________________ अट्ठजाय 242 - अभिधानराजेन्द्रः - भाग 1 अट्टजाय दूराभोग गवेसण, पंथे जयणा य जा जत्थ॥ पूर्वमनुशासनं तस्य कर्तव्यम्, ततो धर्मकथाप्रसङ्गेन कथनं स्थापत्यापुत्रादेः करणीयम्। एवमप्यतिष्ठति यन्निष्क्रामता स्थापितं द्रव्यं तद् गृहीत्वा समर्पणीयम्, तस्याऽभावे निजकानां तस्य वा भीषणमुत्पादनीयम्, यदि वा राजकुले गत्वा व्यवहारः कार्यः / एवमप्यतिष्ठति यतो यत्र लिङ्गं पूज्यते, ततस्तत्र परिगृह्य समोचनीयः / एतस्याऽपि प्रयोगस्याभावे दूरेणोच्छिन्नस्वामिकतया, दूरदेशव्यवधानेन वा यन्निधानंतस्याऽऽभोगः कर्तव्यः,तदनन्तरं तस्य गवेषणया च गमने पथि मार्गे यतना यथौघनिर्युक्तावुक्ता तथा कर्तव्या। या च यत्र यतना साऽपि तत्र विधेया यथासूत्रमिति द्वारगाथासंक्षेपाऽर्थः। साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनु-शासनकथनद्वारं प्राह - नित्थिण्णो तुज्झघरे, रिसिपुत्तो मुंच होहिई धम्मो। धम्मकहापसंगेण, कहणं थावचपुत्तस्स॥ एष ऋषिपुत्रस्तव गृहेऽवमादिकं समस्तमपि निस्तीर्णोऽधुना व्रतग्रहणार्थमुद्यत इत्यमुंमुञ्च, तवापि प्रभूतो धर्मो भविष्यतीति। एतावता गतमनुशासनद्वारम् / तदनन्तरं धर्मकथाप्रसङ्गेन च कथनं स्थापत्यापुत्रस्य करणीयम्, यथास स्थापत्यापुत्रो व्रतं जिघृक्षुर्वासुदेवेन महता निष्क्रमणमहिम्ना निष्काश्य पार्श्व-स्थितेन व्रतग्रहणं कारितः, एवं युष्माभिरपि कर्तव्यम्। तह वि य अठंते ठवियं, भीसण ववहार निक्खमंतेण / तं घेत्तूणं देजइ, तस्सासइए इमं कुज्जा। तथापिच, अनुशासने कथने च कृते इत्यर्थः / अतिष्ठति स्थापितं देयम्, भीषणं वा करणीयम्, व्यवहारे वा समाकर्षणीयः / तत्र स्थापितं भावयति / तेन पित्रा निष्कामता यत्किमपि स्थापितं द्रव्यमस्ति तद् गृहीत्वा तस्मै दातव्यम्। उपलक्षणमेतत्। तेनैतदपिद्रष्टव्यम् - अभिनवः कोऽपि शिष्यक उपस्थितस्तस्य यत्कि मप्यर्थजातं स्थापितमस्ति, यदि वा गच्छान्तरे यः कोऽपि शैक्षक उपस्थितस्तस्य हस्ते यद् द्रव्यमवतिष्ठते, तद् गृहीत्वा तस्मै दीयते, तस्य द्रव्यस्यासत्यभावे इदं वक्ष्यमाणं कुर्यात् / तदेवाऽऽहनीयल्लगाण तस्स व, भीसणं रायउले सयं वावि। अविरिक्कामो अम्हे, कहं व लज्जा न तुज्झ ति॥ ववहारेणं अहयं, भागं पेच्छामि बहुतरागं भे। अचियलिंगं च करे, पण्णवणा दावणट्ठाए। निजकानामात्मीयानां स्वजनानां, तस्य वा भीषणं कर्तव्यम् / यथा वयमविरिक्ता अविभक्तरिक्था व महे, ततो मोचयत मदीयं पुत्रं, कथं वा केन युष्माकं न लज्जाऽभूद् यदेवं मदीयपुत्रो दासत्व-मापन्नोऽद्यापि धृतो वर्तत इह। अथैवमुक्ते ते द्रव्यं न प्रयच्छन्ति, तत इदमपि वक्तव्यम् - राजकुलं गत्वा व्यवहारेणाऽप्यहं भागं बहुतरकं प्रभूततरकंग्रहीप्यामि(भे) भवतां पार्थे, तद्वरमिदानी स्तोकं प्रयच्छथा एवं तेषां भीषणं कर्तव्यम्। यदि वा येन गृहीतो वर्तते तस्य भीषणं विधेयम्, यथा यदि मोचनीयं तर्हि मोचय, अन्यथा भवतस्तं शापं दास्यामि येन न त्वम्, नेदं वा तव कुटम्बकमिति। एवं भीषणेऽपि कृते यदिन मुञ्चति, यदि वाते स्वजनान किमपि प्रयच्छन्ति, तदा स्वयं राजकुले गत्वा निजकैः सह व्यवहारः करणीयः, व्यवहारं च कृत्वा भाग आत्मीयो गृहीत्वा तस्मै दातव्यः / यद्वा- स एव राजकुले व्यवहारेणाकृष्यते, तत्र च गत्वा वक्तव्यम्यथाऽयमृषिपुत्रो व्रतं जिघृक्षुः केनापि कपटेन धृतस्तं न वर्तते, यूयं च धर्मव्यापारनिषण्णास्ततो यथाऽयं धर्ममाचरति, यथा चाऽमीषामृषीणां समाधिरुपजायते तथा यतध्वमिति। अस्याऽपि प्रकारस्याऽभावे यद्यत्र लिङ्गमर्चितं तत्परिगृह्यं दापनार्थम्, विवक्षितबालकमोचनार्थमित्यर्थः। तल्लिङ्गधारिणां मध्ये ये महान्तस्तेषां प्रज्ञापना कर्तव्या, येन ते मोचयन्ति। सम्प्रति दूराभोगेत्यादि व्याख्यानार्थमाहपुट्ठा व अपुट्ठा वा, चुयसामिभिहिं कहिंति ओहाई। घेत्तूण जावदट्ठा, पुणरवि सा रक्खणा जयणा / / यदि वा अवध्यादयोऽवधिज्ञानिनः / आदिशब्दाद्विशिष्ट श्रुतज्ञानिपरिग्रहः / पृष्टा वा अपृष्टा वा तथाविधं तस्य प्रयोजनं ज्ञात्वा च्युतस्वामिकं निधिमुत्सन्नस्वामिकं निधिं कथयन्ति, तदानीं तस्य तेषां तत्कथनकस्योचितत्वात्। ततो यावदर्थः, यावता प्रयोजनं तद् गृहीत्वा पुनरपि तस्य निधिसंरक्षणं कर्तव्यम् / प्रत्यागच्छता च यतनाविधिर्या, सा चाऽग्रे स्वयमेव वक्ष्यते। सोऊण अट्ठजायं, अटुं पडिजग्गए य आयरिओ। संघाडयं विदेंति य, पडिजग्गइणं गिलाणं पि॥ निधिग्रहणाऽर्थं मार्गे गच्छन्तमर्थजातं साधुं श्रुत्वा सांभोगिको वाऽऽचार्योऽर्थं प्रतिजागर्ति उत्पादयति। यदि पुनस्तस्य द्वितीयः संघाटको न विद्यते, ततः संघाटकमपि ददाति। अथ कथमपिग्लानो जायते ततो ग्लानमपि जागर्ति, नतूपेक्षते, जिनाज्ञाविराधनप्रसक्तेः / यदुक्तमनन्तरं यतना प्रत्यागच्छता कर्तव्या, तामाह - काउंनिसीहियं जा-ट्ठजायमावेयणं च गुरुहत्थे। दाऊण पडिक्कमणं,मा पेहंता मिगा पेसो।। यत्रान्यगणे स प्राघूर्णक आयाति, तत्र नैषेधिकीं कृत्वा, 'नमः क्षमाश्रमणेभ्यः' इत्युदित्वा च मध्ये प्रविशति / प्रविश्य च यदर्थजातं तद्गुरुभ्य आवेदयति कथयति / आवेद्य च तदर्थजातं गुरुहस्ते दत्त्वा प्रतिक्रामति। न स्वपार्श्व एव स्थित इति वेदयत आह-मा प्रेक्षमाणा मृगा इव मृगा अगीतार्थाः क्षुल्लकादयः पश्येयुर्गुरुहस्तेऽवस्थितंतनिरीक्षन्ते, अस्मद्गुरूणां समर्पित-मिति विरूपसंकल्पेऽप्रवृत्तेः। सम्प्रति 'जयणाय जा जत्थेति' तद्व्याख्यानार्थमाहसन्नी व सावको वा, निरूविए देज अट्ठजातस्स। पचुप्पण्णनिहाणे, कारणजाएगहणसोही। यत्र संज्ञी सिद्धपुत्रः श्रावको वावर्त्तते तत्र गत्वा तस्मै स्वरूपं निवेदनीय, प्रज्ञापना च कर्त्तव्या। ततो यत्तत्र तेन प्रत्युत्पन्नं तव निधानं गृहीतं वर्तते तस्यार्थजातस्य मध्यात्कतिपयान् भागान् दद्यात् / स्वयं तदानीं प्रज्ञापनातो वा गीतार्थत्वात्। अस्य प्रकारस्याऽभावे यन्निधानं दूरमवगाढं वर्तते, ततस्तेन उत्खन्य दीयमानमधिकृते कारणजाते गृह्णानोऽपिशुद्धः, भगवदाज्ञावत-नात् / गतमवमद्वारम्। इदानीमापन्नद्वारमाहथोवं पिधरेमाणो, कप्पइ दासत्तमेव अदलते। परदेसम्मि विलब्मति, वाणियधम्मो ममेस त्ति।