________________ अट्ठायमाण 249 - अभिधानराजेन्द्रः - भाग 1 अट्ठारसट्ठाण अट्ठायमाण-त्रि०(अतिष्ठत्)स्थितिमकुर्वति, "तह वि य अट्ठायमाणं | गोणं"। पञ्चा० 16 विव० अट्ठार-त्रि०(अष्टादशन्) प्राकृतत्वादन्त्यलोपः / अष्टाऽधिकेषु दशसु, "एएसव्ये वि अट्ठारा"। पञ्चा०३ विव०। अट्ठारस-त्रि०(अष्टादशन) अष्टौ च दशच, अष्टाधिका वा दशअष्टादशन्। (अट्ठारह) सङ्ख्यायां, तत्सङ्खचेये च / वाचला "पढमे छम्मासे अस्थि अट्ठारसमुहुत्ताराती''। सू०प्र०१पाहु०। अट्ठारसकम्मकारण-न०(अष्टादशकर्गकारण) अष्टादश चौरप्रसूतिहेतौ, प्रश्न०३ आश्र0 द्वा० अट्ठारसट्ठाण-न०(अष्टादशस्थान) क०स०। प्रतिसेवनीयेषु अष्टादशसु स्थानेषु, दशा इह खलु भो पव्वइएणं उप्पण्णदुक्खेणं संजमे अरइसमावण्णचित्तेणं ओहाणुप्पे हिणा अणोहाइएणं चेव हयरस्सिगयंकुसपोयपडागाभूआईइमाइं अट्ठारसठाणाई सम्म संपडिलेहिअव्वाई हवंति / तं जहा- हं भो ! दुस्समाए दुप्पजीवी // 1 // इह खलु भोः! प्रद्रजितेन, इहेति जिनप्रवचने, खलुशब्दोऽवधार-णे। सच भिन्नक्रम इति दर्शयिष्यामः / भो इत्यामन्त्रणे / प्रव्रजितेन साधुना, किंविशिष्ट ने त्याह- उत्पन्नदुःखेन संजातशीतादिशारीर स्त्रीनिष-- द्यादिमानसदुःखेन, संयमे व्यावर्णितस्वरूपे, अरतिसमापन्नचित्तेनोद्वेगगताभिप्रायेण, संयमेनिर्विण्णभावेनेत्यर्थः / स एव विशेष्यतेअवधावनोत्प्रेक्षिणा,अवधावनमपसरणं, संयमादुत्प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रव्रजितुकामे नेति भावः / अनवधावितेनैवानुत्प्रव्रजितेनैव, अमूनि वक्ष्यमाणलक्षणान्यष्टादशस्थानानि, सम्यग्भावसारं संप्रत्युपेक्षितव्यानि सुष्ठवालोचनी-यानि, भवन्तीति योगः / अवधावितस्य तु प्रत्युपेक्षणं प्रायो-ऽनर्थकमिति / तान्येव विशेष्यन्ते - हयरश्मिगजा कुशपोत-पताकाभूतानि अश्वखलीनगजाऽड्युश-बोहित्थसितपटतुल्यानि / एतदुक्तं भवतियथा हयादीनामुन्मार्ग-प्रवृत्तिकामानां रश्म्यादयो नियमनहेतवः / तथैतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भावसत्त्वानामिति। यतश्चैवमतः सम्यक् सम्प्रत्युपेक्षितव्यानि भवन्ति / खलु-शब्दावधारणयोगात् सम्यगेव सम्प्रत्युपेक्षित-व्यान्ये वेत्यर्थः / (तं जहेत्यादि) तद्यथेत्युपन्यासाऽर्थः / हं भो ! दुःषमायां दुष्प्रजीविन इति, 'हं भो!' शिष्याऽऽमन्त्रणे / दुःषमायामधम-कालाख्यायां कालदोषादेव दुःखेन कृच्छेण प्रकर्षणोदार-भोगापेक्षया जीवितुं शीलं येषां ते, दुष्प्रजीविनः प्राणिन इति गम्यते, नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात् / उदारभोग-रहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेण ? इति सम्प्रत्युपेक्षितव्यमिति प्रथम स्थानम्॥१|| लहुसगा इत्तरिआ गिहीणं कामभोगा 2, भुञ्जो असायबहुला मणुस्सा 3, इमे अमे दुक्खे न चिरकालोवट्ठाई भविस्सइ 4, ओमजणपुरकारे 5, वंतस्स य पडियायणं 6, अहरगइवासोवसंपया७, दुल्लहे खलु भो! गिहीणं धम्मे गिहिपासमझे वसंताणं , आयंके से वहाय होइ,संकप्पे से वहाय होइ 10, सोवक्केसे गिहवासे 11, निरुवक्केसे परिआए 12(11), बंधे | गिहवासे १३,मुक्के परिआए 14(12), सावजे गिहवासे 15, अणवज्जे परिआए 16(13), बहुसाहारणा गिहीणं कामभोगा १७(१४),पत्तेअंपुनपावं 18(15), अणिचे खलु भो ! मणुस्साणं जीविए कुसग्गजलबिंदुचंचले (16), बहुंच खलु भो ! पावं कम्म पगडं (17), पावाणं च खलु भो ! कडाणं कम्माणं पुट्विं दुचिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता,अद्वरसमं पयं भवइ (18)| भवइ अइत्थ सिलोगो। तथा- लघव इत्वरा गृहिणां कामभोगाः, दुःषमायामिति वर्तते / सन्तोऽपिलवस्तुच्छाः। प्रकृत्यैव तुषमुष्टिवदसाराः, इत्वरा अल्पकालाः गृहिणां गृहास्थानां कामभोगा मदनकामप्रधानाः शब्दादयो विषयाः विपाककटवश्व, देवानामिव विपरीताः अतः किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति द्वितीयं स्थानम् 2, तथा-भूयश्च स्वातिबहुला मनुष्याः, दुःषमायामिति वर्तत एव / पुनश्च स्वातिबहुला मायाप्रचुराः, मनुष्या इति प्राणिनः, न कदाचिद् विश्रम्भहेतवोऽमी, तद्रहितानां च कीदृशं सुखम् ? तथा मायाबन्ध-हेतुत्वेन च दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्य-मिति तृतीय स्थानम् 3, तथा- इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति, इदं चाऽनुभूयमानं, मम श्रामण्यमनुपालयतो, दुःखं शारीरमानसं कर्मफलं परीषहजनितं, न चिरकालमुपस्थातुंशील भविष्यति, श्रामण्यपालनेनपरीषहनिराकृतेः, कर्मनिर्जरणात् संयमराज्यप्राप्तेः,इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति ? संप्रत्युपेक्षितव्यमिति चतुर्थ स्थानम् 4, तथा ओमजण त्ति, न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद् राजाऽमात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते / उत्प्रव्रजितेन तुन्यूनजनस्याऽपि स्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यम् / अधार्मिकराजविषये वा वेष्टिप्रयोक्तुः खरकर्मणो नियम्यत एव, इहैवेदमधर्मफलमतः किं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति पञ्चम स्थानम् 5, एवं सर्वत्र किया योजनीया। तथा वान्तस्य प्रत्यापानम्, भुक्तोज्झितपरिभोग इत्यर्थः / अयं च श्वशृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःखजनकः / वान्ताश्च भोगाः, प्रव्रज्याङ्गीकरणे नैतत् प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठ स्थानम् 6, तथाऽधरगतिवासोपसंपत्, अधोगतिर्नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः, एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसंपत्सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनमेवं चिन्तनीयमिति सप्तमं स्थानम् 7, तथा दुर्लभः खलु भोः ! गृहिणां धर्म इति प्रमादबहुलत्वाद् दुर्लभ एव, 'भो' इत्यामन्त्रणे / गृहस्थानां परमनिर्वृतिजनको धर्मः / किंवि-शिष्टानामित्याह- गृहपाशमध्ये वसतामित्यत्र गृहपाशशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसतामनादिभवाभ्यासादकारणं स्नेहबन्धनमेतच्चिन्तनीयमित्यष्टमं स्थानम् 8, तथाऽऽतङ्कस्तस्य वधाय भवति, आतङ्क: सद्योघाती विसूचिकादिरोगः, तस्य गृहिणो धर्मबन्धु-रहितस्य, वधाय विनाशाय भवति / तथा वधश्चाऽनेकवधहेतुरेवं चिन्तनीयमिति नवम स्थानम् 6, तथा संकल्पस्तस्य वधाय भवति, संकल्प इष्टाऽनिष्टवियोगप्राप्तिजो मानस आतङ्कः,तस्य गृहिणः, तथाचेष्टायोगाद् मिथ्याविकल्पाभ्यासेन ग्रहादिप्राप्तेर्वधाय