________________ अट्ट 235 - अभिधानराजेन्द्रः - भाग 1 अट्टज्झाण ऽन्योत्कर्षेऽनादरः / वाचा अट्टाणि वा अट्टालयाणि वा / आचा० 2 श्रु० 11 अ०। अट्यतेऽतिक्रम्यतेऽनेनेत्यट्टः / आकाशे, भ० २०श०२ उ० आर्त-त्रि०ा अर्तिः शारीरमानसी पीडा, तत्र भव आतः / आचा० 1 श्रु०२ अ०५ उ०ा पीडिते, सूत्र०१श्रु०१० अ० दुःखिते, आचा०१ श्रु०४ अ०२ उ०। मोहोदयेन आर्ते, आचा०१ श्रु०६ अ०१ उ० शरीरतो दुःखिते, औ०। मोहोदयादगणितकार्याऽकार्यविवेके च। आचा० 1 श्रु०६ अ० 1 उ०। अस्य निक्षेपः - अट्टे लोए परिजुण्णे दुस्संबोहे अविजाणए / आचा० 1 श्रु० 1 अ० 1 उ०।('पुढविकाय' शब्दे एतत्सूत्रव्याख्यानं वक्ष्यते) अट्टे चउविहे खलु, दव्वे नदिमादि जत्थ तणकट्ठा। आवत्तंते पडिया,से वसुवण्णादि आवट्टे / / आतः खलु चतुर्विधः / तद्यथा-नामातः, स्थापनार्तः, द्रव्यातः, भावार्तश्च / तत्र नामस्थापने सुप्रतीते / द्रव्यार्तोऽपि नोआगमतो ज्ञशरीरव्यतिरिक्तो यत्र नद्यादेः प्रदेशे तृणकाष्ठानिपतितानि आवर्तन्ते, यश्च वा सुवर्णाद्यावर्त्तते, स द्रष्टव्यः / आ सर्वतः परिभ्रमणेन ऋतानि गतानि यत्र यो वा स आर्त इति व्युत्पत्तेः। अहवा अत्तीभूतो, सचित्तादिहि होइ दव्वम्मि। भावे कोहादीहि, उ अभिभूतो होति अट्टो उ॥ अथवा सचित्तादिभिर्द्रव्यैरसंप्राप्तैः प्राप्तवियुक्तैर्वा य आर्तः स द्रव्यातः, द्रव्यैरातॊ द्रव्यात इति व्युत्पत्तेः / क्रोधादिभिरभिभूतो नोआगमतो भावार्तः। तदेवमाशब्दार्थ उक्तः / व्य०४ उ०। आचा० ऋतस्य पीडितस्येदं वचनमिति कृत्वा षोडशे गौणालीके, प्रश्न०२ आश्र०द्वा०। ऋतं दुक्खं, तत्र भवमार्तम् / यदि वा अर्तिः पीडा, पातनं च, तत्र भवमातम्"। ध० 2 अधि०। प्रव० क्लिष्टे, आव०४ अ०। विषयानुरञ्चिते, ध०३ अधि० इष्टविषयसंयोगाभिलाषे, प्रश्न०४ संवद्वा०। एतदात्मके शोकाक्रन्दविलेपनादिलक्षणे वाध्यानभेदे, आव० 4 अ० ज्ञा० अढें-(देशी) कृशे, दुर्बले, गुरौ, महति, शुकपक्षिणि, सुखे, सौख्ये, धृष्ट, विपाते, अलसे, शीतके, शब्दे, ध्वनौ, असत्येच / दे०ना०१ वर्ग। अट्टइ-(देशी) क्वथने, दे०ना० 1 वर्ग। अट्टक-पुं०पअट्टक (आटमो)ब कुट्टितलेपरूतरूपे पात्रछिद्रपूरके द्रव्ये, बृ०१ उ० अट्टज्झाण-न०(आर्तध्यान) ऋतं दुःखम् / उक्तं हि-ऋतशब्दो दुःखपर्यायवाच्याश्रीयते। ऋते भवमार्तम्, उत्त०३० अ०। ऋतं दुःखं, तस्य निमित्तं, तत्र वा भवम् / ऋते वा पीडिते भवमार्तम् / स्था० 4 ठा०१ उ०। आव० तच तद्ध्यानं च। आर्तभावंगत आतः, आर्त्तस्य वा ध्यानमार्तध्यानम् / आ०० 4 अ०) मनोज्ञा मनोज्ञवस्तुवियोगसंयोगादि निबन्धनचित्तविप्लवलक्षणेध्यान-भेदे, स० 1 सम०। राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्ध माल्यमणिरत्नविभूषणेषु / इच्छाभिलाषमतिमात्रमुपैति मोहाद् ध्यानं तदातमिति संप्रवदन्ति तज्ज्ञाः ।।१।दश०१अ०भव-कारणमट्टरुद्दाइ।आर्तध्यानं स्वविषयलक्षणभेदतश्चतुर्धा / उक्तं च भगवता वाचकमुख्येनआर्तममनोज्ञानां संप्रयोगे, तद्विप्रयोगाय स्मृतिसमन्वाहारः। वेदनायाश्व / विपरीतम् मनोज्ञानाम्। निदानं च। इत्यादि। आव० 4 अ० "अहज्झाणे चउव्विहे पण्णत्ते" चतस्रो विधा भेदा यस्य तत्तथा। अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागए यावि भवइ। अमनोज्ञस्याऽनिष्टस्य 'असमणुण्णस्स त्ति' पाठान्तरे- अस्वमनोज्ञस्याऽनात्मप्रियस्य शब्दादिविषयस्य, तत्साधनवस्तुनो वा संप्रयोगः संबन्धस्तेन संप्रयुक्तः संबद्धोऽमनोज्ञसंप्रयोगसप्रयुक्तोऽस्वमनोज्ञसंप्रयोगसंप्रयुक्तो वा, य इति गम्यते / तस्येति, अमनोज्ञस्य शब्दादेविप्रयोगाय वियोगार्थ स्मृतिश्चिन्ता, तां समन्वागतः समनुप्राप्तो भवति यः प्राणी, सोऽभेदोपचारादारीमिति / वाऽपीतिशब्दः विकल्पापेक्षया समुच्चयार्थः / अथवा मनोज्ञसंप्रयोगसंप्रयुक्तो यः प्राणी, तस्य प्राणिनः विप्रयोगेप्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने, स्मृतिश्चिन्तनम् , तस्याः समन्वागतः समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतं वाऽपीति तथैव भवति, आर्त्तध्यानमिति प्रक्रमः। अथवाऽमनोज्ञ-संप्रयोगसंप्रयुक्ते प्राणिनि, तस्येति अमनोज्ञशब्दादेविप्रयोग स्मृतिसमन्वागतमात ध्यानमिति। स्था० 4 ठा०१ उ०। अमणुन्नाणं सहाइविसयवत्थूण दोसमइलस्स। धणि विओगचिंतण-मसंपओगाणुसरणं च / / 6 / / अमनोज्ञानामिति / मनसोऽनुकूलानि मनोज्ञानि, इष्टानीत्यर्थः / न मनोज्ञानि अमनोज्ञानि, तेषाम्, केषामित्यत आह- शब्दादिविषयवस्तूनामिति / शब्दादयश्चैते विषयाश्च, आदिशब्दाद्वर्णादिपरिग्रहः / विषीदन्त्येतेषु सक्ताः प्राणिन इति विषयाः इन्द्रियगोचराः, वस्तूनि तु तदाधारभूतानि रासभादीनि / ततश्च शब्दादिविषयाश्च, वस्तूनि चेति विग्रहः। तेषाम्, किं? संप्राप्तानां सताम्, धणियमत्यर्थम् , वियोगचिन्तनं विप्रयोगचिन्तेति योगः / कथं नु नामभिर्वियोगः स्यादिति भावः / अनेन वर्तमानकाल ग्रहः / तथा सति च वियोगेऽसंप्रयोगानुस्मरणं, कथमेभिः सहैव संप्रयोगाभाव इत्यनेन वाऽनागतकालग्रहः / चशब्दात्पूर्वमपि वियुक्तासंप्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति। किंविशिष्टस्य सत इदं वियोगचिन्तनादि ? अत आह- द्वेषमलिनस्य, जन्तोरिति गम्यते / तत्राप्रीतिलक्षणो द्वेषः, तेन मलिनस्य, तदाक्रान्तमूर्तिरिति गाथार्थः / इति प्रथमो भेदः। साम्प्रतं द्वितीयमभिधित्सुराहतह सूलसीसरोगाइवेअणाए विओगपणिहाणं। तयसंपओगचिंता, तप्पडिआराउलमणस्स |7|| तथेति धणियमत्यर्थमेव / शूलशिरोरोगादिवेदनाया इत्यत्र शूलशिरोरोगौ प्रसिद्धौ / आदिशब्दाच्छे षरोगातङ्कपरिग्रहः / ततश्च शूलशिरोरोगादिभ्यो वेदना / वेद्यत इति वेदना / तस्याः किम् ? वियोगप्रणिधानम्, वियोगे दृढाध्यवसाय इत्यर्थः / अनेन वर्तमानकालग्रहः / अनागतमधिकृत्याहतदसंप्रयोगचिन्ते ति, तस्या वेदनायाः कथंचिदभावे सति असंप्रयोगचिन्ता, कथं पुनर्ममानयाऽऽयत्या संप्रयोगो न स्यादिति चिन्ता चार्तध्यानमेव गृह्यते / अनेन वर्तमानानागतकाल ग्रहणेनातीतकालग्रहोऽपि कृत एव वेदितव्यः / तत्र भावनाऽनन्तरगाथायां कृतैव / किं विशिष्टस्य सत इदं वियोगप्रणिधानादि ? अत आह- तत्प्रतीकारे वेदनाप्रतीकारे चिकित्सायामाकुलं व्यग्रं मनोऽन्तःकरणं यस्य स तथाविधस्त-स्यावियोगप्रणिधानाधार्तध्यानमिति गाथार्थः। उक्तो द्वितीयो भेदः / आव०४ अ०।