________________ अणंतजीव 263 - अभिधानराजेन्द्रः - भाग 1 अणंतजीव भवति, सा अनन्तजीवा ज्ञातव्या ।(जा याऽवण्णा तहा० इति) याऽपि चाऽन्या, अधिकृतया अनन्तजीवत्वेन निश्चितया समानरूपा छल्ली, साऽपि तथाविधा अनन्तजीवात्मका, ज्ञातव्या / एवं कन्दस्कन्धशाखाविषया अपि तिस्रो गाथाः परिभावनीयाः। प्रज्ञा०१ पद / यदुक्तं 'जस्स भूलस्स भग्गस्स समो भंगोयदीसई' इत्यादि तदेव लक्षणं स्पष्ट प्रतिपिपादयिषुरिदमाहचक्कागं मञ्जमाणस्स, गंठी चुण्णघणो भवे / पुढवीसरिसमेदेण, अणंतजीवं वियाणाहि||१|| चक्रकं चक्राकारमेकान्तेन समं भङ्गस्थानं यस्य भज्यमानस्य मूलकन्दस्कन्धत्वक्शाखापत्रपुष्पादेर्भवति, तन्मूलादिकम-नन्तजीवं. विजानीहि इति सम्बन्धः / तथा 'गंठीचुण्णघणो भवे' इति। ग्रन्थिः पर्व सामान्यतो भङ्गस्थान वा स यस्यभज्यमानस्य चूर्णेन रजसा धनो व्याप्तो भवति, अथवा यस्य पत्रादेर्भज्यमानस्य चक्राकार भङ्गरजसा ग्रन्थिस्थाने व्याप्तिं च विना पृथिवीसदृशेन भेदेन भङ्गस्थानं भवति, सूर्यकरनिकरप्रतप्तकेदारतरिका-प्रतरखण्डस्येव समो भङ्गो भवतीति भावः, तमनन्तकायं विजानीहि // 1 // पुनरपिलक्षणान्तरमाहगूढसिरागं पत्तं, सच्छीरं जं च होइ निच्छीरं। जंपिय पणट्ठसंधिं, अणंतजीवं वियाणाहि ||2|| यत्पत्रं सक्षीरं निःक्षीरं वा गूढसिराकमलक्ष्यमाणशिराविशेष,यदपिच प्रणष्टसन्धिः सर्वथाऽनुपलक्ष्यमाणपत्रार्द्धद्वयसन्धिः, तदनन्तजीवं विजानीहि // 2 // सम्प्रति पुष्पादिगतं विशेषमभिधित्सुराहपुप्फा जलया थलया, विंटबद्धाय णालिबद्धाय। संखिज्जमसंखेज्जा, बोधव्वा णंतजीवा य॥३॥ पुष्पाणि चतुर्विधानि, तद्यथा-जलजानिसहस्रपत्रादीनि, स्थलजानि / कोरण्टकादीनि, एतान्यपि च प्रत्येकं द्विधा / तद्यथा-कानिचिद् वृन्तबद्धानि-अतिमुक्तकप्रभृतीनि, कानिचिन्नाल-बद्धानि जातिपुष्पप्रभूतीनि, अत्रैतेषां मध्ये कानिचित्पत्रादिगत-जीवापेक्षया सङ्ग्येयजीवानि, कतिचिदसञ्येयजीवानि, कानिचिदनन्तजीवानि यथागमं बोधव्यानि // 3 // अत्रैवकिञ्चिद्विशेषमाह - जे केइ नालिया बद्धा, पुप्फा संखेज्जजीविया। णिहुया अणंतजीवा, जे याऽवण्णे तहाविहा॥४॥ पउमुप्पलिणी कंदे, अंतरकंदे तहेव झिल्ली य। एते अणंतजीवा,एगो जीवो मिस मुणाले // 5 // यानि कानिचिद् नालिकाबद्धानि पुष्पाणि जात्यादिगतानि तानि सर्वाण्यपि सङ्ख्यातजीवकानि भणितानि तीर्थंकरगणधरैः / स्निहू स्निहूपुष्पं पुनरनन्तजीवम्, यान्यपि चाऽन्यानि स्निहूपुष्पकल्पानि तान्यपि तथाविधानि अनन्तजीवात्मकानि ज्ञातव्यानि / (पउमुप्पलिनी कंदेत्यादि) पद्मिनीकन्द, उत्पलिनीकन्दः, अन्तरकन्दो जलजवनस्पतिविशेषः कन्दः, झिल्लिका वनस्पतिविशेषरूपा, एते सर्वेऽप्यनन्तजीवाः, नवरं पद्मिन्यादीनां विशे, मृणाले च, एकजीवात्मके विशमृणाले इति भावः / / 5 / / प्रज्ञा०१ पद। सप्फाए सज्झाए, उव्वेहलिया य कुहणकुंदुक्के / एए अणंतजीवा, कुंदुक्के होइ भयणाओ॥१३॥ एते कु हनादिवनस्पतिविशेषा लोकतः प्रत्येतव्याः / एते च अनन्तजीवात्मकाः,नवरं कन्दुक्के भजना,स हि कोऽपि देशविशेषादनन्तोऽनन्तजीवो भवति, कोऽप्यसंख्येयजीवात्मक इति // 13 // किं बीजजीव एव मूलादिजीवो भवति, उतान्यस्तस्मिन्नपक्रान्ते उत्पद्यते इति परप्रश्नमाशयाहजोणिभूए बीए, जीवो वक्कमइ सो व अण्णो वा। जो वि अमूले जीवो, सो विहुपत्ते पढमयाए॥१४॥ बीजे योनिभूते योन्यवस्था प्राप्ते, योनिपरिणाममुज्जहतीति भावः / बीजस्य हि द्विविधाऽवस्था / तद्यथा-योन्यवस्था, अयोन्यवस्था च। तत्र यदा बीजं योन्यवस्थानं जहाति, अथ चोज्झितं जन्तुना, तदा तत् योनिभूतमित्यभिधीयते। उज्झितं च जन्तुना निश्चयतो नाऽवगन्तुं शक्यते, ततोऽनतिशायिनासम्प्रति सचेतनमचेतनंवा अविध्वस्तयोनि योनिभूतमिति व्यवह्रियते / विध्वस्तयोनि तु नियमादचेतनत्यादयोनिभूतमिति / अथ यो निरिति किमभिधीयते ? उच्यते जन्तोरुत्पत्तिस्थानमविध्वस्तशक्तिकं तत्रस्थजीवपरिणमनशक्तिसम्पन्नमिति भावः। तस्मिन्बीजे योनिभूते जीवो व्युत्क्रामति उत्पद्यते, स एव पूर्वको बीजजीवोऽन्यो वा आगत्य तत्रोत्पद्यते। किमुक्तं भवति? तदा बीजनिवर्त्तकेनजीवेन स्वायुषः क्षयाद्बीजपरित्यागः कृतो भवति / तस्य च बीजस्य पुनरम्बुकालाऽवनिसंयोगरूपसामग्रीसम्भवस्तदा कदाचित् स एव प्राक्तनो बीजजीवो मूलादिनामगोत्रं निबद्ध्य तत्रागत्य परिणमति, कदाचिदन्यः पृथिवीकायिकादिजीवः। 'योऽपि च मूले जीव इति' य एव मूलतया परिणमते जीवः, सोऽपि पत्रे प्रथमतयेति' स एव प्रथमपत्रतयाऽपि च परिणमते, इत्येकजीवकर्तृके मूलप्रथमपत्रे इति। आह-यद्येवं "सव्यो वि किसलओखलु, उगममाणो अणंतओ भणिओ" इत्यादि वक्ष्यमाणं कथं न विरुध्यते? उच्यते- इह बीजजीवोऽन्यो वा बीजमूलत्येनोत्पद्य तदुच्छूनावस्थां करोति, ततस्तदनन्तरं भाविनी किसलयावस्थां नियमतोऽनन्ता जीवाः कुर्वन्ति / पुनश्च तेषु स्थितिक्षयात्परिणतेषु असावेव मूलजीवोऽनन्तजीवतर्नु स्वशरीरतया परिणमय्य तावद्वर्द्धते यावत् प्रथमपत्रमिति न विरोधः / अन्ये तु व्याचक्षते-प्रथमपत्रमिह याऽसौ बीजस्य संमूर्च्छ-नावस्था, तेन एकजीवकर्तृक मूलप्रथमपत्रे इति। किमुक्तं भवति? मूलसमुच्छूनावस्थे एकजीवकर्तृके,एतच्च नियमप्रदर्शनार्थ- मुक्तम् / मूलसमुच्छूनावस्थे एकजीवपरिणमिते एव / शेषं तु किसलयादिनाऽवश्यं मूलजीवपरिणामाविर्भावितमिति / ततः 'सव्यो वि किसलओ खलु, उग्गममाणो अणंतओ भणिओ' इत्यादि वक्ष्यमाणमविरुद्धम् / मूलसमुच्छूनावस्थानिर्वर्तना-ऽरम्भकाले किसलयत्वाभावादिति। आह-प्रत्येकशरीरे वनस्पतिकायिकानां सर्वकालशरीरावस्थामधिकृत्य किं प्रत्येक शरीरत्वमुत कस्मिश्चिदवस्थाविशेषेऽनन्तजीवत्वमपि सम्भवति? तथा साधारणवनस्पतिकायिकानामपि किं सर्वकालमनन्तजीवत्वमुत कदाचित्प्रत्येकशरीरत्वमपि भवति? ततआहसव्वो विकिसलओ खलु, उम्गममाणो अणंतओ मणिओ। सो चेव विवळतो, होइपरीतो अणंतो वा // 15 // इह सर्वशब्दः परिशेषवाची। सर्वोऽपि वनस्पतिकायः प्रत्येकशरीरः साधारण एव किसलयावस्थामुपगतः सन् अनन्त