________________ अज्जा अजालद्ध २२३-अभिधानराजेन्द्रः - भाग 1 पञ्चक्खा सुयदेवी, ते च लद्धीइ सुराहि अणुया वि। जत्थ एरिसए कुज्जा, इत्थीरजंन तं गच्छं॥ गोयम! पंचमहय्वय-गुत्तीणं दसविहस्स धम्मस्स। एक कह वि खलिज्जइ, इत्थी रख्खं न तं गच्छं। दिणदिक्खियस्स दमगस्स अभिमुहा अजवंदणा अज्जा। निच्छद आसणगहणं, सो विणओ सव्वअजाणं / / वाससयदिक्खियाए, अजाए अजदिक्खिओ साहू। भत्तिभरनिब्भराए, वंदणविणएण सो पुज्जो / महा०५ अ०। (उपध्यादिकम् 'उवहि' आदिशब्देषु द्वि०भा०१०६०पृष्ठे द्रष्टव्यम्) नि०चू०। ग01 अज्जाकप्प-पुं०(आर्याकल्प) आर्याणामेव साध्वीनामेव कल्पते इत्यार्याकल्पः / साध्व्यानीताऽऽहारे, ग01 अथाऽऽर्याव्यतिकरण गच्छस्वरूपमेव गाथादशकेनाहजत्थ य अजाकप्पो, पाणच्चाए वि रोरदुभिक्खे। न य परिभुजइ सहसा, गोयम ! गच्छं तयं भणियं // 61 / / यत्र च गणे आर्याणामेव साध्वीनामेव कल्पते इत्यार्याकल्पः, साध्व्यानीताहार इत्यर्थः / प्राणत्यागेऽपि मरणागमनेऽपि, रोरदुर्भिक्ष दारुणदुष्काले,न च नैव, परिभुज्यते साधुभिरिति शेषः / कथम् ?, सहसेति। अविमृश्य संयमस्य विराधनाविराधने, यतः सर्वत्र संयममेव रक्षेत्, संयमे च तिष्ठति आत्मानमेव रक्षेत्, आत्मानं च रक्षन् हिंसादिदोषाद मुच्यते। मुक्तस्य च प्रायश्चितप्रतिपत्त्या विशुद्धिः स्यात्। तेन च हिंसादिदोषप्रतिसेवनकालेऽप्यविरतिः, तस्याशये विशुद्धतया विशुद्धपरिणामत्वात् / उक्तं चौघनियुक्तौ गाथायाम्-'सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खंता / मुच्चइ वायाओ पुणो विसोही न याविरई" // 1 // ततो विमृश्य परिभुज्यतेऽपि अन्निकापुत्राचार्य रिव / यदाह-'अन्नियपुत्तायरिओ, भत्तं पाणंच पुप्फचूलाए। उवणीयं भुंजंतो, बंभवयेण सो अलंगज्जा' // 1 // हे गौतम! स गच्छो भणितः। सूत्रेनपुंसकत्वं प्राकृतत्वादिति // 61 / / ग०२ अधि०। (अन्निकापुत्राचार्य- संबन्धश्च 'अण्णिआउत्त' शब्दे वक्ष्यते) अजाणंदिल-पुं०(आर्यनन्दिल) आर्यमङ्गोः शिष्ये आर्य-नागहस्तिगुरौ, नं०। (व्याख्याऽस्य 'अज्जणंदिल' शब्दे द्रष्टव्या) अज्जालद्ध-त्रि०(आर्यालब्ध) साध्वी प्राप्ते, ग०२ अधि० जत्थ य अज्जालद्धं, पडिाहमाई वि विविहउवगरणं / परिभुजइ साहूहि, तं गोयम ! केरिसं गच्छं? ||1|| यत्रच गणे आर्यालब्धं साध्वीप्राप्तं पतद्ग्रहादिकं विविध-मुपकरणमपि किं पुनराहारादिकमित्यपिशब्दार्थः / कारणं विना साधुभिः परिभुज्यते, हे गौतम ! स कीदृशो गच्छः ?, न कीदृशोऽपि / नन्यत्राऽऽर्यालब्धत्वं पतद्ग्रहाद्युपकरणस्य कथं संभवति?, आर्याणां गृहस्थसकाशात् स्वयं वस्त्रपात्रस्यैव ग्रहणनिषेधात्, ग्रहणे च प्रायश्चित्तम्, अनेके दोषाश्च / उक्तं च यतिजीतकल्पप्रकरणे - 'गुरुउवहिअ पडिलेहे, छप्पइयअसोहिकडितताहणे। लहुगा गुरुगजाणं, सयमेव वत्थपायगिहे'' // 1 // अस्याः किं चिदून-पश्चार्द्धवृत्तिलेशो यथा- आर्याणां संयतीनां गृहस्थसकाशात् स्वयमेव वस्त्रपात्रग्रहणे चतुर्गुरुकाः / यतः संयतीनां गृहस्थेभ्यः स्वयमेव वस्त्रादिग्रहणेऽनेकेदोषाः संभवन्ति / तथाहि-संयतीं गृहस्थाद्वस्त्राणि गृह्णन्तीं दृष्ट्वा कोऽप्यभि-नवश्राद्धो मिथ्यात्वं गच्छेत्, निर्ग्रन्थोऽपि भाटीं गृह्णातीति शङ्कते वा / गृहस्थो वा वस्त्राणि दत्त्वा मैथुनमवभाषेत, प्रतिषिद्धे चैषामेव वस्त्राणि गृहीत्वोक्तं न करोतीत्युड्डाहि कुर्यात्। स्त्रीचस्वभावेनाऽल्पसत्त्वा, ततोयेनतेन वा वस्त्रादिनाऽल्पेनापि लोभेन लाभिता चाऽकार्यमपि करोति, बहुमोहाच स्त्री, ततः पुरुषः सह संलापं कुर्वन्त्या वस्त्राणि गृहन्त्याश्च तस्याः पुरुषसंपर्कतो मोहोदीप्यते, उदाररूपां वा संयतीं दृष्ट्वा कार्मणादिना कश्चिद्वशीकुर्यात् / वशीकृताच चारित्रविराधनां करोति, तस्मात् निर्ग्रन्थीभिर्गृहस्थेभ्यः स्वयं वस्त्राणि न ग्राह्याणि, किन्तु तानि गणधरेण दातव्यानि / तत्राऽयं विधिःसंयतीप्रायोग्यमुपधि-मुत्पाद्य सप्तदिनानि स्थापयति, ततः कल्पं कृत्वा स्थविरं स्थविरांवा परिधापयति, यदि नाऽस्ति विकारस्ततः सुन्दरम् / एवं परीक्षामकृत्वा यदि ददाति, तदा चतुर्गुरुकम् / तं च परीक्षितमुपधिमाचार्यो गणिन्याः प्रयच्छति, गणिनी च संयतीनां विधिना ददाति / अथाऽऽचार्यः स्वयं न तासां ददाति तदा चतुर्गुरुकम्, यतः काचित् मन्दधर्मा भणेदस्याश्चोत्तरं दत्तं तेनैषाऽस्येष्टा यौवनस्था च एवमस्थाने स्थापयति / तस्मादाचार्येण प्रवर्त्तिन्या एव हस्ते दातव्यमित्यादि / एतच निशीथपञ्चदशोद्देशकचूर्णावपि सविस्तरमस्तीति / अत्रोच्यते- यदुक्तं भवता,तत् सत्यं, परं संभत्येव, श्रमणाभावादी आर्यालब्धत्वमुपकरणस्य श्रमणासभावादी निन्थीनामपि स्थविरादिक्रमेण स्वयमेव वस्त्रग्रहणस्यानुज्ञानात्। उक्तंच निशीथपञ्चदशोद्देशकचूविव- यथा चोयग आह- यद्येवं, सूत्रस्य नैरर्थक्यं प्रसज्यते। आयरिओ आहअसइ समणाण चोअग!, जायंते निमंतणे तह चेव। जायंति थेरिय सती, व मीसगा मोत्तुमे ठाणे / / 1 / / हे चोदग ! समणाणं असतिथेरियाओ वत्थे जायंते, निमंतणे वत्थं वा गेहंति, जहा साहू तहा ताओ वि, थेरीणं असति तरुणी व त्ति मिस्साउ जायंति इमे ठाणे मोत्तुमित्यादि। अत्र वस्त्रग्रहणवत् पात्रग्रहणमनुक्तमपि श्रमणाभावादावनुज्ञातं संभाव्यते // 1 // अइदुल्लह-भेसजं, बलबुद्धिविवडणं पिपुष्टिकर। अज्जालद्धं मुंजइ, का मेरा तत्थ गच्छम्मि? ||2|| यत्र गणे, अपिशब्दस्य प्रतिविशेषणं संबन्धात् अतिदुर्लभमपि अतिशयेन दुष्प्राप्यमपि। अत्र विभक्तिलोपः प्राकृतत्वात्। समासो वा भैषज्यशब्देन सह। तथा बलबुद्धिविवर्धनमपि, तत्र बलं शरीरसामर्थ्य, बुद्धिर्मेधा, तथा पुष्टिकरमपि शरीरोपचयकार्यपि, भैषज्यमौषधमार्यालब्धं साध्व्यानीतं भुज्यते, साधुभिरिति शेषः / हे गौतम ! (का मेरा) का मर्यादा तत्र गच्छे? न काचिदपीत्यर्थः। मेरेति मर्यादावाची देशीशब्दः // 6 // एगो एगिथिए सद्धिं,जत्थ चिट्ठिल गोअमा!। संजईए विसेसेण, निमेरं तं तु भासिमो // 13 // एक एकाकी साधुरेकाकिन्या स्त्रिया सार्ध हे गौतम ! यत्र तिष्ठेत, तं गच्छं निर्मेरं निर्मर्यादं भाषामहे वयम् / संयत्या च एकाकिन्या एकाकी यत्र साधुस्तिष्ठेत्, तं तु गच्छं विशेषेण निर्भर भाषामहे इति। अत्र एकाकिन्या स्त्रिया साध्व्या च सार्धमेकाकिनः साधोर्यदेकर स्थानवर्जनं तत्, तेषामे कान्ते परस्परमङ्गप्रत्यङ्गादिदर्शनाऽऽलापादिकरणतो दोषोत्पत्तेः संभवात् /