________________ अट्ठज्झाण २३७-अभिधानराजेन्द्रः - भाग 1 अट्ठज्झाणवेरग्ग आशङ्काया एवाऽनुपपत्ते रिति / आह- उक्तं भवता आर्तध्यानं संसारवर्द्धनमिति, तत्कथमुच्यते? बीजत्वात्। बीजत्वमेव दर्शयन्नाहरागो दोसो मोहो, जेणं संसारहेअवो भणिआ। अट्टमि अ ते तिन्नि वि, तो तं संसारतरुबीअं॥१३॥ रागो द्वेषो मोहश्च येन कारणेन संसारहेतवः संसारकारणानि भणिता उक्ताः, परममुनिभिरिति गम्यते।आर्ते चार्तध्यानेच त्रयोऽपि ते रागादयः संभवन्ति / यत एवं, ततस्तत्संसारतरुबीजं भववृक्षकारणमित्यर्थः / आह- यद्येवमोघत एव संसारतरुबीजं ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ? उच्यते-तिर्यग्गतिगमन-निबन्धनत्वेनैव संसारतरुबीजमिति। अन्ये तुव्याचक्षते-तिर्यग्गतावेव प्रभूतसत्त्वसंभवास्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः // 13 // इदानीमार्तध्यायिनो लेश्याः प्रतिपाद्यन्ते - कावोअनीलकाला, लेसाओ णाइसंकिलिट्ठाओ। अट्टज्झाणोवगय-स्स कम्मपरिणामजणिआओ ||14|| कापोतनीलकृष्णाः लेश्याः / किं भूताः ?, नातिसं क्लिष्टा रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावाः, भवन्तीति क्रिया / कस्येत्यत आह-आर्तध्यानोपगतस्य, जन्तोरितिगम्यते। किं निबन्धना एताः? इत्यत आह-कर्मपरिणामजनिताः / तत्र-"कृष्णादिद्रव्य साचिव्यात्, परिणामो य आत्मनः। स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते" ||१|एताश्च कर्मोदयायत्ता इति गाथार्थः / / 14 / / आव०४ अ01 आह- कथं पुनरोधत एवाऽऽर्त ध्यायन् ज्ञायत इत्युच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह - अट्टस्स णं झाणस्स चत्तारि लक्खणा पन्नता / तं जहाकंदणया, सोयणया, तिप्पणया, परिदेवणया। लक्ष्यते निर्णीयतेपरोक्षमपि चित्तवृत्तिरूपत्वात् आर्तध्यान-मेभिरिति लक्षणानि। तत्र क्रन्दनता- महता शब्देन विरवणम् ,शोचनता- दीनता, तेपनता- तिपेः क्षरणार्थत्वादश्रुविमोचनम् , परिदेवनता-पुनः पुनः पक्लिष्टभाषणमिति / एतानि चेष्टवियोगा निष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि। स्था० 4 ठा० 1 उ०। यत आहतस्सऽकंदणसोअणपरिदेवणताडणाई लिंगाई। इट्ठाणिट्ठविओगा-विओगविअणानिमित्ताई।।१५।। तस्यार्तध्यायिनः, आक्रन्दनादीनि लिङ्गानि। तत्राक्रन्दनं महताशब्देन विरवणम्, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्यम् , परिदेवनं पुनः पुनः क्लिष्टभाषणम्, ताडनमुरःशिरःकुट्टनकेशलुञ्चनादि, एतानि लिङ्गानि चिह्नानि, अमूनि च इष्टानिष्टवियोगाऽवियोगवेदना-निमित्तानि / तत्रेष्टवियोगनिमित्तानि, तथाऽनिष्टावियोगनिमित्तानि, वेदनानिमित्तानि चेति गाथार्थः // 15 // किंचाऽन्यत् - निंदइ निअयकयाई, पसंसई विम्हिओ विभूईओ। पत्थेइ तासु रजइ, तयज्जणपरायणो होई॥१६|| निन्दति च कुत्सति च निजकृतानि आत्मकृतानि अल्पफलविफलानि, कर्मशिल्पकलावाणिज्यादीन्येतद् गम्यते। तथा प्रशंसति स्तौति बहु मन्यते सविस्मयः साश्चर्यः विभूतीः परसंपद इत्यर्थः / तथा प्रार्थयते अभिलषति, परविभूतीरिति / तथा तासु रज्यते, तास्विति प्राप्तासु विभूतीषु रागं गच्छति, तथा तदर्जन-परायणो भवति / तासां विभूतीनामर्जन उपादाने परायण उद्युक्तस्तदर्जनपरायण इति / ततो यश्चैवंभूतो भवत्यसावप्यात ध्यायतीति गाथार्थः // 16 // किञ्चसद्दाइविसयगिद्धो, सद्धम्मपरम्मूहो पमायपरो। जिणमयमणविक्खंतो, वट्टइ अट्टम्मि झाणम्मि ||17|| शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषु गृद्धो मूञ्छितः, काक्षावानित्यर्थः / तथा सद्धर्मपराङ्मुखः प्रमादपरः / तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, संश्चासौ धर्मश्च सद्धर्मः, क्षान्त्यादिकश्चरणकरणधर्मो गृह्यते, तत्पराङ्मुखः / प्रभादपरो मद्यादिप्रमादासकः, जिनमतमनपेक्षमाणो वर्तते आर्ते ध्यान इति / तत्र जिनास्तीर्थकरास्तेषां मतमागमरूपम्, प्रवचनमित्यर्थः / तदनपेक्षमाणस्तन्निरपेक्ष इत्यर्थः / किम् ? वर्तते, आर्तध्याने। इति गाथार्थः / / 17 // साम्प्रतमिदमार्तध्यानसंभवमधिकृत्य यदनुगतं यदर्ह च वर्तते, तदेतदभिधित्सुराहतयविरयदेसविरय-प्पमायपरसंजयाणुगच्छाणं। सव्वं पमायमूलं, वज्जे अव्वं जइजणेणं // 18 // तदातध्यानमिति योगः / अविरतदेशविरतप्रमादपरसंयतानुगतमिति / तत्राविरता मिथ्यादृष्टयः सम्यग्दृष्टयश्च, देशविरता * एकद्व्याघणुव्रतधरभेदाः श्रावकाः, प्रमादपराः प्रमादनिष्ठाश्च, ते संयताच, ताननुगच्छतीति विग्रहः / नैवाप्रमत्तः संयतानामिति भावः / इदं च स्वरूपतः सर्वं प्रमादमूलं वर्तते, यतश्चैवमतो वर्जयितव्यं परित्यजनीयम्, केन ? यतिजनेन साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन च / परित्यागार्हत्यादेवास्येति गाथार्थः ||18|| आव०४ अ०। ध०। प्रव०। 이 이 अट्टज्झाणवियप्प-पुं०(आर्त्तध्यानविकल्प) अशुभध्यान भेदे, "जो एत्थ अभिरसंगो, संतासंतेसु पावहेउ त्ति। अट्टज्झाण-वियप्पो, स इमीए संगओ रूवं" ||1|| पं०१ द्वा०। अट्टज्झाणवे रग्ग-न०(आर्तध्यानवैराग्य) आर्तध्यानं च तद् वैराग्यम्। वैराग्यभेदे, हा०ा तल्लक्षणम् - इष्टेतरवियोगादि-निमित्तं प्रायशो हि यत्। यथाशक्त्यपि हेयादा-वप्रवृत्त्यादिवर्जितम्।॥२॥ उद्वेगकृद्विषादाढ्य-मात्मघातादिकारणम्। आर्त्तध्यानं ह्यदो मुख्यं, वैराग्यं लोकतो मतम् // 3 // इष्टश्च प्रियः, इतरश्चानिष्टः, इष्टे तरौ विषयाविति गम्यते / तयोयथासङ्कचेन यो वियोगादिविरहसंप्रयोगौ, स निमित्तं कारणं यस्य तदिष्टेतरवियोगादिनिमित्तम्, प्रायशो बाहुल्येन न पुनरिष्टेतरवियोगादिनिमित्तमेव, स्वविकल्पनिमितस्यापि तस्य संभवात्। हि शब्दो यस्मादर्थे / तत्प्रयोगं च दर्शियिष्यामः / यदिति वैराग्यमद एतदार्तध्यानमेवेति सम्बन्धः / कुतः? तदाऽऽर्तध्यानमेव,न पुनर्यथावद्वैराग्यमित्याह- यस्माद् यथाशक्त्यपि सामर्थ्याऽनुरूपम-प्यास्तां श्रद्धाऽतिशयाच्छवत्यतिक्रमतः हेयादौ हेयोपादेयवस्तुविषये क्रमेणाप्रवृत्त्यादिवर्जितं निवर्तनविरहितं यत्किल यथावद्वैराग्यं भवति, तद्धीन्द्रियार्थेषूपादे येषु च