________________ अट्ठारसपावट्ठाण 251- अभिधानराजेन्द्रः - भाग 1 अट्ठारससीलंगसहस्स कलहं अन्मक्खाणं पेसुन्नं परपरिवायं // 2 // मायामोसं मिच्छा-दसणसल्लं तहेव वोसिरिमो। अंतिमऊसासम्मि य, देहं पि जिणाइपचक्खं // 3 // सर्व सप्रभेदं प्राणातिपातं, तथा- सर्वमलकिं मृषावादं, तथासर्वमदत्तमदत्तादानं, तथा- सर्व मैथुनं, तथा सर्व परिग्रह, तथासर्व रात्रिभक्तं रजनिभोजनं, व्युत्सृजामः परिहरामः। तथा-सर्व क्रोधं, मानं, माया, लोभं च, रागद्वेषौ च,तथा-कलह, अभ्याख्यानं, पैशुन्यं, परपरिवाद, मायामृषा, मिथ्यादर्शनशल्यं च, तथैव सप्रतिज्ञ व्युत्सृजामः / एतान्यष्टादशपापहेतूनि स्थानकानि पापस्थानकानि, न केवलमेतान्येव किन्तु अन्तिमे उच्छ्वासे, परलोकगमनसमयइत्यर्थः, देहमपि निजशरीरमपि, व्युत्सृजामः, तत्रापि, ममत्वमोचनाद् जिनादिप्रत्यक्षं तीर्थकरसिद्धानां समक्षमिति / प्रव० 237 द्वा०। अट्ठारसवंजणाउल-त्रि०(अष्टादशव्यञ्जनाकुल) अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः शालनतक्रादिभिराकुलं सङ्कीर्णं यत् तत्तथा। अथवा अष्टादशभेदं च तद् व्यञ्जनाकुलम्, शाकपार्थिवादिदर्शनाद् भेदशब्दलोपः। सूपाद्यष्टादशव्यञ्जनसङ्कीर्णे, चं० प्र०ा अष्टादशच भेदा इमे - सूओ 1 दणो 2 जवणं 3, तिण्णि यमसाइ 6 गोरसो 7 जूसो 8 / भक्खा गुललावणिया 10, मूलफला 11 हरियगं 12 डागो 13 / / 1 / / होइ रसालूय 14 तहा, पाणं 15 पाणीय 16 पाणगं चेव 17 / अट्ठारसमो सागो 18, णिरुवहओ लोइओ पिंडो॥२।। चं० प्र०२० पाहु०। स्था०। भ०। अट्ठारसविहिप्पयारदेसीभासाविसारय-पुं०,स्त्री०(अष्टादशविधिप्रकारदेशीभाषाविशारद)अष्टादशविधिप्रकाराः, अष्टादशभिर्वा विधिभिर्भेदैः प्रचारः प्रवृतिर्यस्याः सा तथा, तस्यां देशीभाषायां देशभेदेन वर्णावलीरूपायां विशारदः पण्डितो यः स तथा / अष्टादशधाभिन्नदेशीभाषापण्डिते, "अट्ठारसविहिप्पयार-देसीभासाविसारए गीयरगंधव्वणट्ट-कुसले हयजोही'। ज्ञा०१श्रु०१अ०) अट्ठारससीलंगसहस्स-न०(अष्टादशशीलाङ्ग सहस्र) शीलभेदानामष्टादशसहस्रेषु, पञ्चा०ा तानि चैवम् - नमिऊण वद्धमाणं, सीलंगाइं समासओ वोच्छं। समणाण सुविहियाणं, गुरूवएसाणुसारेण // 1 // नत्वा प्रणम्य, वर्द्धमानं महावीरं, शीलाङ्गानि चारित्रांशरूपाणि, तत्कारणानि वा, समासतः संक्षेपेण, वक्ष्ये भणिष्यामि। केषांसंबन्धीनि ? इत्याह-श्रमणानां यतीनां, सुविहितानां सदनुष्ठानानां, गुरुपदेशानुसारेण जिनादिवचनानुवृत्त्येति गाथाऽर्थः / / 1 / / शीलाङ्गानां तावत्परिमाणमाहसीलंगाण सहस्सा, अट्ठारस एत्थ हों ति णियमेणं। भावेणं समणाणं, अखंडचारित्तजुत्ताणं / / 2 / / शीलाङ्गानां चारित्रांशानां, सहस्राण्यष्टादश, अत्र- श्रमणधर्मे, प्रवचने वा, भवन्ति स्युः / नियमेनावश्यतया, न न्यूनान्यधिकानि वेति भावः। कथमित्याह- भावेन परिणामेन, बहिर्वृत्त्या तु कल्पप्रतिसे वया न्यूनान्यपि स्युरिति भावः / केषामित्याह-श्रमणानां यतीनां न तु श्रावकाणां सर्वविरतानां चैव तेषामुक्तसंख्यावतां संभवात्। अथवा भावेन श्रमणानां, न तु द्रव्य-श्रमणानाम्, तेषामपि किंविधानामित्याह अखण्डचारित्रयुक्तानां सकलचरणोपेतानां, न तु दर्पप्रतिसेवया खण्डितचरणांशानाम् / नन्वखण्डचरणा एव सर्वविरता भवन्ति, तत्खण्डनेऽसर्वविरतत्वप्रसंगात्, तथा "पडिवजइ अइक्कमइ पंच' इत्यागम-प्रामाण्यात् सर्वविरतः पञ्चापि महाव्रतानि प्रतिपद्यतेऽतिक्रामति च पशाप्येव, नैककादिकमिति / कथं सर्वविरतर्देशखण्डनमिति? अत्रोच्यते- सत्यमेतत्, किंतु प्रतिपत्त्यपेक्ष सर्वविरतत्व, परिपालनापेक्षया त्वन्यथापि संज्वलन-कषायोदयात् स्यात्। अत एवोक्तम् "सव्वे विय अइयारा, संजलणाणं उदयओ होति" इति / अतिचारा हि चरणदेशखण्डनरूपा एवेति / तथैकव्रतातिक्रमे सर्वातिक्रम इति यदुक्तं, तदपि वैवक्षिकम् / विवक्षा चेयम् - 'छेयस्स जाव दाणं, ताव अइक्कमइ चेव एग पि / एग अइक्कमंतो, अइक्क मे पंचमूलेणं // 1 // एवमेव हि दशविधप्रायश्चित्त-विधानं सफलं स्यात् / अन्यथा मूलायेव, तस्माद्व्यवहार-नयतश्चातिचारसंभवः, निश्चयतस्तु सर्वविरतितया भङ्ग एवेत्यलं प्रसंगेनेति गाथाऽर्थः / / 2 / / कथं पुनरेकविधस्य शीलस्याङ्गाना-मष्टादशसहस्राणि भवन्ति? इत्याह - जोए करणे सण्णा-इंदियभूमादि समणधम्मे य। सीलंगसहस्साणं, अट्ठारसगस्स णिप्पत्ती॥३॥ योगे व्यापारे विषयभूते, करणे योगस्यैव साधकतमे, संज्ञादीनि चत्वारि पदानि द्वन्द्वैकत्ववन्ति। तत्र संज्ञासु चेतनाविशेषभूतासु, इन्द्रियेष्वक्षेषु, भूम्यादिषु पृथिव्यादिजीवकायेष्वजीवकाये च, श्रमणधर्मे च क्षान्त्यादौ, शीलाङ्ग सहस्राणां प्रस्तुतानाम्, अष्टादशपरिमाणमस्य वृन्दस्येत्यष्टादशकं, तस्य, निष्पत्तिः सिद्धिर्भवतीति गाथार्थः / / 3 / / योगादीनेव व्याख्यातुमाह - करणादि तिण्णि जोगा, मणमादीणि उ हवंति करणाई। आहारादी सण्णा, चउसण्णा इंदिया पंच ||4|| भोमादी णव जीवा, अजीवकाओ य समणधम्मो उ। खंतादिदसपगारो, एवं ठिए भावणा एसा॥५॥ (करणाइ त्ति) सूत्रत्वात् करणादयः, करणकारणानुमतयः, त्रयो योगा भवन्ति / तथा मन आदीनि तु मनोवचनकायरूपाणि, पुनर्भवन्ति स्युः, करणानि त्रीण्येवः, तथा आहारादयः आहारभयमैथुनपरिग्रहविषयाः वेदनीयभयमोहवेदमोहलोभकषायोदयसंपाद्याध्यवसायविशेषरूपाः संज्ञाः,( चउ त्ति) चतस्रः संज्ञा भवन्ति / तथा- श्रोत्रादीनि श्रोत्रचक्षुर्घाणरसनस्पर्शनानीन्द्रियाणि पञ्च भवन्तीति / तथा- भूम्यादयः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रिया नव जीवाजीवकायाः, अजीवकायस्तु अजीवराशिः पुनर्दशमो यः परिहार्यतयोक्तः / स च महाधनानि वस्त्रपात्राणि विकट हिरण्यादीनि च, तथा- पुस्तकानि तूलाद्यप्रत्युपेक्षितानि प्रावारादिदुष्प्रत्युपेक्षितानि, कोद्रवादितृणान्यजादिचर्माणि चागमप्रसिद्धानीति / तथा-श्रमणधर्मस्तु यतिधर्मः / पुनः क्षान्त्यादिः क्षान्तिमार्दवाऽऽर्जव- मुक्तितपः संयमसत्यशौचाड किञ्चन्यब्रह्मचर्य रूपो दश प्रकारो दशविध इति / एवंति, एवमुकन्यायेन,स्थिते औत्तराऽर्येण पट्टकादौ व्य-वस्थिते, द्वित्रिचतुष्पञ्चदशसंख्येयमूलपदकलापभावना भङ्गक-प्रकाशना, एषा अनन्तरवक्ष्यमाणलक्षणेति गाथाद्वयाऽर्थः // 5 //