________________ अट्ठगुणोववेय 241 - अभिधानराजेन्द्रः - भाग 1 अट्ठजाय चोक्तम् - "पुण्णं रतं च अलंकियं च वत्तं तहेव अविपुढे / महुरं समं सललियं, अट्टगुणा होति गेयस्स" // 1 // जी०३ प्रतिका अट्ठचक्कवालपइहाण-त्रि०(अष्टचक्रवालप्रतिष्ठान) अष्टचक्र-प्रतिष्ठिते, "एगमेगेणं महाणिही अट्टचक्कवालपइहाणे अट्ठ अट्ठ-जोअणाई उड्ड उच्चत्तेणं"। जी०३ प्रति०।। अट्ठजाय-न०(अष्टजात) जातशब्दो भेदवाचकः / अर्थभेदे, नि० चू०१ उ० धनार्थिनि, व्य०२ उ०। सूत्रम् - अट्ठजायं भिक्खुं गिलायमाणं नो कप्पइ / तस्स गणावच्छेदयस्स निहित्तए अगिलाए करणिज्जं वेयावडियं जाव रोगातंकातो विप्पमुक्के, ततो पच्छा अहा लहुस्सगे नामं ववहारे पट्टवियव्वे सिया। साम्प्रतमर्थजातं भिक्षु ग्लायन्तमित्यत्र योऽर्थजातशब्दः, तदुत्पत्तिप्रतिपादनार्थमाह - अत्थेण जस्स कर्ज,संजातं अट्ठजातोय। सो पुण संजमभावा, चालिजंतो परिगिलाई। अर्थेनार्थितया जातं कार्य यस्यासंबन्धविवक्षायामत्र षष्ठी, येनेत्यर्थः। सोऽर्थजातः गमकत्वादेवमपि समासः ! उपलक्षणमेतत् / तेनैवमपि | व्युत्पत्तिरवसातव्या।अर्थः प्रयोजनं जातोऽस्येत्यर्थजातः। पक्षद्वयेऽपि / तान्तस्य परनिपातः, सुखा-दिगणे दर्शनात्। स पुनः कथं ग्लायतीति चेदत आह- स पुनः प्रथमतः प्रथमव्युत्पत्तिसूचितः संयमभावाद् चाल्यमानःनिष्कास्यमानः परिग्लायति / द्वितीयव्युत्पत्तिपक्षे प्रयोजनानिष्पत्त्या ग्लायति, तस्योभयस्यापिअगिलया प्रागुक्तस्वरूपया वक्ष्यमाणं वैयावृत्त्यं करणीयम्, यावद् रोगातङ्कादिव रोगातकात् संयमभावचलनात् प्रयोजनानिष्पादनाच विप्रमुक्तः स्यात्। ततः पश्चाद् यत्किमप्या-चरितं भीषणादि, तद्विषये यथा लघुस्वको व्यवहारः प्रस्थापितः स्यादिति। सम्प्रति नियुक्तिकृत् येषु संयमस्थितस्याप्यर्थजातमुत्पाद्यते, तान्यभिधित्सुराहसेवगपुरिसो ओमे, आवन्न अणत्त बोहिगे तेणे। एएहि अट्ठजातं, उप्पज्जइ संजमठियस्स।। सेवकपुरुषे सेवकपुरुषविषये, एवमवमे दुर्भिक्षे, तथाऽऽपन्ने दासत्वं समापन्ने, तथा विदेशान्तरगमने उत्तमर्णनानाप्ते, तथा बोधिकैरपहरणे, स्तेनैरपहरणे च / बोधिकाः अनार्यम्लेच्छाः, स्तेना आर्यजनपदजाता अपि शरीरापहारिणः / एतैः कारणैरर्थजातं प्रयोजनजातमुत्पद्यते, संयमस्थितस्यापीति। एष नियुक्ति-गाथासंक्षेपार्थः। साम्प्रतमेनामेव विवरीतुकामः प्रथममाहअपरिग्गहगणियाए, सेवगपुरिसो उ कोइ आलत्तो। सा तं अतिरागेणं, पणयए हु अट्ठजाया य॥ सा रूविणि त्ति काउं, रण्णाऽऽणीया उ खंधवारेण / इयरो तीए विउतो, दुक्खत्तो चेय निक्खंतो।। पचागय तं सोउं, निक्खंतं बेइ गंतु णं तहियं / बहुयं मे उवउत्तं, जइ दिजइ तो विसज्जामि॥ न विद्यते परिग्रहः कस्याऽपि यस्याः साऽपरिग्रहा, सा चाऽसौ गणिका च अपरिग्रहगणिका, तया कोऽपि राजादीनां सेवकः पुरुष आलपितः संभाषितः / आलप्य च स्वगृहमानीतः / सा अर्थजाता सती तं पुरुषमतिरागेणाऽतिरागवशात् प्रणयते प्रसादयति / अन्यदा सा गणिका रूपिणी अतिशयेन रूपवतीति कृत्वा राज्ञा स्कन्धावारेण कटकेन गच्छता आत्मना सहानीता। इतरोऽपि च सेवकपुरुषस्तया गणिकया वियुक्तो दुःखातः / प्रियाविप्रयोगपीडितो निष्क्रान्तस्तथा-रूपाणामन्तिके प्रव्रज्यां प्रतिपन्नः / सा च वेश्या राज्ञा सह प्रत्यागता तं पुरुषं न पश्यति स्म, गवेषयितुमारब्धः / ततः कस्यापि पार्श्वे निष्क्रान्तं श्रुत्वा यत्र स तिष्ठति स्म, तस्यां वसतौ गत्वा तान् स्थविरान् ब्रूते- बहुकं प्रभूतं ममतु द्रव्यमनेनोपयुक्तमात्मोपयोग नीतम्, भुक्तमित्यर्थः , तद्यदि दीयते ततो विसृजामि। एवमुक्ते यत् कर्तव्यं स्थविरैस्तदाहसरमेयवण्णभेयं, अंतद्धाणं विरेयणं वा वि। वरधणुमयवेस पुस्स-भूती कुसलो सुहुमे य झाणम्मि।। गुटिकाप्रयोगतस्तस्य स्वरभेदं वर्णभेदं वा स्थविराः कुर्वन्ति, यथा सा तं न प्रत्यभिजानाति, यदि वा ग्रामान्तरादिप्रेषणेनाऽन्तद्धनिं व्यवधानं क्रियते। अथवा तथाविधौषधप्रयोगतो विरेचन कार्यते येन सग्लान इव लक्ष्यते, कृच्छ्रेणैष जीवतीति ज्ञात्वा सातं मुञ्चति / अथवा शक्तौ सत्यां यथा ब्रह्मदत्तहिण्ड्यां धनुःपुत्रेण वरधनुना मृतकवेषः कृतस्तथैव निश्चलो निरुच्छ्वासः सूक्ष्ममुच्छ्वसन् तिष्ठति, येन मृत इति ज्ञात्वा तया विसृज्यते। यदि वा पुष्पभूतिराचार्यः सूक्ष्मेध्याने कुशलः सन्ध्यानवशाद् निश्चलो निरुच्छ्वासोऽप्यतिष्ठत् तथा तेनापि सूक्ष्मध्यानकुशलेन तथा स्थातव्यं येन सा मृत इत्यवगम्य विमुञ्चति। एषां प्रयोगाणामभावेअणुसिट्टि उच्चरती, गर्मेति णं मित्तणायगादीहिं। एवं पि अट्ठजायं, करेंति सुत्तम्मि जं वुत्तं // तस्या गणिकाया यानि मित्राणि, ये च ज्ञातयः आदिशब्दात् तदन्यतथाविधपरिग्रहः / तैः स्थविरास्तां गमयन्ति बोधयन्ति, येनाऽनुशिष्टिमुच्चरति, मुत्कलनं करोतीति भावः / एवमपि अतिष्ठन्त्यां तस्यां यदुक्तं सूत्रे तत्कुर्वन्ति, "स मोचयितव्यः" इति सूत्रे मोचनस्याभिधानात् / तथा चोक्तम् - "ताहे सो मोक्खेयव्यो एवं सुत्ते भणियं" इति। गतं सेवकपुरुषद्वारम्। अधुनाऽवमद्वारमाहसुकुटुंबो निक्खंतो,अव्वत्तं दारगं तु निक्खिविओ। मित्तस्स घरे सो विय, कालगतो तोऽवमं जयं / / तत्थ अणादिजंतो, तस्स उ पुत्तेहि सो तओ चेडो। घोलतो आवण्णो, दासत्तं तस्स आगमणं // मथुरायां किल नगर्या कोऽपि वणिक् अव्यक्तं बालं, दारकं पुत्रं, मित्रस्य गृहे निक्षिप्य सकुटुम्यो निष्क्रान्तः, सोऽपि च मित्रभूतः पुरुषः कालं गतः। (तो त्ति) तस्मात्तस्य कालगमनादनन्तरमवमं दुर्भिक्षं जातम् / तत्र च दुर्भिक्षे तस्य मित्रस्य पुत्रैः स चेडो-ऽनाद्रियमाणोऽन्यत्रान्यत्र धोलति परिभ्रमति, स च तथा परिभ्रमन् कस्याऽपि गृहे दासत्वमापन्नः। तस्य च पितुर्यथाविहारक्रमं विहरतस्तस्यामेव मथुरायामागमनं जातम्। तेन च सर्वं तज्ज्ञातम्। सम्प्रति तन्मोचने विधिमभिधित्सुराहअणुणास कहण ठवियं, भीसण ववहार लिंग जं जत्थ।