________________ अज्झत्तवत्तिय 228 - अभिवानराजेन्द्रः - भाग 1 अज्झत्तविसीयण दण्डस्तत्प्रत्ययिकम्। अष्टमे क्रियास्थाने, तद्यथा- निर्निमित्तमेव दुर्मना उपहतमनःसंकल्पो हृदयेन ह्रियमाणश्चिन्तासागरावगाढः संतिष्ठते। सूत्र० 2 श्रु०१२ अ० एतदेव सूत्रकारोव्यस्यन्नाहअहावरे अट्ठमे किरियाठाणे अज्झत्तवत्तिए त्ति आहिज्जइ। से जहाणामए केइ पुरिसे णत्थि णं केइ किं विसवादेति, सयमेव हीणे दीणे दुढे दुम्मणे ओहय-मणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थमुहे अट्टज्झाणोवगए भूमिगय-दिहिए झियाइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एवमाहिजइ, तं कोहे माणे माया लोहे अज्झत्थमेव कोहमाणमायालोहे एवं खलु तस्सतप्पत्तियं सावजंति आहिज्जइ अट्टमे किरियाठाणे अज्झत्थवत्तिए त्ति आहिए॥१६॥ अथापरमष्टमं क्रियास्थानमाध्यात्मिक मित्यन्तःकरणोद्भवमाख्यायते / तद्यथा नाम किश्चत्पुरुषचित्तोपेक्षाप्रधानस्तस्य च नास्ति कश्चिद्विसंवादयिता न तस्य किश्वद्विसंवादेन परिभावेन वा सद्भूतोद्भावनेन वा चित्तदुःखमुत्पादयति, तथाप्यसौ स्वयमेव वर्णापसदवद् हीनो दुर्गतवद्दीनो दुश्चित्ततया दुष्टो दुर्मनास्तथो-पहतोऽस्वच्छतया मनःसंकल्पो यस्य स तथा। चिन्तैव शोक इति सागरश्चिन्ताप्रधानो वा शोकश्चिन्ताशोकः सागर इव चिन्ता-शोकसागरः / तथाभूतश्च यदवस्थो भवति, तद्दर्शयति-करतले पर्यस्तं मुखं यस्य स तथा अहर्निशं भवति, तथाऽऽर्तध्यानोप-गतोऽपगतसद्विवेकतया धर्मध्यानदूरवर्ती निर्निमित्तमेव द्वन्द्वोप- हतवद् ध्यायति / तस्यैवं चिन्ताशोकसागराव गाढस्य सत आध्यात्मिकान्यन्तःकरणोद्भवानि मनःसंसृतान्यसंशयितानि वा निःसंशयितानि वा चत्वारि वक्ष्यमाणानि स्थानानि भवन्ति, तानि चैवं समाख्यायन्ते। तद्यथा-क्रोधस्थानम्, मानस्थानम्, मायास्थानम्, लोभस्थानमिति / ते चाऽवश्यं क्रोधमानमायालोमा आत्मनोऽधि भवन्त्याध्यात्मिकाः, एभिरेव सद्भिर्दुष्ट मनो भवति। तदेव तस्य दुर्मनसः क्रोधमानमायालोभवत एवमेवोपहत- मनःसङ्कल्पस्य तत्प्रत्ययिकमध्यात्मनिमित्तं सावधं कर्मा-ऽऽधीयते संबध्यते / तदेवमेतत्क्रियास्थानमाध्यात्मिकाख्य- माख्यातमिति / / 16 / / सूत्र० 2 श्रु०२ अ० अज्झत्तवयण-न०(अध्यात्मवचन) आत्मन्यधि अध्यात्मम्, तच तद्वचनम्। हृदयगते वचनभेदे, षोडशवचनानां सप्तममिदम्। आचा०२ श्रु० 4 अ०१ उ०। आत्मन्यधि अध्यात्म हृदयं तं तत्परिहारेणान्यद् भणिष्यतस्तदेव। सहसा पतिते वचने, विशे० आचा। अज्झत्तबिंदु-पुं०(अध्यात्मबिन्दु) यथार्थनामधेये ग्रन्थभेदे, "ये यावन्तोऽध्वस्तबन्धा अभूवन, भेदज्ञानाभ्यास एवात्र मूलम्।ये यावन्तो ध्वस्तबन्धा भवन्ति, भेदज्ञानाभाव एवात्र बीजम् ||1|| इतितद्वचनम्। अष्ट०१४ अष्ट। अज्झत्तविसीयण-नं०(अध्यात्मविषीदन) संयमकष्टमनुभूय मनसि विषण्णीभवने, सूत्र जहा संगामकालम्मि, पिट्ठतो भीरू वेहइ। वलयं गहणं णूम, को जाणइ पराजयं ? ||1|| (जहेत्यादि) दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवति, अत | आदावेव दृष्टान्तमाह- यथा कश्चिद् भीरुरकृतकरणः संग्रामकाले परानीकयुद्धाऽवसरे समुपस्थितः पृष्ठतः प्रेक्षते आदावेवाऽऽपत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानवमलोकयति। तदेव दर्शयति (वलयमिति) यत्रोदकं वलयाकारेण व्यवस्थित-मुदकरहिता वा गर्ता दुःखनिर्गमप्रवेशास्तथा गहनं धवादिवृक्षैः कटिसंस्थानीयम् (णूमं ति) प्रच्छन्नं गिरिगुहादिकम् / किमि-त्यसावेवमवलोकयति ? यत एवं मन्यते-तत्रैवंभूते तुमुले संग्रामे सुभटसकुले को जानाति ? कस्याऽत्र पराजयो भविष्यतीति? यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति // 1 // किञ्चमुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसो। पराजिया वसप्पामो, इति भीरू अवेहई ||2|| मुहूर्तानामेकस्य वा मुहूर्तस्यापरो मुहूर्तः कालविशेषलक्षणोऽवसरस्तादृग भवति यत्र जयः पराजयो वा संभाव्यते, तत्रैवं व्यवस्थिते पराजिता वयमपसामो नश्याम इत्येतदपि संभाव्यते, अस्मद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थ शरणमपेक्षते / / 2 / / श्लोकद्वयेन दृष्टान्तं प्रदर्शदार्शन्तिकमाहएवं तु समणा एगे, अबलं नच्चा णं अप्पगं। अणागयं भयं दिस्स, अविकप्पंतिमं सुयं // 3 // यथा संग्रामं प्रवेष्टमिच्छुः पृष्ठतोऽवलोकयति किमत्र मम पराभग्नस्य वलयादिकं शरणं त्राणाय स्यादिति, एवमेव श्रमणाः प्रव्रजिता एके केचनाऽदृढमतयोऽल्पसत्त्वा आत्मानमबलं यावज्जीवं संयमभारवहनाक्षम ज्ञात्वा अनागतमेव भयं दृष्ट्वा- उत्प्रेक्ष्य / तद्यथा- निष्किञ्चनोऽहं किं मम वृद्धावस्थायां ग्लानावस्थायां दुर्भिक्षे वा त्राणाय स्यादित्येवमाजीविकाभयमुत्प्रेक्ष्य विकल्पयन्ति परिकलयन्ति मन्यन्ते, इदं व्याकरणं, गणितं, ज्यौतिष्कं, वैद्यकं, होराशास्त्रं, मन्त्रादिकं वा श्रुतमधीतं ममाऽयमादौ त्राणाय स्यादिति // 3 // एतच्चैते विकल्पयन्तीत्याहको जाणइ विउवातं, इत्थीओ उदगाउ वा। चोइजंता पवक्खामो, ण णो अत्थि पकप्पियं // 4|| अल्पसत्त्वाः प्राणिनः, विचित्राच कर्मणां गतिः, बहूनि प्रमादस्थानानि विद्यन्ते, अतः को जानाति कः परिच्छिनत्ति व्यापातं संयमजीविताद् भ्रश्यन्तम् / केन पराजितस्य मम संयमाद् भ्रंशः स्यादिति। किं स्त्रीतः स्त्रीपरीषहाद् उतोदकात् स्नाना-द्यर्थमुदकासेवनाभिलाषादित्येवं ते वराकाः प्रकल्पयन्ति, न नोऽस्माकं किंचन प्रकल्पितं पूर्वोपार्जितद्रव्यजातमस्ति, यत्तस्यामवस्थायामुपयोगे समेत्ययास्यति, अतश्चोद्यमानाः परेणापृछ्यमानाः हस्तिशिक्षाधनुर्वेदादिकं कुटिलविण्टलादिकं वा प्रवक्ष्यामः कथयिष्यामः प्रयोक्ष्याम इत्येवं ते हीनसत्त्वाः संप्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति / न च तथापि मन्दभाग्या-नामभिप्रेतार्थावाप्तिर्भवतीति / तथा चोक्तम्- (हरिणीवृत्तम) उपशमफलाद् विद्याबीजात्फलंधनमिच्छताम्, भवति विफलो यद्यायासस्तदत्र किमद्भुतम् ? / न नियतफलाः कर्तुर्भावाः फलान्तरमीशते, जनयति खलु व्रीहेर्बीजं न जातु यवाऽङ्कुरम् / / 1 / / उपसंहारार्थमाह - इचेवं पडिलेहंति, वलया पडिलेहिणो।