________________ अडण 257 - अभियानराजेन्द्रः - भाग 1 अडविजम्मण अडण-न०(अटन) चरणे,गमने च। स्था०६ठा० आ०म०। धा अडणी-(देशी)मार्गे, दे० ना०१वर्ग। अडपल्लाण-नं०(देशी)लाटेषु स्वनामप्रसिद्धेऽन्यत्र थिल्लिरिति ख्याते वाहनभेदे, जी०३ प्रतिक अडमाण-त्रि०(अटत्) गच्छति, "अणाउलो संयच्छरखमणंसि अडमाणे"। आ०म०प्र० अडया-(देशी) असत्याम्, दे०ना०१ वर्ग। अडयणा-(देशी)असत्याम्, दे० ना०१ वर्ग। अडयाल-त्रि० [अष्ट (ष्टा) चत्वारिंशत्] अष्ट चचत्वारिंशच, अष्टाधिका या चत्वारिंशत्। (अडतालिस) ट्यूनपञ्चाशति, आव० अडयाल-(देशी) प्रशंसायाम्, प्रज्ञा०२पद। जं०। स० जी०। प्रव०। अडयालकयवणमाल-त्रि०[अष्ट(ष्टा)चत्वारि शत्कृतवनमाल ] अष्टचत्वारिंशद्भेदभिन्ना विच्छित्तयः कृता वनमाला येषु तानि अष्टचत्वारिंशत्-कृतवनमालानि। अष्टचत्वारिंशद्विध-विच्छेदवद्वनमालायुतेषु, जी०३ प्रति अडयालकृतवनमाल-(देशी) अडयाल' शब्दो देशीवचनत्वात् प्रशंसावाचीत्यनुपदमेव निरूपितम् / तेन कृता वनमाला येषु तानि / प्रशस्तकृतवनमालेषु, जी०३ प्रति०। प्रज्ञा०। अडयालकोटगरइय-त्रि०(अष्ट चत्वारिंशत्कोष्ठक रचित) अष्टचत्वारिंशभेदभिन्नविच्छित्तिकलिताः कोष्ठका अपवरका रचिताः स्वयमेव रचना प्राप्ता येषु तानि अष्टचत्वारिंशत्- कोष्ठकरचितानि / सुखादिगणे दर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः / "अडयाल" शब्दो देशीवचनत्वात्प्रशंसावाचीवा। प्रज्ञा०२पदा अष्टचत्वारिंश - दभिन्नविचित्रच्छन्दोगोपुर-रचितेषु, अडयाल कोहरइ या अडयालकयवणमाला। स० ज० जी०॥ अडवि-स्त्री०[अटवि(वी)] अटन्ति मृगयाद्यर्थिनो यत्र / अट्-अवि, वा डीप्। कान्तारे, स्था०५ ठा०२ उ० अरण्ये, तं०॥ तद्भेदाः सव्याख्याकाः"अडविंसपव्यवायं, वोलेउदेसिओवएसेणं। पाविति जहिष्ठपुरं, भवाडविं पी तहा जीवा / / 1 / / पाविति निव्बुइपुरं, जिणोवइट्वेण चेव मग्गेणं / अडवीई दिसिअतं, एवं नेअंजिणिंदाणं' ||2| इहाटवी द्विधाद्रव्याटवी, भावाटवी च। तयोः कथाइहास्ति हास्तिकावीय रथपादातिसंकुलम्। वसन्तपुरमुर्वीस्थमप्यधःकारियहिवः / / 1 / / सार्थवाहो धनस्तत्र, गन्तुं देशान्तरं प्रति। प्रस्थितः कारयामास, घोषणां पुरि सर्वतः / / 2 / / यः कोऽप्यस्ति यियासुःस, सर्वोऽप्येतु मया सह। मिलितानां च सर्वेषामाख्यन्मार्गगुणागुणान् // 3 // तत्रैकः सरलोऽध्वाऽन्यो, वक्रश्चेत्तेन गम्यते। मनाक् सुखेन किं त्विष्टपुरावाप्तिश्चिराद्धयेत्॥४॥ सःपुनः सरलः पन्था, अन्ते मिलति सोऽपिच। गम्यते सत्वरं तेन, कष्टेन महता परम् // 5 // तत्रादितोऽपि मार्गे स्तः, सिंहव्याघ्रौ विभीषणौ। भीतानां त्यक्तमार्गाणां, तावनाय नान्यथा / / 6 / / इष्टपूर्दर्शनं यावत्, तावत्तौ चानुधावतः। तत्रैके तरवः सन्ति, पत्रपुष्पफलाद्भुताः॥७॥ तच्छायास्वपि विश्रान्ति कार्या मृत्यवे हिताः। ये जीर्णशीर्णपर्णाढ्याः , स्थेयमीषत्तदाश्रये // 8|| मनोज्ञरूपलावण्या, मनोहरगिरो नराः। भूयांसो मार्गपार्श्वस्थास्तत्राऽऽहयन्ति वत्सलाः || श्रव्यं न तद्वचो मोच्या, न मच्छिक्षा कदाचन। दावाग्निः प्रज्वलन् मार्ग, विध्याप्यः सततोद्यतैः॥१०॥ अविध्यातःपुनः सर्वे, नियमान्निर्दहत्यसौ। अग्रेऽतिदुर्गःशैलोऽस्ति, सोपयोगैः स लध्यते॥११॥ अन्यथा लङ्घनेतु स्यात्, स्खलनाद्यैर्मतिः क्वचित्। पुरस्तादस्ति गुपिलगहरा वंशजालिका // 12 // सा विलच्या झगित्येव, तत्रस्थानां महापदः / अल्पीयानस्ति गतॊ ऽग्रे, सर्वदा तत्समीपगः // 13 // द्विजो मनोरथाभिख्यो, वक्त्येनं पूरयेति सः। वचस्तस्यावमन्तव्यं, पूर्यः स्तोकोऽपिनैव सः॥१४॥ वर्द्धत पूर्यमाणःस, खनित्रैः खन्यमानवत्। तथा पञ्चप्रकाराणि, स्निग्धमुग्धानि वर्णतः / / 15 / / न प्रेक्ष्याणि न भक्ष्याणि, किंपाकानां फलानि च / द्वाविंशतिः करालास्तु, वेताला विद्रवन्ति च // 16 / / नगण्यास्ते तथासारा, आहारास्तत्र दुर्लभाः। द्रौ यामौ निश्यपि स्वापः, सर्वदाऽपि प्रयाणकम् // 17 // गच्छद्भिरेवमश्रान्तमटवीलच्यते लघु। प्राप्यते पुरमिष्टं च, तत्र चाऽऽसाद्यते सुखम् // 18|| तत्र केचित् समं तेन, प्रवृत्ताः सरलाध्वना। इतरेण पुनः केचित्, स प्रशस्तेऽह्नि निर्ययौ !|16|| पृष्ठानुगामिलोकानां, शिलादौ वर्ल्स वेदितुम्। गतागताध्वमानं च, लिखन् वर्णान् जगाम सः / / 20 / / तन्निर्देशकृतो येऽत्र, लिखितानुसृताश्च ये। ते सर्वेऽपि सनं तेन, संप्राप्ताः पुरमीप्सितम्॥२१॥ निषिद्धकारिणो ये च, याता यास्यन्ति या न ते। जिनेन्द्रः सार्थवाहोऽत्र, घोषणा धर्मदेशना // 22 // पान्थाः संसारिणो जीवा, भवो भावाटवी पुनः। ऋजुमार्गः साधुधर्मो, गृहिधर्मस्ततोऽपरः। सिंहव्याघ्रौ रागद्वेषौ, वासनार्थानुगामिनौ / / 23 / / वसत्यः स्त्र्यादिसंसक्ताः , सद्वृक्षच्छायया समाः। जरवृक्षोपमानास्तु, निरवद्याः प्रतिश्रयाः॥२४|| पार्श्वस्थाद्याः पुनः पार्श्वस्थाहातृपुरुषोपमाः। ज्वलद्दावानलः क्रोधो, मानो दुर्गमहीधरः ||25|| वंशजालिः पुनर्माया, लोभो गर्तस्तु दुर्भरः। फलप्रायाश्च विषया, वेतालास्तु परीषहाः॥२६।। दुर्लभं चैषणीयाऽन्नं, ध्यानं द्वौ प्रहरौ निशि। प्रयाणे तूद्यमो नित्यं, मोक्षश्चेप्सितपत्तनम् // 27|| शिलादौ वर्णलिखनं, सिद्धान्तग्रन्थनिर्मितिः। पश्चादाविमुनीन्द्राणां, गतगम्याध्वसंविदे॥२८॥ इष्टपूःप्राप्तिसाहाय्यान्नम्यते सार्थपो यथा। एवं मोक्षपुरावाप्त्युपकारी नम्यते जिनः ||26|| आ० का अडविजम्मण-न०(अटविजन्मन्) कान्तारजन्मलक्षणे दुःखे, प्रश्न० १आश्र० द्वा०