________________ अट्ठारससीलंगसहस्स २५२-अभिधानराजेन्द्रः - भाग 1 अद्वारससीलंगसहस्स तामेवाऽऽहण करति मणेण आहा-रसण्णविप्पजढगो उ णियमेण। सोइंदियसंवुडो पुढविकायारंभं खंतिजुओ॥६|| न करोतीति करणलक्षणः प्रथमयोग उपात्तः।मनसेति प्रथम-करणम्। (आहारसण्णविप्पजदगो उ त्ति) आहारसंज्ञाविप्रहीणः। अनेन च प्रथमसंज्ञा / तथा- नियमेनाऽवश्यंतया श्रोत्रेन्द्रियसंवृतो निरुद्धरागादिमत्श्रोत्रेन्द्रियप्रवृत्तिः, अनेन च प्रथमेन्द्रिय। एवंविधः सन् किं करोतीत्याह- पृथिवीकायारम्भं पृथ्वीजीवहिंसाम्, अनेन च प्रथमजीवस्थानम्। शान्तियुतः क्षान्तिसंपन्नः अनेन प्रथमश्रमणधर्मभेद इति। तदेवमेकं शीलाङ्गमाविर्भावितमिति गाथाऽर्थः // 6 // अथ शेषाणि तान्यतिदेशतो दर्शयन्नाह - इय मद्दवादिजोगा, पुढवीकाए भवंति दस भेया। आउक्कायादीसु वि, इय एते पिंडियं तु सयं // 7 // सोइंदिएण एयं, सेसेहिं वि जे इमं तओ पंच। आहारसण्णजोगा, इय सेसाहिं सहस्सदुगं / / 8 / / एयं मणेण वइमादिएसु एयं ति छस्सहस्साई। ण करइ सेसेहिं पिय, एए सव्वे वि अद्वारा III इत्यनेनैव च पूर्वोक्ताऽभिलापेन, मार्दवादियोगान् मार्दवाऽऽर्जवादिपदसंयोगेन, पृथिवीकाये पृथिवीकायमाश्रित्य, पृथिवीकायसमारम्भमित्यभिलापेनेत्यर्थः। भवन्ति स्युः, दशभेदा दश शीलविकल्पाः, अप्कायादिष्यपि नवसुस्थानेषु, अपिशब्दो दशेत्यस्येह संबन्धनार्थ इति / अनेन क्रमेण एते सर्वेऽपि भेदाः / (पिंडियं तु त्ति) प्राकृतत्वात्पिण्डिताः पुनः सन्तः, अथवा पिण्डितं पिण्डिमाश्रित्य, शतं शतसंख्याः स्युरिति, श्रोत्रेन्द्रियेणैतच्छतं लब्धम्, शेषैरपि चक्षुरिन्द्रियादिभिः, यद्यस्मादिदं शतं प्रत्येकलभ्यते, ततो मीलितानि पञ्चशतानि स्युः / एतानि चाऽऽहारसंज्ञायोगाल्लब्धानि इति / एवं शेषाभिस्तिसृभिः पञ्च पञ्चशतानि स्युः, एवं च सर्वमीलने सहस्रद्यं स्यादिति। एतत् सहस्रद्वितीयं मनसा लब्धं (वइमाइएसुत्ति) वागाद्योः वचनकाययोः प्रत्येकमेतत् सहस्रद्वयम्, इति एवं, षट्सहस्राणि न करोतीति, अत्र करणपदे स्युः / शेषयोरपिच कारणाऽनु-मत्योरित्यर्थः / षट्षट् सहस्राणि स्युः। एते अनन्तरोक्ताः, सर्वेऽपिशीलभेदाः पिण्डिताः सन्तः, 10x1045444343-18,000 (अट्ठारत्ति) प्राकृतत्वात् अष्टादशसहस्राणि भवन्तीति गाथा-त्रयाऽर्थः ||6|| नन्वेकयोग एवाऽष्टादशसहस्राणि स्युर्यदा तु व्यादिसंयोगजन्या इह क्षिप्यन्ते, तदा बहुतराः स्युः / तथाहि-एकद्व्यादिसंयोगेन योगेषु सप्त विकल्पाः, एवं करणेषु सप्त, संज्ञाषु पञ्चदश, इन्द्रियेष्वेकत्रिंशद्, भौम्यादिषु त्रयोविंशत्यधिकं सहस्रम्, एवं क्षमादिष्वपि / इत्येषां च राशीनां परस्पराभ्यासे द्वे कोटिसहस्रे, त्रीणि कोटीशतानि, चतुरशीति कोटीनामेक-पञ्चाशल्लक्षाणि, त्रिषष्टिसहस्राणि, द्वेशते,पञ्चषष्टिश्चेति। 7474154314 102341023 % 2,384,51,63,265 / ततः किमष्टादशैव सहस्राण्युक्तानि ? उच्यते- यदि श्रावकधर्मवदन्यतरभङ्गकेन सर्वविरतिप्रतिपत्तिः स्यात्, तदा युज्येत, तद्भङ्गेन तत्रैवमेकतरस्यापि शीलाङ्गकल्पस्य शेषसद्भाव एव भावात् / अन्यथा सर्वविरतिरेव न स्यादिति। तदेवाऽऽह -- एत्थ इमं विण्णेयं, अइदंपज्जं तु बुद्धिमंतेहिं। एकंपि सुपरिसुद्धं, सीलंग सेससब्मावे / / 10 / / अत्र एषु शीलाङ्गेषु, इदं वक्ष्यमाणं, विज्ञेयं ज्ञातव्यम्। (अइदं-पचंति) इदं परं प्रधानमत्रेतीदंपरं, तद्भाव ऐदंपर्य तत्त्वम्। तुशब्दः पुनःशब्दार्थः। तद्भावना चैवम्- शीलागसहस्राण्यष्टादश भवन्ति ।ऐदंपर्यंपुनरेष्यिदं ज्ञेयं, बुद्धिमद्भिर्बुधैः। किंतदित्याह- एकमपि, अपिशब्दाबहून्यपि, सुपरिशुद्ध निरतिचारं, शीलाङ्गं चरणांशः, शेषसद्भावे तदन्यशीलाङ्गसत्तायामेव, तदेवं समुदितान्येवैतानि भवन्तीति न व्यादिसंयोगभङ्गकोपादानमपितु सर्व-पदान्त्यभङ्गस्येयमष्टादशसहस्रांशतोक्ता / यथा त्रिविधं त्रिविधेनेत्यस्य नवांशतेति / इह च सुपरिशुद्धमिति। विशेषणाद् व्यवहारनयमतेनाऽपरिशुद्धानि पालनायामन्यतरस्याभावेऽपि स्युरिति दर्शितम् / एवं हि संज्वलनोदयश्चरितार्थो भवेदिति, चरणैकदेशभङ्गहेतुत्वात् तस्याअत एव यो मन्यते लवणं भक्षयामीतितेन (मुनिना) मनसा न करोत्याहरसंज्ञाविहीनो रसनेन्द्रियसंवृतः पृथिवीकायसमारम्भमुक्तिसंपन्न इत्येतदेकं तद्वङ्गम्। तद्भङ्गे च प्रतिक्रमणादिप्रायश्चित्तेन शुद्धिः स्यात् , अन्यथा मूलेनैव स्यादिति गाथाऽर्थः / / 10 / / अनन्तरगाथार्थं समर्थयन्नाहएक्को वाऽऽयपएसोऽसंखेयपएससंगओ जहतु। एतं पि तहाणेयं, सतत्तचाओ इहरहा उ।।११।। एकोऽपि, आस्तामनेकः / आत्मप्रदेशो जीवांशः, असंख्येयप्रदेशसंगत एव संख्यातीतांशसमन्वित एव भवति, तस्य तथास्वभावत्वात्। यथा यद्वत्, तु शब्द एवकारार्थः / तत्प्रयोगश्च दर्शित एव / एतदपिशीलाङ्गमपि,तथा तद्वच्छेषशीलाङ्गसमन्वितमेव, शेयं ज्ञातव्यम, शेषानपेक्षत्वे तस्य को दोषः? इत्याह-स्वतत्त्वत्यागः सर्वविरतिलक्षणशीलाङ्गहानिः स्यात्। इतरथातुएकतायांपुनरित्यर्थः / समुदितान्येतानि सर्वविरतिशीलाङ्गतामापद्यन्ते / अन्यथा पुनः सर्वविरतिशीलाङ्गता त्यजन्तीति भावनेति गाथाऽर्थः / / 11 / / इदमेव समर्थयन्नाह - जम्हा समम्गमेयं, पिसव्वसावज्जजोगविरई उ। तत्तेणेगसरूवं, ण खंडरूपत्तणमुवेइ // 12 // यस्मात् कारणात् समग्रं परिपूर्णमेव, सदा दैशिकमित्यर्थः / एतदपि शीलं, न केवलमात्मा समग्रः सन्नात्मा स्यात् / सर्वसावद्ययोगविरतिः समस्तपापव्यापारनिवृत्तिर्भवति, तत्स्वभावमित्यर्थः / तु शब्द एवकारार्थः / योजितश्च / तथाच- तत्त्वेन सर्वनिवृत्तिरूपत्वेन हेतुना एकस्वरूपमष्टादशसहस्रांशमेव / अन्यथा सर्वविरतित्वाऽयोगाद्, न खण्डरूपत्वमेकाद्यंशवैकल्यम्, उपैति, उपयातीति / प्रयोगोऽत्रयद्यदपेक्षया स्वतत्त्वं लभते, तत्तत्न्यूनतायां तत् न भवति / यथा- प्रदेशहीन आत्मा, यथा वा शतमेकाद्यभावे, लभते च सर्वस्वाऽपेक्षया सर्वविरतिः स्वतत्त्वम्, अत एकादिशीलाङ्ग विकलोऽसौ न भवतीति गाथार्थः // 12 // उक्ताऽर्थ एव विशेषाऽभिधानायाऽऽहएयं च एत्थ एवं, विरतीभावं पडुच दट्ठव्वं / न उ बज्झं पि पवित्तिं, जंसा भावं विणावि भवे // 13 // एतच्च एतत्पुनः शीलम्, अत्र शीलाङ्गप्रक्रमे, एवमखण्डरूपं, विरतिभावं सावद्ययोगविरमणपरिणाम, प्रतीत्याश्रित्य, द्रष्टव्यं ज्ञेयम्। नतु, न पुनः, बाह्यमपि कायवाक्संबन्धिनीमपि, अपिशब्दः समुच्चये, प्रवृत्तिं चेष्टाम्, कुत एतदेवमित्याऽऽह-यद् यस्मात्, सा बाह्या प्रतिपत्तिः, भावमध्यवसायं, विनाऽपि अन्तरेणाऽपि। अपिशब्दाद् भावेन सहाऽपि, भवेत् स्यादिति गाथाऽर्थः / / 13 / / पंचा०१४ विव०। आवाधा पं० वाद।