गर्जरकाणि सर्वजनविदितान्येव 13, लवणको वनस्पतिविशेषः, येन दग्धेन सर्जिका निष्पद्यते 14, लोढकः पद्मिनीकन्दः 15, गिरिकर्णिका वल्लीविशेषः १६,किशलयरूपाणि पत्राणि प्रौढपत्रादकि बीजस्योच्छूनावस्थालक्षणानि सर्वाण्यप्यनन्तकायिकानि, न तु कानिचिदेव 17, खरिंशुकाः कन्दभेदाः 18, थेगोऽपि कन्दविशेष एव 16, आर्द्रा मुस्ता प्रतीता 20, लवणापरपर्यायस्य भ्रमरनाम्नो वृक्षस्य छल्लिस्त्वक, न त्वन्येऽवयवाः 21, खिल्लहडोलोकप्रसिद्धः कन्दः२२, अमृतवल्ली वल्लीविशेषः 23, मूलको लोकप्रतीतः 24, भूमीरुहाणि छत्राकाराणि वर्षाकालभवानि भूमीस्फोटकानीति प्रसिद्धानि 25, 1 विरूढान्यकुरितानि द्विदलधान्यानि 26, ढङ्कवास्तुलः शाकविशेषः, सच प्रथमोद्गत एवानन्तकायिको, नतु छिन्नप्ररूढः 27, शूकरसंज्ञको वल्लः, स एवानन्तकायिको न तु धान्यवल्लः 28, पल्ल्यङ्कः शाकभेदः 26, कोमलाम्लिका अबद्धास्थिका चिञ्चिणिका 30, आलुक 31, पिण्डालुकौ 32, कन्दभेदौ / एते पूर्वोक्ताः पदार्था द्वात्रिंशत्संख्याका अनन्तकायनामभिर्भवन्तीत्यर्थः / न चैतावन्त्येवानन्तकायिकानि किन्त्वन्येऽपि। तथाऽऽह-'अन्यदपि' पूर्वोक्तातिरिक्तमनन्तकायिकम् , लक्षणयुक्त्या वक्ष्यमाणलक्षणविचारणया, समयात् सिद्धान्ततः ज्ञेयम्। तान्येवाऽनन्तकायानि यथाघोसकरीरंकुर तिंडुयं अइकोमलंबगाईणि / वरुणवडनिंबयाईण अंकुराइं अणंताई॥१॥ घोषातकीकरीरयोरङ्कुराः,तथाऽतिकोमलान्यबद्धास्थिकानि तिन्दुकामफ्लादीनि, तथा वरुणवटनिम्बादीनामकुरा अनन्तकायिकाः / अनन्तकायलक्षणं चेदम् - "गूढसिरसंधिपव्वं, समभंगमहिरुहं च छिन्नरुहं / साहारणं सरीरं, तव्विवरीअंच पत्तेअं" ||1|| एवं लक्षणयुक्ता अन्येऽपि अनन्तकायाः स्युः,ते हेयाः / यतश्च- चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् / परस्त्रीसंगमश्चैव, संधानानन्तकायिके / / 1 / / उक्तमनन्तकायिकम् / ध०२ अधिक। (अनन्तकायिकस्यादाने प्रायश्चित्तं 'पलंब' शब्दे प्रदर्शयिष्यते)। अह भंते ! आलुए मूलए सिंगबेरे हरिली सिरिली सिसिरली किट्टिया निरिया छीरविरालिया कण्हकंदे वज्जकंदे सूरणकंदे खेल्लूडे अद्दमुत्था पिंडहलिद्दा लोहाणि हूथिहूविभागा अस्सकण्णी सीहकण्णी सादंडी मुसुंडी जे याऽवण्णे तहप्पगारा सव्वे ते अणंतजीवा विविहसत्ता ? हता गोयमा ! आलुए मूलए० जाव अणंतजीया विविहसत्ता / भ० ७श०२ उ०प्रज्ञा०। जे भिक्खु अणंतकायसंमिस्सं जुत्तं आहारं आहारेइ,आहारतं वा साइजई॥५॥ जे भिक्खू अणंतिकातो मूलकंदो अल्लगफडादि वा एवमादि संमिस्सं जो जति, तस्स चउगुरु। जे भिक्खू असणादी, मुंजेज्ज अणंतकायसंजुत्तं / सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 53|| आणादिया दोसा हवंति, इमे दोसातं कायपरिव्वयओ, तेण य वत्तेण समं वयति। अतिखद्धं अणुचित्ते,ण य विसूतिकादीणि आयाए॥५४|| इमा आयविराहणा- ते ण रसालेण अतिखखेण अणुत्तेण य विसूतिकादी भवे मरेज वा अजीरंतो वा अण्णतरो रोगातंको भवेज, एवं आयविराहणा, जम्हा एते दोसा, तम्हा ण भोतव्यं, कारणे तु भुंजेजा। असिवे ओमोयरिए, रायडुढे भए च गेलण्णे। अद्धाण रोहए वा, जयणा इमा तत्थ कायव्वा / / 5 / / पूर्ववत् इमे वक्खमाणजयणाओमं तिमागमड्डे,तिभाग आयंबिले चउत्थादी। निम्मिस्से मिस्सेया, परित्तणं ते य जा जतणा // 56 // जह णव सुत्ते वक्खमाणो, जहा वा पेढे भणिया तहा वत्तव्वा /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy