SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ अट्ठज्झाण 236 - अभिधानराजेन्द्रः - भाग 1 अट्ठज्झाण अधुना तृतीयमुपदर्शयन्नाहआतंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागए यावि भवइ। आतङ्को रोगः इति। स्था० 4 ठा० 1 उ०। इट्ठाणं विसयाईण वेअणाइ अरागरत्तस्स। अविओगज्झवसाणं,तह संजोगामिलासो ||8|| इष्टानां मनोज्ञानां विषयादीनामिति / विषयाः पूर्वोक्ताः / आदि शब्दावस्तुपरिग्रहः / तथा वेदनायाश्च इष्टाया इति वर्तते / किम् ? अवियोगाध्यवसानमिति योगः / अविप्रयोगदृढाध्यवसाय इति भावः / अनेन च वर्तमानकालग्रहः, तथा संयोगाभिलाषश्चेति, तत्र तथेति / धणियत्तमित्यनेनात्यर्थप्रकारोपदर्शनार्थः / संयोगाऽभिलाषः- कथं ममैभिर्विषयादिभिरायत्यां संबन्धः? इतीच्छ, अनेन च अनागतकालग्रह इति वृद्धा व्याचक्षते / चशब्दात् पूर्ववदतीतकालग्रह इति / किंविशिष्टस्य सत इदमवियोगाऽध्यवसानादि? अत आह- रागरक्तस्य, जन्तोरिति गम्यते / तत्राऽभिष्वङ्गलक्षणो रागः, तेन रक्तस्य तद्भावित- मूर्तरिति गाथार्थः। उक्तस्तृतीयो भेदः। आव० 4 अ०। साम्प्रतं चतुर्थमभिधित्सुराहपरिझुसिय कामभोगसंपओगसंपउत्ते तस्स अविप्पओगसितिसमण्णागए यावि भवइ।। (परिझुसिय त्ति) निषेविता ये कामाः कमनीया भोगाः शब्दादयः / अथवा कामौ शब्दरूपे, भोगा गन्धरसस्पर्शाः / कामभोगाः कामानां वा शब्दादीनां यो भोगस्तैस्तेन वा संप्रयुक्तः / पाठान्तरे तु तेषां तस्य वा संप्रयोगस्तेन संप्रयुक्तो यः स तथा। अथवा (परिझुसिय त्ति) परिक्षीणो जरादिना, स चाऽसौ कामभोगसम्प्रयुक्तश्च यस्तस्य, तेषामेवाविप्रयोगस्मृतेः समन्वागतं समन्वाहारस्तदपि भवत्यार्त्तध्यानमिति। स्था० 4 ठा। देविंदचकवट्टित्तणाइ गुणरिद्धिपत्थणामइयं। अहम निआणचिंतणमन्नाणाणुगयमचंतं / / / / दीव्यन्तीति देवा भवनवास्यादयस्तेषामिन्द्राः प्रभवो देवेन्द्राश्वमरादयः / तथा चक्रं प्रहरणं, तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिन्मे भरतादयः। आदिशब्दाद् बलदेवा-दिपरिग्रहः / अमीषां गुणद्धयो देवेन्द्रचक्रवादिगुणर्द्धयः / तत्र गुणास्तु रूपादयः, ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तद्याच्यामयमित्यर्थः / किं तद् ? अधर्म जघन्यं, निदानचिन्तनं निदानाऽध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्याम्, इत्यादिरूपः। आह- किमिति तदधममुच्यते ? तस्मादज्ञानानुगतम्, अत्यन्तम् , तथा च नाज्ञानिनो विहाय सांसारिक सुखेऽन्येषा-मभिलाष उपजायते / उक्तं चअज्ञानान्धाश्चटुलवनितापा-विक्षेपितास्ते. कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा / विद्वच्चित्तं भवति हि महन्मोक्षकाझै कतानं, नाल्पस्कन्धे विटपिनि कषत्यसभित्तिं गजेन्द्रः।।१।। मन्दाक्रान्तावृत्तम्। इति गाथार्थः / उक्तश्चतुर्थो भेदः / आव० 4 अ०। द्वितीयं वल्लभधनादिविषयं, चतुर्थं तत्संपाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः। शास्त्रान्तरे (आवश्यके) तुद्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम् , चतुर्थं तत्र निदानमुक्तम्। उक्तंच- "अमणुण्णाणं सद्दाणं" इत्यादि। स्था०४ ठा०१ उ०। साम्प्रतमिदं यथाभूतस्य भवति यद्वर्धनं चेदमिति तदेतदभिधातुकाम आहएयं चउव्विहं रागदोसमोहंकिअस्स जीवस्स। अट्टज्झाणं संसारवडणं तिरिअगइमूलं / / 10 / / एतदनन्तरोदितं चतुर्विधं चतुःप्रकारं रागद्वेषमोहम् / किं तस्य ? रागादिलाञ्छितस्येत्यर्थः / कस्य ?, जीवस्य आत्मनः / किम् ? आर्तध्यानमिति / तथा चतुष्टयमपि किं विशिष्टम् ? इत्यत आहसंसारवर्द्धनम्, ओघतस्तिर्यगतिमूलं विशेष इति गाथार्थः / आहसाधोरपि शूलवेदनाभिभूतस्यासमाधानादात ध्यानप्राप्तिरित्यत्रोच्यते-रागादिवशवर्त्तिनो भवत्येव, न पुनरन्यस्येति / आह च ग्रन्थकार:मज्झत्थस्स उ मुणिणो, सकम्मपरिणामजणिअमेअंति। वत्थुस्सहावचिंतणपरस्स सम्मंसहंतस्स // 11 // मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते। तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चाऽवधारणे / मध्यस्थस्यैव नेतरस्य / मनुते जगतस्त्रिकालावस्थामिति मुनिः, तस्य मुनेः, साधोरित्यर्थः / स्वकर्मपरिणामजनितमेतत् छलादि, यच्च प्राक्कर्मविपरिणामिदैवादशुभमापतति,न तत्र परिताप्या भवन्ति सन्तः। उक्तं च परममुनिभिः - पुट्विंचखलु भो ! कडाणं कम्माणं दुचिन्नाणं दुप्पचिक्वंताणं वेइत्ता मोक्खो, नस्थि, अवे इत्ता, तवसा वा झोसइता, इत्यादि / इत्येवं वस्तुस्वभावचिन्तनपरस्य सम्यक् शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानम् ? अपितुधर्ममनिदानमिति वक्ष्यतीति गाथार्थः / / 11 / / परिहताऽऽशङ्का, गतः प्रथमपक्षः। द्वितीयतृतीयावधिकृत्याहकुणओ व पसत्थालंबणस्स पडिआरमप्पसावज्जं / तवसंजमपडिआरं, च सेवओ धम्ममणिआणं / / 12 / / कुर्वतो वा, कस्य ? प्रशस्तं ज्ञानाद्युपकारकम्, आलम्ब्यत इत्याम्बनं प्रवृत्तिनिमित्तं शुभमध्यवसानमित्यर्थः / उक्तं च-"कोहं अच्छित्तिमित्यादि प्रशस्तमालम्बनं वृत्तं यस्याऽसौ प्रशस्ता-लम्बनः, तस्य / किं कुर्वतः ? इत्यत आह- प्रतीकारं चिकित्सा-लक्षणम् , किंविशिष्टम् ? अल्पसावद्यम्, अवधं पापं, सहाऽवद्येन सावद्यम्। अल्पशब्दोऽभाववाचकः स्तोकवचनो वा / अल्पं सावा यस्मिन्नसावल्पसावधस्तं धर्ममनिदानमेवे ति योगः / कुतः? निर्दोषत्वात् / निर्दोषत्वं च वचनप्रामाण्यात्। उक्तंच -"गीयत्थो जयणाए कडजोगी कारणम्मि निद्दोसो' इत्याद्या-गमस्योत्सर्गापवादरूपत्वात् / अन्यथा परलोकस्य साधयितु- मशक्यत्वात्, साधु चैतदिति / तथा तपःसंयमप्रतीकारं च सेव-मानस्येति / तपःसंयमावेव प्रतीकारः, सांसारिकदुःखानामिति गम्यते / तं च सेवमानस्य, चशब्दात् पूर्वोक्तप्रतीकारं च / किम् ? धर्म धर्मध्यानमेव भवति, कथम् ? सेवमानस्यानिदानमिति क्रिया विशेषणम्, देवेन्द्रादिनिदानरहितमित्यर्थः / आह- कृत्स्न-कर्मक्षयात मोक्षो भवत्वितीदमपि निदानमेव उच्यते, सत्यम् / तदपि निश्चयतः प्रतिषिद्धमेव / कथम् ? - मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः / प्रकृत्यभ्यासयोगेन, यत उक्तो जिनागमे / / 1 / / इति / तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव / अनेनैव प्रकारेण तस्य चित्तशुद्धः, क्रियाप्रवृत्तियोगाचेत्यत्र बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थ-विस्तरभयादिति गाथार्थः / / 12 / / अन्ये पुनरिदं गाथाद्वयं चतुर्भेदमप्यातध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरम् , प्रथमतृतीयपक्षद्वये सम्यग
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy