________________ अट्ठावय 254 - अभिधानराजेन्द्रः-भाग 1 अट्ठिग न स्थितानि? यतस्तत्राऽसंख्याता उद्धारा जाताः श्रूयन्ते, तेना-ऽष्टापदे कस्य सांनिध्यं, शत्रुञ्जये च कस्य न ? यदेतावान् भेद इति व्यक्त्या प्रसाद्यामिति। उत्तरम्- अष्टापदपर्वते भरत-चक्रवर्तिकारितप्रासादादीनां स्थानस्य निरपायत्वाद, देवादि-सान्निध्यात् च "केवइयं पुण कालं आययणं अवसिज्झिस्सइ? ततो तेण अमच्चेण भणिअं-जाव इमाओ ओसप्पिणि त्ति मे के वलिजिणाण अंतिए सुयं'' इत्यादि वसुदेवहिण्ड्यक्षर-सद्भावाच्चाद्ययावदवस्थानं युक्तिमदेव। शत्रुञ्जये तु स्थानस्य सापायत्वात्, तथाविधदेवादिसान्निध्याऽभावाच, भरतकारितप्रासादादीनामद्ययावदवस्थानाऽभाव इति संभाव्यते / तत्त्वं तु तत्त्वविद्वेद्यमिति / ही०४ प्रका० किञ्च- अष्टापदपर्वते प्रतिमाप्रतिष्ठा केन कृता ? कुत्र वा सा कथिताऽस्तीति? विष्णु-ऋषिगणिप्रश्नः / तदुत्तरम्- अत्र अष्टापदपर्वते प्रतिमाप्रतिष्ठा श्रीऋषभदेवशिष्येण कृतेति श्रीशत्रुञ्जयमाहात्म्यमध्ये कथित-मस्तीति / ही०। अष्टापदगिरौ स्वकीयलब्ध्या ये जिनप्रतिमां वन्दन्ते, ते तद्भवसिद्धिगामिन इत्यक्षराणि सन्ति, तथा च सन्ति ये विद्याधरयमिनस्तथा राक्षसवानरचारणभेदभिन्ना अनेके ये तपस्विनस्तत्र गन्तुं शक्तास्तेषां सर्वेषामपि तद्भवसिद्धि-गामित्वमापद्यते, ततः सा का लब्धि ? यया तत्र गम्यते, तथा गौतमादिवत्तद्भवसिद्धिगामिनो भवन्तीति / तथाऽष्टापदगिरौ ये तपःसंयमोत्थलब्ध्या यात्रां कुर्वन्तितेतद्भवसिद्धिगामिन इति संभाव्यते, व्यक्ताऽक्षराऽनुपलम्भात्। ही०१ प्रका०। अट्ठावयवाइ(ण)-पुं०(अष्टापदवादिन्) इन्द्रभूतिना सह वीर जिनसमीपं समागते विप्रभेदे, कल्प०/ अट्ठावीस-स्त्री०(अष्टाविंशति) अष्टाऽधिका विंशतिः / अष्ट च विंशतिश्चाऽष्टाविंशतिः / 'अट्ठावीस' अष्टाधिकविंशतिसंख्यायाम, "तिणि य कोसे अट्ठावीसं धणु सयं'। जं०१ वक्षः। अट्ठाह-न०(अष्टाह) अष्टानामहां समाहारे, ज्ञा०६ श्रु०५अ०) अट्ठाहिया-स्त्री०(अष्टाहिका) अष्टानामहां समाहारोऽष्टाहम, तदस्ति यस्यां महिमायां साऽष्टाहिका। महिमामात्रे, व्युत्पत्तेः प्रदर्शनमात्रफलत्वेन महिमामात्रस्यैव प्रवृत्तिनिमित्तत्वात्। ज्ञा०१श्रु०८अ० अष्टदेवसिक्यां च। 'अट्ठाहियाय महिमा, सम्म अणुबंधसाहिगा केइ"पश्चा०८ विव०। आ०म०प्र०1 (अष्टाहिकाया रथयात्रायाः स्वरूपम् 'अणुजाण" शब्दे वक्ष्यते) अट्ठि-न०(अस्थि) अस्यते। अस-क्थिन्। 'ठोऽस्थिविसंस्थुले"।८1 2132 / इति संयुक्तस्य थस्य ठः / प्रा०। कीकशे, प्रश्न०१आश्र० द्वा०ा औ०। कुलके, आचा०२ श्रु०१अ०८ अ०। कुल्ये पञ्चमे धातौ, तं०। स्था०। साऽस्थिके सरजस्के कापालिके, ''अट्ठी विज्जा कुच्छितभिक्खू"। बृ०१ उ०। अट्ठि(ण)-त्रि०(अर्थिन) अर्थोऽस्याऽस्तीत्यर्थी प्रयोजनवति, आचा० १श्रु०६ अ०४ उ०) अट्ठिअगाम-पुं०(अस्थिकग्राम) स्वनामख्याते ग्रामभेदे, तत्र वीरजिनः समवासरत्। तदेतत्सर्वमुक्तम् - 'अस्थिकग्राम' इत्याख्या, कथं जातेति कथ्यते। ग्रामोऽयं वर्धमानोऽन्ते, वेगवत्यस्य नद्यभूत् / / 12 / / मण्यादिपण्यपूर्णानामनसां पञ्चभिः शतैः। धनदेवो वणिक् तत्रायातः प्रेक्ष्य महानदीम्॥१३|| महोक्षमेकं सर्वेषु, शकटेषु नियोज्य सः। वामतो दक्षिणेनाऽन्यान् तां नदीमुदतारयत्॥१४॥ अतिभाराऽऽकर्षणेन, सोऽथाऽन्तस्युटितो वृषः। तस्य छायां विधायाऽथ, ग्राम्यानाकार्य तत्पुरः / / 15 / / चारिवारिकृते तस्य, तेषां द्रविणमार्पयत्। पाल्योऽयमिति चोक्त्वा तान्, साऽश्रुदृक् स वणिग् ययौ॥१६॥ ग्राम्या विभज्य तद् द्रव्यं, सर्वे जगृहिरे स्वयम्। तस्याऽसौ निर्दयो ग्रामः, चारिं वारिन कोऽप्यदात् / / 17 / / आस्तां किंचित् करिष्यन्ति, दयया मे प्रतिक्रियाम्। मत्स्वामिदत्तद्रव्येणाऽप्येते किंचित् न कुर्वते // 18|| ततः प्रद्वेषमापन्नः, तद्ग्रामोपरि सत्वरः। सोऽकामनिर्जरायोगात्, क्षुत्तषाबाधितो मृतः // 16 // यक्षोऽभूत शूलपाण्याख्यो, ग्रामेऽत्रैव पुरो वने। उपयुक्तोऽथ सोऽज्ञासीत्, तद्वपुः स्वं ददर्श च॥२०॥ मातिद्ग्रामलोकस्य, स विचक्रे ततः क्रुधा। तल्लोको मुर्तुमारेभेऽभूवंस्तैरस्थिसंचयाः / / 21 / / कारितैरपि रक्षाद्यैर्मारि!पशशाम सा। ग्रामान्तरेष्वगुर्लोकाः, सतास्तत्राप्यमारयत्॥२२।। अचिन्तयंस्ते तत्रस्थैः, कोऽप्यस्माभिर्विराधितः। यामस्तत्रैव तद्ग्रामे, तत्प्रसादनहेतवे।।२३।। अथागतास्तदर्थं ते, प्रचक्रुर्विपुलां बलिम्। समन्ततः क्षिपन्तोऽथ, ग्रामस्याऽभ्यधुरुन्मुखाः॥२४॥ देवो वा दानवो वाऽपि, यः कश्चित्कुपितोऽस्ति नः। शरणं नः स एवास्तु, क्षाम्यत्वागः प्रसीदतु॥२५।। यक्षोऽन्तरिक्षे सोऽवादीत्, क्षामणां कुरुताऽधुना। वणिग्दत्तधनेनाऽपि, तदा गोर्न तृणाद्यदुः // 26 // बलीवर्दः स मृत्वाऽहं, शूलपाणिः सुरोऽभवम्। तेन वैरेण वः सर्वान, मारयामि ततोऽधुना // 27 // तेऽथ तं भक्तिनमाङ्गाः, दैन्यात् प्रज्ञपयन्नदः / कृतोऽस्माभिरयं मन्तुः, शान्त्यै कर्त्तव्यमादिश // 28 // तदैन्यात् सोऽपि शान्तस्तानूचे मन्मारिताऽस्थिभिः / कृत्वा कूटं तदुपरि, कुरुताऽऽयतनं मम // 26 / / मध्ये विधाय मे मूर्ति, बलीवर्दस्य चैकतः। पूजयेयुर्नमस्येयुस्ततो मारिः शमिष्यति // 30 // तथैव विदधुस्ते च, मारिश्चाऽपि न्यवर्तत। इन्द्रशर्मा भृतिं दत्त्वा, ग्राम्यैस्तस्याऽर्चकः कृतः // 31 // वीक्ष्याऽस्थिकूट पथिकैरस्थिग्राम इतीरितः। 'अस्थिकग्राम' इत्याख्या ग्रामस्याऽस्य तदाद्यभूत् / / 3 / / आ० क०। कल्प०ा आ० चूoा आ०म० द्वि० स्था। अट्ठिकच्छभ-पुं०(अस्थिकच्छप) अस्थिबहुले कच्छपभेदे, प्रज्ञा०१ पद। अविकढिण-त्रि०(अस्थिकठिन) अस्थिभिः कठिनम्। कीकशैरमृदुनि, तंग *कठिनास्थिक-त्रि०। कठिनानि अस्थिकानि यत्र तत्राथा / अमृदुकीकशके, "अट्ठियकढिणे सिरण्हारुबंधणे'।तं०। अद्विग-न०(अस्थिक)हडके, प्रश्न०३ आश्र० द्वा०। कापालिके, पुं०। व्य०२ उ०। अबद्धबीजे अनिष्पन्ने फले,न०। बृ० 1 उ०। *आ(अ)र्थिक-न० अर्यत इत्यर्थो मोक्षः, स प्रयोजनमस्य इत्यार्थिकम्, "तदस्य प्रयोजनम्" इति ठक् / अथवाऽर्थः, स एव प्रयोजनरूपोऽस्यास्तीति अर्थिकम्, "अत इनि-ठनौ'। 5 / 2 / 115 / इति ठन् / उत्त०१अ०। मोक्षोत्पादके, "पसन्ना