________________ अट्ठारसट्ठाण 250- अभिधानराजेन्द्रः-भाग 1 अट्ठारसपावट्ठाण भवत्येतचिन्तनीयमिति दशमं स्थानम् 10(10), तथा- सोपक्लेशो गृहवास इति, सहोपक्लेशैः सोपक्लेशो गृहवासो गृहाश्रमः / उपक्लेशाः - कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेत्येवं चिन्तनीयमित्येकादशं स्थानम् 11, तथा- निरुपक्लेशः पर्याय इति, एभिरेवोपक्लेशैः रहितःप्रव्रज्यापर्यायोऽनारम्भी कुचिन्ता-परिवर्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानम् 12 (11), तथा- बन्धो गृहवासः, सदा तद्धत्वनुष्ठानात् कोशकारकीटवदित्येतचिन्तनीयमिति त्रयोदशं स्थानम् 13, तथा- मोक्षः पर्यायोऽनवरतकर्मनिगडविगमनाद् मुक्तवदित्येवं चिन्तनीयमिति चतुर्दश स्थानम् 14(12), अत एव सावद्यो-गृहवास इति, सावधः सपापः, प्रणातिपातमृषावादादिप्रवृत्ते- रेतचिन्तनीयमिति पञ्चदशंस्थानम् 15, एवमनवद्यः पर्याय इति,अपाप इत्यर्थः, अहिंसादिपालनात्मकत्वादेतचिन्तनीय-मिति षोडशंस्थानम् 16(13), तथा-बहुसाधरणा गृहिणां कामभोगा इति, बहुसाधरणाश्चौरजारराजकुलादिसामान्याः, गृहिणां गृहस्थानां, कामभोगाः पूर्ववदित्येतचिन्तनीयमिति सप्तदशं स्थानम् 17(14), तथा प्रत्येकं पुण्यपापमिति, मातापितृकलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं पृथग्-पृथग् येनानुष्ठितं तस्य करिव तदिति भावार्थः / एवमष्टादशं स्थानम् 18(15), एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव। अन्ये तु व्याचक्षते- सोपक्लेशो गृहवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते। एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानम् / प्रत्येक पुण्यपापमिति पञ्चदर्श स्थानम् / शेषाण्यभिधीयन्ते- तथाऽनित्यं खल्वनित्यमेव नियमतः, 'भो' इत्यामन्त्रणे, मनुष्याणां पुंसां,जीवितमायुः / एतदेव विशेष्यते- कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारम् , तदलं गृहाश्रमेणेति संप्रत्युपे-क्षितव्यमितिषोडशंस्थानम् (16) तथा-बहु चखलु भोःपापं कर्म प्रकृतं, बहु चेत्यत्र चशब्दात् क्लिष्ट, 'खलु' शब्दोऽवधारणे बढेव, पापं कर्म चारित्रमोहनीयादि, प्रकृतं निर्वर्तितं, मयेति गम्यते / श्रामण्यप्राप्तायप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किंचिद् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानम् (17) / तथा- पापानां चेत्यादि, पापानां चापुण्यरूपाणां च शब्दात्पुण्यरूपाणां च, खलु भोः! कृतानां कर्मणाम्, खलुशब्दः कारितानुमतविशेषणार्थः, 'भो' इति शिष्यामन्त्रणे, कृतानां मनोवाकाययोगैरोघतो निर्वर्तितानां कर्मणां ज्ञानावरणीयाद्यसातवेदनीयादीनां, प्राक् पूर्वम्, अन्यजन्मसुदुश्चरितानां प्रमादकषायज-दुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात्। दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोप-चारात् / एवं दुष्पराक्रान्तानां मिथ्यादर्शनाविरतिजदुष्पराक्रान्त-जनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात् / दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात् / इह च दुश्चरितानि मद्यपानाऽश्लीलाऽनृतभाषणादीनि, दुष्पराक्रान्तानि वधबन्धनादीनि / तदमीषामेवंभूतानां कर्मणां वेदयित्वाऽनुभूय, फलमिति वाक्यशेषः / किं ? मोक्षो भवति, प्रधानपुरुषार्थो भवति ? नाऽस्त्यवेदयित्वा, न भवत्यननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह / इष्यते च स्वल्पकर्मोपेतानां कैश्चित् सहकारिनिरोधः, | तत्फलादानवादिभिः, तत्तदपि नाऽस्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः स्वफलादाने कर्मत्वायोगात् , तपसा वा क्षपयित्या, अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिक-शुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशोऽनन्यनिबन्धनपरिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णो दीरणदोषक्षपणवदन्य-निमित्तम्, अक्र मेणाऽपरिक्लेशमित्यतस्तपोऽनुष्ठानमेव श्रेय इति, न किंचिद् गहाश्रमेणे ति संप्रत्युपेक्षितव्यमित्यष्टादशं पदं भवति / अष्टादशं स्थानं भवति (18) / भवति चाऽत्र श्लोकः, अत्रेत्यष्टा-दशस्थानाऽर्थव्यतिकर उक्ताऽनुक्ताऽर्थसंग्रहपर इत्यर्थः। श्लोक इतिचजातिपरो निर्देशः। ततः श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः। जया यचयइ धम्म, अणजो भोगकरणा। से तत्थ मुच्छिए बाले, आयइं नावबुज्झइ ||1|| यदा चैवमप्यष्टादशसुव्यावर्तनकारणेषु सत्स्वपित्यजति जहाति,धर्म चारित्रलक्षणम् ,अनार्य इत्यनार्य इवानार्या म्लेच्छ-चेष्टितः / किमर्थमित्याह- भोगकारणात् शब्दादिभोगनिमित्तं सद्धर्मत्यागी,तत्र तेषु भोगेषु,मूञ्छितो गृद्धो, बालोऽज्ञः,आयति-मागामिकालं, नाऽवबुद्ध्यते न सम्यगवगच्छतीति सूत्रार्थः // 11 // एतदेव दर्शयतिजया ओहाविओ होई, इंदो वा पडिओ छमं / सव्वधम्मपरिभट्ठो,स पच्छा परितप्पइ / / 2 / / यदा चाऽवधावितोऽपसृतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः / इन्द्रो वेति देवराज इव, पतितःक्ष्मां गतः, स्वविभवभ्रंशेन भूमौ पतित इति भावः।क्ष्मा भूमिः। सर्वधर्मपरिभ्रष्टः सर्वधर्मेभ्यः क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत् प्रतिज्ञामननुपालनात् , लौकिकेभ्योऽपि वा गौरवादिभ्यः, परिभ्रष्टः सर्वतः च्युतः, स पतितो भूत्वा पश्चान्मनाम् मोहावसाने, परितप्यते, किमिदमकार्य मयाऽनुष्ठितमित्यनुताप करोतीति सूत्रार्थः / दश०१ चूलिका (अग्रेतनगाथा तृ०भा०१३५ पृष्ठे 'ओहावण' शब्दे विन्यस्ता) समणेणं भगवया महावीरेणं समणाणं निम्गंथाणं सक्खुडुय वियत्ताणं अट्ठारसट्ठाणा पण्णत्ता। तं जहा- वयछक्कं कायछक्कं, अकप्पो गिहिभायणं / पलियंक निसेजा य, सिणाणं सोभवज्जणं ||1|| स०१८ सम०। (व्रतषट्कादीनि विस्तरतोऽन्यत्र स्वस्वस्थाने लिखितानि) एषु व्रतषट्कं, शोभावर्जन चेति विधेयं, शेष प्रतिषेधनीयम्।व्य०१० उ०। अट्ठारसहिं ठाणेहिं जो होति अपतिद्वितो नाऽलमत्थो तारिसो होइ ववहारं ववहरित्तए। अट्ठारसहिं ठाणेहिं जो होति पतिहितो अलमत्थो तारिसो होइ ववहारं ववहरित्तए। व्य० 10 उ०। (इति व्यवहारिलक्षणं 'ववहार' शब्दे वक्ष्यते) अट्ठारसपावट्ठाण-न०[अष्टादशपापस्थान(क)] पापहेतूनि स्थानकानि पापस्थानकानि, अष्टादश च तानि स्थानकानि / प्राणातिपातादिषु अष्टादशसु पापोपादानहेतुषु स्थानेषु, प्रव०॥ सव्वं पाणाइवायं, अलियमदत्तं च मेहुणं सव्वं / सव्वं परिग्गहं तह, राईभत्तं च वोसिरिमो / / 1 / / सव्वं कोहं माणं, मायं लोभं च रागदोसे य।