________________ अटुजाय 243- अभिधानराजेन्द्रः - भाग 1 अट्ठजाय स्तोकमपि ऋणं शेष धारयन्क्वचिद्देशे कोऽपि पुरुषः, ततः (अदलते त्ति) अददानः कालक्रमेण प्रवृद्धया, दासत्वमेव प्रति पद्यते / तस्यैव दासत्वमापन्नस्य, स्वदेशे दीक्षा न दातव्या / अथ कदाचित्परदेशे गतः सन्नविदितस्वरूपोऽशिवादिकारणतो वा दीक्षितो भवेत् / तत्र च वणिजा वाणिज्यार्थ गतेन दृष्टो भवेत् / तत्राऽयं किल न्यायः - परदेशमपि गता वणिज आत्मीयं लभन्ते, तत एवं वणिग्धर्मे व्यवस्थिते स एवं ब्रूयात् 'मम एष दासः' इति न मुञ्चिष्येऽमुमिति। तत्र यत्कर्तव्यं तत्प्रतिपादनार्थं द्वारगाथामाहनाहं विदेसआहर-णमाइ विजाय मंत जोगा य। नेमित्त राय धम्मे पासंड गणे धणे चेव / / परदेशे दासत्वमापन्नो वर्तते, नसोऽहं, किंत्वहमन्यस्मिन् विदेशेजातः, त्वं तु सदृक्षतया विप्रलब्धोऽसि, अथ सम्भूत-जनविदितो वर्ततेतत एवं न वक्तव्यं, किंतु स्थापत्यापुत्राद्याहरणं कथनीयम्, यद्यपि कदाचित् तच्छ्रवणतः प्रतिबुद्धो मुत्कलयति / आदिशब्दात् गुटिकाप्रयोगतः स्वरभेदादि कर्त्तव्यमिति ग्रहः / एतेषां प्रयोगाणामभावे विद्या मन्त्रो योगो वा, ते प्रयोक्तव्याः, यैः परिगृहीतः सन् मुत्कलयति / तेषामप्यभावे निमित्तेनाऽतीतानागतविषयेण राजा, उपलक्षणमेतत्, तदन्यो वा नगरप्रधान आवर्जनीयः, येन तत्प्रभावात्स प्रेर्यते, धर्मो वा कथनीयो राजादीनाम् येन त आवृताः सन्तस्तं प्रेरयन्ति / एतस्याऽपि प्रयोगस्याऽभावे पाषण्डान् सहायान् कुर्यात् / यद्वा यो गणः सारस्वतादिको बलीयान्, तं सहायं कुर्यात् / तदभावे दूरा-भोगादिना प्रकारेण धनमुत्पाद्य तेन मोचयेत् / एष द्वारगाथा-संक्षेपार्थः / साम्प्रतमेनामेव गाथां विवरीषुराहसारक्खएण जंपसि, जातो अन्नत्थ ते वि आमंति। बहुजणविण्णायम्मि उ, थावचसुयादिआहरणं॥ यदि प्रभूतजनविदितो न भवति, यथा-अयं तद्देशे जात इति, ततएवं ब्रूयात्। अहमन्यत्र विदेशे जातस्त्वंतुसादृश्येण विप्रलब्ध एवमसमञ्जसं जल्पसि / एवमुक्ते तेऽपि तत्रत्या आमेवमेतद्यथाऽयं वदतीति साक्षिणो जायन्ते, अथ तद्देशजाततया प्रभूतजनविदितो वर्त्तते, ततस्तस्मिन्बहुजनविज्ञाते पूर्वोक्तं न वक्तव्यम्, किन्तु प्रबोधनाय स्थापत्यापुत्राद्याहरणं कथनीयम्। विजा मंता जोगा, अंतद्धाणं विरेयणं वा वि। वरधणु व पुस्सभूती, गुलिया सुहुमे य झाणम्मि॥ विद्यादयो विद्यामन्त्रयोगाः प्रयोक्तव्याः, येन तैरभियोजितः सन् मुत्क्लयति। आहरणमादीत्यत्रादिशब्दव्याख्यानार्थमाह गुटिकाप्रयोगतः स्वरभेदेन / उपलक्षणमेतत् / वर्णभेदं कारयेत्, यदि वा अन्तर्धानं ग्रामान्तरप्रेषणेन व्यवधानम्, विरेचनं वा ग्लानतोपदर्शनाय कारयितव्यो यत्कृच्छ्रेणैष जीवतीति ज्ञात्वा विसृज्यते / यदि वा वरधनुरिव गुटिकाप्रयोगतः, पुष्पभूतिराचार्य इव सूक्ष्मध्यानवशतो निश्चलो निरुच्छ्वासः तथा स्याद् येन मृत इति ज्ञात्वा परित्यज्यते। असतीए विण्णवेती, रायाणं सो व होजउ अमिन्नो। तो से कहिज धम्मो, अणिच्छमाणा इमं कुज्जा। एतेषां प्रयोगाणामसति अभावे राजानं विज्ञापयन्ति। यथा तपस्विनमिह परलोकनिःस्पृहमेनं व्रताधापयतीति, अथासौ राजा तेन भिन्नो व्युग्राहितो वर्तते। ततःस तस्य राज्ञःप्रतिबोधनाय धर्मः कथ्यते, अथ सधर्म नेच्छति, ततस्तस्मिन् धर्ममनिच्छति, उपलक्षणमेतत्, निमित्तेन वाऽतीतानागतरूपेणावार्यमाणे इदं वक्ष्यमाणं कुर्यात्। तदेवाऽऽह - पासंडे व सहाए, गेण्हइ तुज्झं पि एरिसं हुज्जा। होहामोह सहाया, तुज्झ वि जो वा गणो बलिओ॥ पाषण्डान् वा सहायान् गृह्णाति / अथ ते सहाया न भवन्ति, तत इदं तान् प्रति वक्तव्यम्- युष्माकमपीदृशं प्रयोजनं भवेद् भविष्यति, तदा युष्माकमपि वयं सहाया भविष्यामः। एवं तान् सहायान् कृत्वा तद्बलतः स प्रेरणीयः, यदि वा यो गणो बलीयान्, तं सहायं परिगृह्णीते। एएसिं असतीए, संता विजया न हाँति उसहाया। ठवणा दूराभोगे, लिंगेण व एसिउंदेंति॥ एतेषांपाषण्डानांगणानांवा असति अभावे,ये सन्तः शिष्टाः, ले सहायाः कर्तव्याः / यदा तु सन्तो वा सहाया न भवन्ति, तदा (ठवण त्ति) निष्क्रामता या द्रव्यस्य स्थापना कृता, तहानतः स मोचयितव्यः / यदि वा दूराभोगेन प्रागुक्तप्रकारेण, अथवा यद्यत्र लिङ्गमर्चितं, तेन धनमेषित्वा उत्पाद्य ददति, तस्मै वरवृषभाः / गतमापन्नद्वारम् / इदानीमनाप्तद्वारमाह - एमेव अणत्तस्स वि, तवतुलणा नवरि एत्थ नाणत्तं / जं जस्स होइ भंडं, सो देति ममंतिगे धम्मो // एवमेव अनेनैव दासत्वापन्नगतेन प्रकारेण अनाप्तस्याऽपि प्रागुक्तशब्दाथस्य मोक्षणे यतना द्रष्टव्या, नवरम्, अत्र धनदानचिन्तायां नानात्वम् / किं तदित्याह- तपस्तुलना कर्त्तव्या / सा चैवं भण्यतेसाधवस्तपोधना अहिरण्यसुवर्णाः, लोकेऽपि यद् यस्य भाण्डं भवति, सतत् तस्मै उत्तमयि ददाति। अस्माकं च पार्श्वे धर्मस्ततस्त्वमपि धर्म गृहाण। एवमुक्तेस प्राहजोऽणेण कतो धम्मो, तं देउ न एत्तियं समं तुलइ। हीणं जावेताहिं, तावइयं विजथंभणया॥ योऽनेन कृतो धर्मःसर्वं मह्यं ददातु, एवमुक्ते साधुभिर्वक्तव्यम्, नैतावद् दद्मः, यतो नैतावत्समंतुलति। स प्राह- एकेन संवत्सरेण हीनं प्रयच्छत, तदपि प्रतिषेधनीयंचेद्वाभ्यां संवत्सराभ्यां हीनंदत्त। एवं तावत् विभाषा कर्तव्या,यावदेकेन दिवसेन कृतो योऽनेन धर्मस्तं प्रयच्छत / ततो वक्तव्यम्-नाऽभ्यधिकं दद्यः,किन्तुयावत्तद्गृहीतं मुहूर्तादिकृतेन धर्मेण तोल्यमानं समंतुलति,तावत्प्रयच्छामः। एवमुक्तेयदितोलनाय ढौकते, तदा विद्यादिभिस्तुला स्तम्भनीया, येन क्षणमात्रकृतेनाऽपि धर्मेण न समं तोलयतीति / धर्मतोलनं च धर्माधिकरणिकनीतिशास्त्र - प्रसिद्धमस्ति,ततोऽवसातव्यम्। जइ पुण नेच्छेज्ज तवं, वाणियधम्मेण ताहे सुद्धो उ / को पुण वाणियधम्मो, सामुद्दे संभमे इणमो॥ वत्थाणाभरणाणि य, सव्वं छड्डित्तु एगविंदेण। पोयम्मि विवण्णम्मि उ, वाणियधम्मे हवइ सुद्धो॥